Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 424 सटीकाद्वैतदीपिकायाम् तच्च स्वाकारवत्ति विनवाधिकरणीभूताभिव्यक्तसाक्षिसंवद्धं साक्षिणा प्रकाश्यते। परोक्षम्रमे तु नार्थध्यासः तत्र प्रमाणाभावात् / अर्थ विना ज्ञानानुपपत्त्यभावात् / किन्तु यथा भट्टवैशेषिकादेरभ्युपगमस्तथैव अस्माकं दुनिरूपेणापि व्यवहारो पपत्तेः रजतादौ प्रत्यक्षत्वात् दोषाधुपयोगार्थ चार्थस्वीकारः तच्च रजतं रजतत्वाश्रयम् / ___ अन्यथाऽनुभवविरोधात रजतार्थिनः प्रवृत्तिविरहप्रसङ्गाच्च पूर्वदृष्टसजातीयस्येत्याचार्योक्तश्च / स्वप्नरथादौ रथादिशब्दप्रयोगानुपपत्तेश्च। कथं तहि रजतत्वेन कंकणादिजनकत्वानुमानं तेन विना वा तदथिनः कथं रजते प्रवृत्तिः ? रजतत्वस्यायोग्यवृत्तित्वाज्ञानदशायां तत एव तज्ज्ञानात् / तदा तु दोषविशेषाजन्यरजतत्वेन तदनुमानम् / अत एव तस्य दोषाजन्यत्वसंशयविपर्ययदशायां निष्कंपप्रवृत्त्यभावात् / वीक्षायामुक्तमधिकरणीभूतेति / इदमाकारवृत्त्या प्रमात्रभेदेनाभिव्यक्तेदमंशावच्छिन्नचैतन्येऽध्यस्तं रजतमुत्पत्त्यैव साक्षिसंबद्धं सुखादिवत्तेनैव भासत इत्यर्थः / ___ नन्वनाप्तवाक्यात् पर्वते धूमभ्रमस्ततो वह्निभ्रमश्च दृश्यते / तत्र पर्वतावच्छिन्नचैतन्यस्याविद्याक्षोभकवृत्तिसंसर्गाभावात् कथमर्थाध्यास इत्याशंकर परोक्षभ्रमेऽर्थाध्यासाभाव इत्याह-परोक्षेति / अर्थाभावे कथं ज्ञानमित्यत आह–अर्थविनेति / अत्यन्तासत्यप्यर्थं परोक्षज्ञानाभ्युपगमात् तस्योपपादितत्वाच्च न विषयेण विना तदनुपपत्तिः। सर्वैरप्याचार्यैरपरोक्षभ्रमानुपपत्त्यैवानिर्वचनीयार्थसाधनात् तेषां परोक्षभ्रमे तदभावः संमतः। अतीतादिविषयपरोक्षप्रमायामपि तत्कालीनार्थाभावस्य तैरेवोपपादनादिति भावः / तहि तत्र का वा ख्यातिरिति वीक्षायां परोक्षभ्रमात्मकबुद्धिवृत्तेरनिर्वचनीयत्वाद् विषयस्य वैशेषिकाद्यभिमतसंसर्गवदसत्त्वात् तदनिर्वचनीयख्यातिरेवेयमित्यभिप्रेत्याह-किन्त्वित्यादिन।। किं चास्य ख्यातिविशेषत्वानिर्णयेऽपि नास्माकं क्षतिस्तन्नि: यस्यासद्विषयत्वप्रतिपत्त्यनुपयोगित्वात् व्यवहारस्य च दुनिरूपेणापि संभवादित्याह--- दुर्निरूपेणापी त / तर्हि परोक्षभ्रमवत्प्रत्यक्षभ्रमेऽप्यसन्नेवार्थः प्रतीयतामित्यत आहरजतादाविति : शुक्तिरूप्ये रजतत्वं नेति केचित्तान् प्रत्याह--तच्चेति / स्वप् रथादाविति / रथादिपदानां लोके रथत्वादिविशिष्टे व्युत्पत्तिग्रहणात् स्वप्नरथादौ रथत्त्वाद्यभावे तत्र व्युत्पत्त्यन्तराभावाद्रथादिपदैस्तत्प्रतीतिनं स्यादित्यर्थः। प्रवृत्तिविरहप्रसंगादित्युक्तं विवृणोति-कथं तहीति / रजतत्वस्य कंककणाद्ययोग्येऽपि सत्वे कथं ततस्तत्साधनत्वानुमानमित्यत आह-रजतत्वस्येति / अयोग्यवृत्तित्वज्ञानदशायां कथं तदनुमानमित्यत आह - तदात्विति / न च दोषजन्ये तदजन्यत्वमसिद्ध मिति वाच्यम् / तथापि तद्मसंभवादिति भावः / दोषविशेषाजन्यत्वविशेषितरजतत्वज्ञानादेव प्रवृत्तिरित्यत्र गमकमाह-अत एवेति /

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486