Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 443
________________ 422 सटीकाद्वैतदीपिकायाम् रिकप्रातोतिकयोविशेषहेतुभिद्यत इति / शुक्तिरजतादेः प्रातीतिकता ___ तच्च रजतादिकं स्वसत्ताव्यापकप्रतीतिकत्वात् प्रातीतिकमेव, न तु घटादिवदज्ञातसत्ताकम् मानाभावात्। ननु कदाचिदुत्पन्नभ्रमस्य कालान्तरे तदेवेदमिति प्रत्यभिज्ञानाद्रजतमप्यज्ञातमस्त्येव उत्तरभ्रमाधिष्ठानज्ञानयोविनाशहेत्वोरभावाच्चेति चेत् / न / किं समयान्तरे दोषादिषु सत्सु रजतानुभवः उत तैविनापि ? नाद्यः, तदुत्पत्तिकारणस्य नियमेन पूर्वमपेक्षायामुत्पत्तिनियमात् / __ अन्यथा तत्पूर्व तन्नियमानुपपत्तेः। न हि दण्डादिकमपेक्ष्यैव चक्षुर्घटे गाति / न द्वितीयः तदसिद्धः / अतः प्रत्यभिज्ञा तज्जातीयविषयव, कारणविनाशाच्च विनाशः / एतेन यत्त्वया दृष्टं तदेव मयापीति प्रत्यभिज्ञापि निरूपिता, तस्य परं प्रत्युपलभ्भायोग्यत्वाच्च / तच्च परस्यापि तदुत्पत्तिकारणे सत्येवोपलभ्भात् सिद्धम्। घटादिकं तु इदानीं कारणविशेषप्रयुक्त कार्यविशेषमाह-तच्चेति / भ्रमविषयरजतस्यैव वाधाभावे कालान्तरे प्रत्यभिज्ञायमानत्वात् तस्य स्थायित्वेनाज्ञातसत्वमावश्यकमिति चोदयति-नन्विति / पूर्वगृहीतरजतस्य नष्टत्वात् प्रत्यभिज्ञा जातिविषयिणीत्याशंक्य तन्नाशकाभावान्मैवमित्याह-उतरेति / विकल्पासहत्वान्नैतदित्याह-न किमिति / रजातानुभव इति / प्रत्यभिज्ञाहेतुधर्म्यनुभव इत्यर्थः : पुष्कलकारणे सत्यनन्तरक्षणे कार्योत्पत्तिनियमाद्रजतद्वयानुपलंभात्पूर्वगृहीतस्य तत्राभाव आवश्यक इत्याह-नाद्य इति / पूर्वरजतप्रतीतिरेव तत्कारणमपेक्ष्य भवत्वित्याशंक्य कुत्रापि ज्ञप्तिसामग्रया उत्पादकसामग्रयनपेक्षत्वान्मैवमित्याह-न हीति / तदसिद्धेरिति। दोषादिकं विना कालान्तरे शक्तिरजतानुभवासिद्धरित्यर्थः / व्यक्तिभेदस्यावश्यकत्वात् प्रत्यभिज्ञाऽन्यविषयेत्याहअत इति / पूर्वगृहीतरजतस्य विनाशहेत्वभावात् कथमभाव इत्यत आह-कारणेति / अधिष्ठानसामान्यज्ञाननाशादित्यर्थः / व्यक्त्यैक्यासंभवात् प्रत्यभिज्ञान्तरमपि जातिविषयमित्याह / एतेनेति / सुखादिवदन्यदृष्टरजतस्याऽन्योपलम्भायोग्यत्वादप्येवमेवेत्याहतस्येति / अन्यदृष्टरजतस्यान्योपलन्भायोग्यत्वमेव कथमित्याशंक्योक्तरीत्या तत्र रजतान्तरो. त्पत्तेरावश्यकत्वात् तस्यैव स्वप्रमातृसंसृष्टत्वान्नान्यप्रमातृगतरजतोपलम्भ इत्यभिप्रेत्याह-तच्चेति। घटादिप्रतीतौ चोत्पादककारणानपेक्षणादन्तः करणोपहितचैतन्येऽनध्यासाच्च तस्य साधारणतेत्याह-ठादिकमिति / मिथ्यारजतादेर्घटादीनां वैषम्याभ्युपगमे सत्यत्वापात इत्याशंक्य परमते सर्वस्य सत्वेऽपि यथा सुखादीनांमज्ञातसत्वरा

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486