Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ तृतीयः परिच्छेवः संविद्वद्यत्वलक्षणस्य तस्य ब्रह्मण्यपि सत्वात जडत्वमप्यज्ञातृत्वम् अज्ञानत्वं वा अस्वप्रकाशत्वं वा अनात्मत्वं वा पराभिप्रतं वा ? नाद्यः त्वन्मते पक्षकदेशान्तः करणस्य ज्ञातृत्वात् शुद्धात्मनोऽप्यज्ञातृत्वाच्च / न द्वितीयः वृत्तिज्ञाने भागासिद्धः न तृतीयः निरस्तत्वात् / चतुर्थेऽपि न तावदात्मत्वं जातिरूपम् / एकत्वात्तस्य / नाप्यत्वं तदभाव. स्याहंकारे सिद्धः। नापि पराभिप्रतं, मयाऽज्ञातृत्वं जडत्वमित्यङ्गीकारात परिच्छिन्नत्वमपि देशतः कालतः वस्तुतो वा ?, नाद्वितीयौ, देशकालादिष्वसिद्धः अवकाशरूपदेशस्य कालस्य चापरिच्छिन्नत्वेन धर्मिग्राहिणा आकाशवत्सर्वगतश्च नित्यः सदेव सोम्येदमन आसीदित्यादिश्रुत्या च सिद्धत्वात देशकालं विनाऽऽत्मास्तीत्यस्य व्याहतत्वात् / देशः सर्वत्रास्ति कालः सर्वदास्ति पूर्वः काल इत्याद्यवाधित. प्रतीत्या तयोः स्वनिर्वाहकतया प्रमेयत्वादिवत्स्वसंबंधसंभवाच्च। अज्ञानस्य च देशकालोपादानत्वेन सर्वगतब्रह्मावरणत्वेन परिच्छिन्नत्वायोगाच्च / किञ्च कालादिपरिच्छिन्नत्वं न तावदेककालादिमात्र सत्वं रूप्यादौ ममासिद्धः / नापि कालान्तरा नापीत्यादिना / ब्रह्मण्यपि सत्त्वादिति / ब्रह्मणःसंविदगोचरत्वे व्यवहारगोचरत्वाद्ययोगादिति भावः / अज्ञानत्वं वेति ज्ञानान्यत्वं वेत्यर्थः। अन्तः करणस्य ज्ञातृत्वादिति / ततश्च भागासिद्धिरिति भावः। शुद्धात्मन इति / ज्ञातृत्वं हि परिणामित्वं शुद्धात्मनस्तदयोगेनाज्ञातृत्वाद् व्यभिचार इत्यार्थः / अनात्मत्वं जडत्वमिति कल्पे आत्मत्वस्य दुनिरूपत्वात् तदभावरूपस्य न हेतुतेत्यभिप्रेत्याह-चतुर्थ इति / अज्ञातृत्वं जडत्वमित्यङ्गीकारादिति / तथा चाद्यपक्षोक्त एव दोष इत्यर्थः / भूतलादिदेशस्य कथमपरिच्छिन्नत्वमित्याशंक्यावकाश एव देशः तस्य कालस्य च धर्मिग्राहकानुमानश्रुतिभ्यामपरिछिन्नत्वमभ्युपेयमित्याह-अवकाशेत्यादिना / अभूदासीदिति सृष्टेः पूर्वमेव कालसद्भावावगमान्न तस्य कालपरिच्छेद इति भावः / किं च देशकालसंबन्धस्यवास्तिपदार्थत्वात्तयोः परिच्छिन्नत्वे आत्मनः सर्वत्र सर्वदास्तिता न स्यादित्याह-देशकालमिति / कथं तहि देशकालयोर्देशकालान्तराभावाद् देशोऽस्तीत्यादिव्यवहार इत्याशंक्य स्वस्य स्वेनैव संबन्धात् तदुपपत्तिरित्यभिप्रेत्याभेदेऽपि संबन्धमुपपादयति-देशः सर्वप्रेति / देशतः कालतो वा परिच्छिन्नत्वमज्ञाने भागासिद्धं चेत्याह-अज्ञानस्येति / ममासिद्धरिति / मम मते रूप्यस्यासत्त्वात् / ततश्च साधनवेकल्पमिति भावः। कालान्तरादौ कदाप्यसत्वेन स्वकालादावपि सत्त्वाभावसाधने स्वकालादी कदाचित्सत्वेन कालान्तरादावपि सत्वं किं न स्यात् /

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486