Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 449
________________ 428 सटीकाद्वैतदीपिकायाम् तात्माश्रयः। अथ यत्र यद्वर्तते तत्र तज्ज्ञानत्वं तहि शुक्तिरजतस्यापि सत्वापत्तिः तादृशं सत्वं च प्रपञ्चस्य न निवार्यते / नाप्यबाधितार्थकज्ञानत्वं बाध्यत्वस्य दुनिरूपत्वेन तस्य निरस्तत्वात् / / न च निर्दष्टकरणजन्यं ज्ञानं प्रमा तद्विषयता सत्वं प्रमाविरहकालेऽसत्त्वप्रसङ्गात् / तदापीश्वरप्रमाऽस्तीति चेत् न तस्य निर्दुष्टकरणाजन्यत्वात् शुक्तिरूप्यज्ञानस्थापि प्रपञ्चज्ञानवद्दोषाजन्यत्वाच्च / न च प्रमाविषयत्वयोग्यता सत्वम् तन्निरूपकाभावात् / पदार्थत्वादेरसदन्यत्वस्य वा शुक्तिरूप्यादौ सत्वात् / न च तवभाववति तद्वैशिष्टयाविषयं ज्ञानं प्रमा तद्विषयः सत्य इति वाच्यं / पराभिमतासतस्तत्सत्वात् / प्रमेयमिति ज्ञाने तदभावविशिष्टज्ञानासंभवेन प्रतियोग्यभावाच्च एतस्मिन् प्रमाणाभावाच्च। सद्बुद्धरपि शुक्तिरजतादेरिवोपपत्तेः रणाजन्यत्वं वा तदभाववति तद्वैशिष्टयाविषयज्ञानत्वं वेत्यभिप्रेत्याद्यमनूद्य निराकरोतियदीति / आत्माश्रय इति / अर्थसत्वे सिद्ध एव सदर्थविषयज्ञानविषयत्वसिद्धिरित्यर्थः / द्वितीयमन्द्य निराकरोति-अथेत्यादिना / अवाध्यत्वं सत्वमित्यत्रोक्तविकल्पदूषणानामत्रापि प्रसरान्न तृतीयोऽपीत्याह-नाप्यवाधितेति / ... चतुर्थे विकल्प प्रमाविषयत्वपक्षं प्रथमं निराकरोति-न च निदुष्टेत्यादिना / असत्त्वप्रसंगादिति / विषयत्वस्य ज्ञानघटिततया तत्समानकालीनत्वादिति भावः / ईश्वरप्रमाविषयत्वस्य यावद्दव्यभावित्वान्नोक्तदोष इत्याशंक्य तस्य नित्यतया निर्दुष्टकरणजन्यत्वाभावान्न प्रमात्वमित्याह-तदापीत्यादिना / निर्दुष्टकरणजन्यपदेन दोषाजन्यत्वस्य विवक्षितत्वादीश्वरज्ञानमपि प्रमैवेत्याशंक्य तर्हि मिथ्यारजतस्यापि नित्यसाक्षिवेद्यत्वादतिप्रसंग इत्याह-शुक्तिरूप्येति / निर्दुष्टकरणजन्यज्ञानविषयत्वस्य कादाचित्कत्वेऽपि तद्योग्यताया यावद्रव्यभावित्वान्नोक्तदोष इति द्वितीयं पक्षमाशंक्य योग्यतावच्छेदकानिरूपणात्प्रमैवासिद्धेत्याह-न च प्रमेति / सम्भावितावच्छेदकं दूषयति-पदार्थत्वादेरिति / पञ्चमं निरस्यति-न च तदभाववतीति / असतस्तत्सत्वादिति / नवीनाभिमतबन्ध्यापुत्रादेः स्वाभाववत्ति स्ववैशिष्ट्याविषयज्ञानविषयत्वात् सत्वापात इत्यर्थः / प्रमेयत्वाभावस्य कुत्राप्यभावात्तद्विशिष्टप्रमायां प्रतियोग्यप्रसिद्धयाऽव्याप्तेश्चेत्याहप्रभेयमिति : किं च प्रपञ्चज्ञानस्यापि तदभाववति तद्वैशिष्ट्याविषयत्वे न किञ्चिन्मानमस्ति विद्यमानविषयत्वस्य श्रुक्तिरजतज्ञानवत्तदभाववति तद्विशिष्टविषयत्वेऽप्युपपत्ते

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486