Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 452
________________ तृतीयः परिच्छेदः 431 मिथ्यात्वमिथ्यात्वनिरूपणम् ___ अत्र नवीन: नन्विदं मिथ्यात्वं सत्यं मिथ्या वा ? नाद्यः, दृश्यत्वहेतोस्तत्र व्यभिचारात् / तस्यादृश्यत्वेऽनुमानवैय्यर्थ्यात् / अन्त्ये सिद्धसाधनम्। ननु मिथ्यात्वमपि मिथ्येव / न चैवं प्रपञ्चस्य सत्वापत्तिः धर्मिणो ह्यमिथ्यात्वे धर्ममिथ्यात्वं स्वविरोधिसत्यत्वं गमयेदिति चेत् न मिसत्ताप्रतिकुलस्य मिथ्यात्वस्य मिथ्यात्वे धर्मिणः सत्यत्वात् / धर्मिणो मिथ्यात्वेन धर्मस्य मिथ्यात्वे शुक्तिरजतादिनिष्ठहेतोरपि प्रातिभासिकतापत्या मिथ्यात्वमत्यन्तमप्रामाणिकं च स्यात् / न च मिथ्यात्वं प्रपञ्चसमसत्ताकमिति वाच्यम् मिथ्यात्वस्य व्यावहारिकत्वेऽप्रतिभासिकस्यानपोदितस्वतः प्रामाण्यप्रत्यक्षादिसिद्धस्य प्रपश्वस्य पारमाथिकत्वापत्तेः प्रातिभासिकत्वे च मिथ्यात्वस्य धर्मिणस्तद्विपरीततानियमात् तयोस्तुल्यत्वायोगात्। दृश्यत्वहेतोः निर्वचने पूर्वपक्षः दृश्यत्वमपि वृत्तिव्याप्पत्वं फलव्याप्यत्वं साधारणं वा स्वव्यवहारे स्वातिरिक्तसंविदपेक्षानियतिर्वा ? नाद्यः ब्रह्मणि व्यभिचारात् / न च विपक्षे प्रपञ्चसत्यत्वं द्वतमात्रस्य मिथ्यात्वसाधकानुमानादिना प्रपञ्चस्यापि मिथ्यात्वसिद्धेरिति सिद्धान्ती शंकते--ननु गिथ्यात्वमित्यादिना / मिथ्यात्वस्यासत्यत्वे तद्धर्मिप्रपञ्चस्य सत्यतावश्यंभावात् मिथ्यात्वं दुःसाधमित्यभिप्रेत्याह-न धर्मीति / धर्ममिथ्यात्वे धर्मिमिथ्यात्वमनुकूलमेव ततश्च मिथ्यात्वस्यासत्यत्वे प्रपञ्चासत्यत्वमनुकूलमेवेत्याशंक्य तर्हि धर्मिणः प्रातिभासिकत्वे च धर्मस्य तथात्वापत्त्या दृश्यत्वस्य वाष्पधूमवन्न प्रमापकता स्यादित्याह-धर्मिण इति / ननु मिथ्यात्वं धर्मिसमानसत्ताकमेव / ततश्च तस्य मिथ्यात्वेऽपि न प्रपञ्चसत्यत्वमिति नेत्याह--नचेति / किं प्रपञ्चमिथ्यात्वं व्यावहारिकमुत प्रातिभासिकमाद्येऽध्यस्तधर्माश्रयस्य तद्वैपरीत्यनियमेन प्रातिभासिकत्वानभ्युपगमात्, प्रत्यक्षसिद्धप्रपञ्चस्य पारमार्थिकत्वापातात् मिथ्यात्वस्य धर्मिसमसत्ताकता न सिद्धयेदित्याहमिथ्यात्वस्येति / द्वितीयेऽपि न धर्मिणोस्तुल्यसत्ताकतासिद्धिरित्याह-प्रातिभासिकत्व इति। हेतुरपि दुनिरूप इत्याह--दृश्यत्वमपीति | साधारणमिति / ज्ञानविषयत्वमात्रमित्यर्थः। ननु महाह्रदादेविपक्षस्य धूमवत्त्वेऽपि न धूमस्य वह्निव्यभिचारिता तत्कस्य हेतोः तत्र धूमस्य धर्मिसमसत्ताकत्वाभावादेव सद्रूपे ब्रह्मणि वृत्तिव्याप्यत्वस्य कल्पितत्वेन तत्र तस्य न व्यभिचार इत्याशंवय प्रपंञ्चमिथ्यात्वसिद्धः पूर्वं दृश्यत्वस्य कल्पितत्वासिद्धर्मैवमित्याह--न च विपक्ष इति /

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486