Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 435
________________ 414 सटोकाद्वैतदीपिकायाम् अथवा चक्षुषा रजतं पश्यामीत्यनुभवः पुत्रेण सुखमनुभवामीत्यनुभव इव पुत्रस्य सुखं प्रति परपरया चक्षुषोऽपि रजतं प्रति जनकत्वे प्रमाणम् न तु ज्ञानजनकत्वे ज्ञानान्तरस्य तत्कारणस्य चाभावात् / अपिच स्वप्ने रजतादीनामपरोक्षभ्रमः सर्वसंप्रतिपन्नः / स च नेन्द्रियजन्यः तत्र तदभावात् / मनसो वहिविशेष्येऽसामर्थ्यात् / न च ज्ञानादिकं तत्र प्रत्यासत्तिः, तस्य निरस्तत्वात् / अथ रथान रथयोगानित्यादिना तत्र सृष्टयन्तरश्रवणाच्च मनसोऽकरणत्वं चोक्तम् / तथा च स्वप्नेऽध्यस्तानां साक्षिभास्यत्वं क्लप्तमिति जागरेऽपि चक्षुषा पश्यामीत्यनुभवः स्वप्न इव / तस्माच्छुक्तिरजतज्ञानं नेन्द्रियजन्यं तत्सन्निकर्षाजन्यज्ञानत्वात् स्वप्ने रजतज्ञानवत् / विपक्षे च ज्ञानान्तरादिकल्पनागौरवं आचार्याणामविद्यावृत्त्यभिधानं चाक्षुषत्वाभावपरं एतैरेव क्वचिदध्यस्तज्ञाने नित्यत्वस्योक्तत्वात / द्वितीयं दूषयति-वृत्तेवेति / इदमाकारायाः घटाद्याकारयिाश्च चाक्षुषवृत्तेः स्वाकारवृत्तिमनपेक्ष्यैव स्वमात्राभिव्यक्तचिद्भास्यत्वं दृष्टमितरथाऽनवस्थापातादित्यर्थः चक्षुषा रजतं पश्यामीत्यस्य प्रकारान्तरेणान्यथासिद्धिमाह-अथवति / पुत्रस्य सुखसाधनसंपादनेन पितरि सुखोत्पादकत्वमात्रेण सुखमनुभवामीत्यनुभवः एवं चक्षुषोऽपि रजताकारेणेदमाकारवृत्तिजननद्वारा रजतोत्पादकत्वाच्चक्षुषा रजतं पश्यामीत्यनुभव इत्यर्थः। - ननु चक्षुषा घटं पश्यामीत्यत्र घटज्ञानस्य चक्षुर्जन्यत्वमेव विषयः तद्वदत्र किं न स्यादित्याशंक्योक्तरीत्या रजते जन्यज्ञानासंभवान् मैवमित्याह-न विति / रजतज्ञाने चाक्षुषत्वानुभवस्यान्यथासिद्धत्वं तस्येन्द्रियाजन्यत्वं च स्वप्नदृष्टान्तेनापि साधयितुं स्वप्नगजादेः केवलसाक्षिभास्यत्वमुपपादयति-अपिचेत्यादिना / असद्गजादिविषयमानसं ज्ञानमेव स्वप्न इत्याशंकायामाह- अथरथानिति / असतोऽपरोक्षत्वमप्यनुपपन्नमिति चार्थः / मनसः अप्रमाणत्वात्तस्य स्वप्नधीकरणत्वमप्यसंभवीत्याह-- मनस इति / फलितमाह-तथा चेति ! इन्द्रियसंयोगादी व्यभिचाराभावाय ज्ञानत्वादिति अ-निकृष्टविषयचाक्षुषज्ञानं ज्ञानान्तरम् / ननु विवरणाचार्यैरिदमाकारवृत्त्यवच्छिन्नचैतन्यस्थाविद्या रजतज्ञानाभासाकारेण परिणमत इनि रजतविषयाविद्यावृत्तेरुक्तत्वात् तद्विरुद्धं रजतस्य स्वाकारवृत्तिमनपेक्ष्य साक्षिभास्यत्वसाधनमित्याशंक्य रजतस्य सुखादिवदनावृत्तसाक्षिण्यध्यासस्य तैरेवोक्तत्वेन रजतगोचराविद्यावृत्तेरुपयोगाभावात् इतीदमाकारवृत्तिनाशादेव तद्विषयसंस्कारवत् रजतविषयसंस्कारस्य यद॒त्यवच्छिन्नचैतन्येन यद्भासत इत्युक्तन्यायेन सिद्धः / रजतस्य चाक्षुषत्वाभावाभिप्रायेणैवाचार्याणामविद्यावृत्त्यभिधानमित्याह--आचार्याणा

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486