Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 436 सटीकाद्वैतदीपिकायाम् तन्मूलत्वात् / अथ वा यत्र यद्वैशिष्टयमबाधितं तत् तत्र स्वाभावविरोधि नतु परमार्थः तस्य घटत्वादौ ममासिद्धः मिथ्यात्वम्य न प्रपञ्चे बाधः / अस्ति चेत् स एवोपन्यसनीयः। किमनेन साध्यविकल्पपरिश्रमेण व्यर्थेन / मिथ्यात्वनिरुक्तिः मिथ्यात्वं स्वसत्ताकाले स्वाधिकरणसंबन्ध्यत्यन्ताभावप्रतियोगीति ज्ञानं तु न प्रपञ्चे स्ववैशिष्टयविरोधि, मिथ्यात्वस्य प्रपञ्चधर्मत्वाभावेन तज्ज्ञानस्यैवासंभवाञ्च। __न च शुक्तिरजतवत् तत्प्रातोतिकम् / अनुमेयस्य प्रातीतिकस्याभावात् / धर्मिसमानसत्ताकमिथ्यात्वसाध्यस्य प्रातीतिकत्वायोगाच्च / ततश्च धर्मिसदकसत्ताकमिथ्यात्वस्य स्वाधिकरणसंबन्ध्यत्यन्ताभावप्रतियोगित्वज्ञानं प्रपञ्चे तादृशं वैशिष्टचं विना न संभवतीति न तद्विरोधः / अविद्यातिरिक्तदोषजन्यत्वं वा तन्त्रमिति वस्तुगतिः / एवं पक्षादेरपि साधकत्वे द्रष्टव्यम् / अत एव प्रपञ्चप्रामाण्यं व्यावहारिक अद्वैतप्रमाणं तत्त्वावेदक चात्मनि स्वप्रकाशत्वादेः स्वाविषयकात्मसाक्षात्कारे सत्यपि अनिवृत्तेः तदपि तस्य स्वाभाविकमिति भावः। स्वाभावव्यावर्तकत्वे धर्माणां प्रयोजकान्तरमाह-अथ वेति / अत्रापि निविशेषात्मनि स्वप्रकाशत्वादेः बाधेऽपि सविशेषात्मन्यबाधात् तत्र तत् स्वाभावविरोधीनि भावः। न प्रपञ्चे बाध इति / ब्रह्मसाक्षात्कारादपि प्रपञ्चेन सह ब्रह्मण्येव बाधात् सति प्रपञ्चे न तत्र बाध इत्यर्थः / स एवोपन्यसनीय इति / घटादौ सत्त्वानुभवस्य लाघवादिनाऽधिष्ठान विषयत्वोपपादनात् प्रपञ्चे मिथ्यात्वबाधक नास्तीति भावः / ननु प्रपञ्चधर्मस्य मिथ्यात्वस्य मिथ्यात्वे तदत्यन्ताभावः प्रपञ्चे वक्तव्य इति न तत्र मिथ्यात्वसंभव इत्याशक्य शुक्तो रजतात्यन्ताभावस्येव तत्र मिथ्यात्वात्यन्ताभावाधिष्ठानचेतन्यात्मकस्यान्यस्य वा पारमार्थिकत्वात् न मिथ्यात्वप्रतियोगिविरोधितेत्यभिप्रेत्याह-मिध्यात्वमिति / किञ्च प्रपञ्चे मिथ्यात्ववैशिष्ट्यस्यासत्त्वे तस्य तदधिकरणसंबन्धित्वेन तदभावो दुर्जेय इत्याह-मिथ्यात्वस्येति / अनुमानप्रमाणगम्यस्य व्यावहारिकत्वनियमादित्यर्थः / मिथ्यात्वानुमानसाध्यपर्यालाचनायामपि न तस्य प्रातिभासिकतेत्याह-धर्मिसमानेति / फलितमाह-ततश्चेति / धर्माणां स्वविरोधिव्यावर्तकत्वे दोषलेशशङ्कारहितं प्रयोजकमाह-अविद्येति / पक्षहेत्वादीनां स्वसाध्यसाधकत्वेऽपि अविद्यातिरिक्तदोषाजन्यत्वमेव मतद्वयसाधारणं प्रयोजकम् न तु सत्त्वं, सपक्षस्य तु निश्चिसाध्यवत्त्वमेव साधारणं तत्प्रयोजकमित्यभिप्रेत्याह-एवमिति /

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486