Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ तृतीयः परिच्छेदः 417 धिकरणचैतन्यस्य रजताधिकरणचैतन्यस्येवाभिव्यक्यभ्युपगमे दोषाभावाच्च / न चातिप्रसङ्गः अनुभवान्वयव्यतिरेकयोरेव नियामकत्वात् / अन्यथा घटाकारवत्तिव्यक्तचैतन्येन वृत्तेर्भानायोगात् / अत एवाकाशानुगतसत्ताग्रहणे चक्षुष उपयोग इति संप्रदायविदः, तदाधारसत एव तत्सत्तारूपत्वात् सर्वगताकाशाश्रयचैतन्यस्य तेजोऽवच्छिन्नत्वाच्च / वायुश्च न चक्षुरभिव्यक्तसाक्षिप्रकाश्यः गुरुत्वाविवदयोग्यत्वात् / ___ आकाशस्य साक्षिवेद्यत्वाभावे अन्धानां निमीलिताक्षाणामप्युपनीताकाशे नीलं नभ इति भ्रमः स्यात् / उपनीतनल्यस्य ग्रहणसंभवाच्च / चक्षुराकाशसंयोगस्यायोग्यसंयोगतया तत्राहेतुत्वात् / न चानुभूयमानारोपोऽयं तथा च शुक्तिरजतादौ स्वाकारवृत्त्यभावेऽपि इदमाकारवृत्त्यभिव्यक्तसाक्षिभास्यत्वदर्शनान्नोक्तदोष इत्यर्थः। आकाशस्य स्वोपाधिगोचरचाक्षुषवृत्त्यभिव्यक्तसाक्षिभास्यत्वे वायोरपि तथात्वं स्यादित्यत आह-न चेति / चक्षुषः संयुक्तत्वेऽपि चाक्षषवृत्तेरिव तदभिव्यक्तसाक्षिणाप्यननुभवादेवायोग्यो वायुश्चक्षापारे सत्येवाकाशस्फुरणस्यानुभवसिद्धत्वात् / तत्र चक्षुषः साक्षादुपयोगायोगादुक्तविधया तदुपयोग इत्यर्थः / किं च सर्वस्य स्वाकारवृत्त्यभिव्यक्तचैतन्येनैव भाननियमे वृत्तिगोचरवृत्त्यन्तरायोगादनंगीकाराच्च तद्भानं न स्यादित्याह-अन्यथेति / आकाशसत्तास्फूतिरूपस्य तदधिष्ठानचैतन्यस्यान्याकारचाक्षुषवृत्याभिव्यक्तरुपपादनात् तत्वदीपनकारोक्तमपि युक्तमित्याह--अत एवेति / तेजः संसृष्टचाक्षुषवृत्त्या कथं आकाशाधिष्ठानचैतन्याभिव्यक्तिः, संबन्धाभावादित्यत आह-सर्वगतेति / यथा तेजः संसृष्टचाक्षुषवृत्त्या तदधिष्ठानचैतन्यस्य तदच्छिन्नत्वादभिव्यक्तिरेवं सर्वगताकाशाधिष्ठानचैतन्यस्यापि तेजोऽवच्छिन्नत्वात् ततोऽभिव्यक्तिरित्यर्थः। तहि वायोरपि तेजोऽवच्छिन्नस्वाधिष्ठानचैतन्येन तवृत्या. ऽभिव्यक्तेन भानं स्यादित्यत आह-वायुश्चेति चाक्षुषवृत्तौ सत्यामपि वाय्वधिष्ठानचैतन्यस्य कदाप्यननुभवान्न ततोऽभिव्यक्तियोग्यं इत्यभिव्यक्तसाक्षिणं प्रत्ययोग्यत्वान्न ततो भानमित्यर्थः / उक्तविधयो नभसः साक्षिवेद्यत्वाभावे बाधकमाह-आकाशस्येति / नभसो नित्यपरोक्षत्वे तत्र कि नीलभ्रमः स्मर्यमाणारोप उत गृह्यमाणारोपः ? आये तस्य चक्षुषाधिष्ठानादिग्रहानपेक्षत्वानिमीलिताक्षादेरपीतरस्येव तद्भ्रमः स्यादित्यर्थः / स्मृत्युपनीतस्य परोक्षत्वान्नापरोक्षभ्रम इत्याशंक्य परमते स्मृत्युपनीतरजतादेरापरोक्ष्याभ्युपगमान्मैवमित्याह-उपनीतेति। चक्षरधिष्ठानसंयोगस्यात्र हेतुत्वात् तदभावादेव तदभाव इत्याशंक्य तस्य वाय्वादाविवायोग्यत्वान्न हेतुतेत्याह-चक्षुराकाशेति /

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486