Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 418 सटीकाद्वैतदीपिकायाम् रूपानुभवे चक्षुष उपयोग इति वाच्यम् / रूपवद्रव्यान्तरस्याननुभवात् / न च विचित्ररत्नस्य मेरो लप्रभा काचित् गगनदेशव्यापिनी विद्यते तद्रूपमनुभूय तत्रारोप्यत इति वाच्यम् / तदुत्प्रेक्षायां प्रमाणाभावात् रात्रावपि तद्ग्रहणप्रसंगाच्च / अनेकयोजनव्यवहितमेरो रत्नप्रभाया असंभवाच्च / अन्यथाऽतिनिकटगगनप्रदेशेऽपि सा प्रभाऽनुभूयेत पीतादिप्रभाया अपि निर्मेघे गगनेऽनुभवप्रसङ्गाच्च वियत्यातपत्राकारताया अन्यत्राननुभवाच्च। किञ्चान्धादेः स्मर्यमाणरूपारोपः किं न स्यात यदि तत्स्फुरणं तत्र न कारणं नहि सर्वत्रानुभूयमानमेवारोप्यते प्रसिद्धभ्रमापलापप्रसङ्गात् / स्वपक्षस्यैव सिद्धान्तत्वनिर्णयः किञ्चारोप्यस्यापरोक्षत्वेऽधिष्ठानापरोक्षत्वं तन्त्रम् / अन्यथा वायावप्यपरोक्षनीलभ्रमः स्यात् / तस्मादस्मदुक्तविधया साक्षिवेद्ये गगने नीलिमारोप इति / द्वितीयं निराकरोति-न चानुभूयमानेति / रूपबद्रव्यान्तरस्येति / नीलद्रव्यान्तरस्येत्यर्थः। महामेरौ हरिदुपलानां बहुत्वात् तत्प्रभायाः सर्वत्र गगनदेशप्रसरात् तद्गतनीलरूपं गृह्यमाणं गगनेऽध्यस्यत इति कल्पना तार्किकाणां निमूलेति दूषयति-न च विचित्रेत्यादिना / रात्राविति / चन्द्रप्रकाशबहुलायां रात्रावित्यर्थः / न च तदा चन्द्रप्रकाशप्रतिहता नीलप्रभा न गृह्यन्त इति वाच्यम् / तथात्वे तस्याप्यभिभावकसौरप्रकाशे सति दिवा तद्गहणायोगादिति भावः / किं च नीलप्रभव सर्वत्र प्रसरत्युत रत्नान्तरप्रभापि ? आद्य नीलप्रभाया अपि तत्तुल्ययोगक्षेमत्वान्न सर्वत्र प्रसर इत्यभिप्रेत्याह-अनेकेति / विपक्षे वाधकमाहअन्यथेति / द्वितीये दोषमाह-पीतादीति / मेघे सतीन्द्रियनिरूपणानेकप्रभा भातीतीष्टापत्तिवारणाय निर्मेध इत्युक्तं गृह्यमाणारोपपक्षे भ्रमान्तरमपि न स्यादित्याह-वियतीति / किञ्च शुक्त्यादौ स्मर्यमाणरजताधारोपाभ्युपगमादधिष्ठानापरोक्ष्यस्यानपेक्षितत्वेऽन्धादेर्गगने गृह्यमाणनीलरूपारोपाभावेऽपि स्मर्यमाणतदारोपः स्यादेवेत्याहकिञ्चति / न चान्धादीनां दोषाभावादेव न तदारोप इति वाच्यम्। दूरस्थतातिरेकेणान्यत्रापि तदभावात् तस्याश्च सर्वसाधारणत्वादिति भावः। गगनस्योक्तविधया परोक्षत्वाभावे चक्षष्मतोऽपि तत्र नीलत्वम्रमो न स्यादित्यभिप्रेत्याधिष्ठानापरोक्षस्यापरोक्ष. भ्रमहेतुतो साधयति-किं चागेप्यस्येति / रूपादिहीनगगनस्य कथमपरोक्षत्वमित्यत आह–तस्मादिति / ननु दिक्कालविशेषेषु दिवकालान्तरभ्रमः प्रत्यक्षोऽनुभूयते, तत्र

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486