Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 416 सटीकाद्वैतदीपिकायाम् चाक्षुषत्वे वायोरपि चाक्षुषत्वापत्तेः। ___ अत एव पञ्चीकरणे मोरूपत्वमाकाशस्यासिद्धमिति निरस्तम् / नीरूपभागस्याधिक्यात् अनुभूतरूपतया वा वायुवदतीन्द्रियत्वात् / यत्तु शुक्लमाकाशमिति / तन्न / अननुभवात् शब्दमात्रगुणतया तस्य स्मृतिसिद्धत्वाच्च / कथं तहि तत्प्रत्यक्षस्येन्द्रियव्यापारानुविधानं ? न कथञ्चिदिति केचित् इन्द्रियस्यालोकग्रहण एवोपक्षीणत्वात् / आकाशस्य आलोकाकारवृत्त्यभिव्यक्तसाक्षिवेद्यता ___ अपरे तु महानिशि पिनद्धद्वारकगुहान्तस्थस्येदं नभ इत्याकाशाननुभवादालोके चानुभवादस्ति प्रकाशस्य नभःप्रत्यक्ष उपयोगः। आलोकश्च चक्षुष एव सहकारी / एवं निमीलिताक्षस्यापीदं नभ इत्यननुभवादस्ति चक्षुषस्तत्रोपयोगः / स च न साक्षात् नीरूपद्रव्ये तस्य तदयोगात् / किन्तु सर्वगताकाशेऽपि प्रसृतप्रकाशाकारान्तःकरणवत्त्यभिव्यक्तसाक्षिभास्यमाकाशम् / रूपहीनस्यापि द्रव्यस्यान्तः करणादिवत्साक्षिभास्यत्वाविरोधात्। अनुभवादन्याकारवृत्याऽन्या आह-अत एवेति / पञ्चीकृताकाशेऽपि रूपवद्भागस्याल्पत्वान्नीरूपभागस्य बहत्वाद् वैशेष्यात् तद्वाद इति न्यायेन नीरूपं नभ इत्युच्यत इत्यर्थः। नीरूपभागस्य बहुत्वादेव वायाविव नभस्यपि रूपभागस्यानुद्भूतत्वाच्च नेन्द्रियगम्यतेत्याह-अद्भतेति / उद्भतरूपवदेव नभ इति कस्यचिन्मतमनूद्य दूषयति-यत्त्वित्यादिना / अननुभवादिति / प्रभादिनिष्ठ शौकल्यव्यतिरेकेणाकाशे तदननुभवादित्यर्थः। ‘शब्दमात्रमभूत्तस्मान्नभः श्रोत्रं तु शब्दगमि"- त्यादिस्मृतिविरु द्वं नभस उद्भूतरूपवत्वाभिधानमित्याह-शब्दमन्त्रेति / चक्षुष आकाशग्रहणाहेतुत्वे तस्य व थमनन्यथासिद्धान्वयव्यतिरेकाविति चोदयति-कथं तहीति / अनन्यथासिद्धत्वमसिद्धमित्याह-न कथं चिदिति / आकाशसाधकसाक्ष्यभिव्यञ्जकवृत्त्युत्पादनेन चतुषस्तत्रोपयोग इति सिद्धान्तं दर्शयितुं प्रथमं तत्रालोकस्यावश्यापेक्षणीयतामाह--अपरे स्वित्यादिना / आलोकस्योपयोगेऽपि कथं चक्षुषस्तत्रोपयोग इत्यत्राह-आलोकश्चेति / आलोकवच्चक्षुषोऽपि स्वत एवान्वयब्यतिरेकदर्शनात् तदपेक्षेत्याह--एवमिति / अस्तु ताकाशगोचरवृत्तिजननेनैव तत्प्रतिभासोपयोग इति नेत्याह--स चेति / कथं तहि चक्षुष आकाशप्रतिभासोपयोग इत्याशंक्याऽऽकाशस्य स्वावच्छेदकरूपवद्रव्यगोचरवृत्त्यभिव्यक्तसाक्षिभास्यत्वात् तद्वत्तेश्च चक्षुर्जन्यत्वादुपयोग इत्यभिप्रेत्याह-- किन्त्विति / विमतं चाक्षुषवृत्त्यभिव्यक्तसाक्षिप्रत्यक्षायोग्यं रूपहीनद्रव्यत्वात् वायुवदित्याशंक्याह--रूपहीनेति / घटाद्याकारचाक्षुषवृत्त्यभिव्यक्तसाक्षिणा वृत्तिमदन्तःकरणस्यापि भानात् तत्र व्यभिचार इत्यर्थः / अन्तः करणस्य प्रमातृपक्षनिक्षिप्तत्वाद्भवत्वन्याकारवृत्यभिव्यक्तसाक्षिभास्यत्वं, प्रमेयस्य तु पुनस्तदयुक्तमित्याशंक्याह---अनुभवादिति /

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486