Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 434
________________ तृतीयः परिच्छेदः 413 413 शुक्तिरजतस्य ज्ञातैकसत्ताकत्वम् अज्ञातस्यापि रजतस्य सत्वे शुक्तिरिव सर्वैरपि गोत पुरुषविशेषोपलम्भनियामकाभावात् / दोषं विना वा शुक्तिरिवानुभूयेत / इन्द्रियसंयुक्तार्थज्ञानस्य दोषाजन्यत्वात् शुक्तिरजतस्येनि यसंयोगहेतुत्वे चार्थक्रियाकारितयाऽतिप्रसंगात् / एतावत्कालमिह रजतं नासीदिदानी वर्तत इति प्रतीतेः प्रमाणत्वाच्च / नापि संयुक्ततादात्म्याद्रजतग्रहणम् / तस्य इन्तग्रहणेऽहेतुत्वात नापीन्द्रियं सन्निकर्ष विनैव तद्ग्रह्णाति / इन्द्रियजन्यप्रत्यक्षमात्रे तत्सन्निकर्षस्यापि हेतुत्वात् / तस्य विषयजन्यत्वनियमाच्चेत्युक्तम् / न चेन्द्रियान्वयव्यतिरेकाभ्यां रजतज्ञानस्य तज्जन्यत्वम् रजतप्रकाशस्य साक्षिणश्चक्षुर्जन्यवृत्त्य भिव्यंग्यतया तदुपपत्तेः। अत एव चक्षुषा रजतं पश्यामी. त्यनुभवाविरोधः। ___न चान्यथासिद्धानुभवेन तस्य ज्ञानान्तरं कल्पयितुं शक्यम् / क्लप्तकारणा. भावेन तदयोगाच्च / अन्यस्यान्याकारवृत्त्यभिव्यक्तसाक्षिभास्यत्वं न युक्तमिति चेत् / तत् किमहंकार स्वप्नगजादेवृत्तेर्वा वृत्तिभास्यत्वम् / एवं रजतस्य स्वज्ञानात् पूर्वभावित्वे मानाभावमुक्त्वा तदभ्युपगमे बाधकमाह-- अज्ञातस्येति / दोषस्यापि रजतज्ञानहेतुत्वात्तेन विना कथं तस्योपलंभ इत्याशंक्याहइन्द्रियेति / किञ्च शुक्त्यादिवद्रजतस्य संयोगहेतुत्वे व्यावहारिकतापत्त्या कटकादिकमपि ततः स्यादित्याह-शक्तिरजतस्येति / प्रतीतेः प्रागवस्थानकल्पनमनुभवविरुद्धं चेत्याह एतावदिति / द्वितीयं निरस्यति--नापति / गुणादेरेव संयुक्ततादात्म्यग्राह्यत्वान्न द्रब्यस्य तद्ग्राह्यतेत्यर्थः। सन्निकर्षमनपेक्ष्ये ति पक्षं निरस्यति- नापीन्द्रियमिति / रजतज्ञानस्य चक्षुरजन्यत्वे तदन्वयव्यतिरेकविरोधश्चक्षुषा रजतं पश्यामीत्यनुभवविरोधश्चेत्याशंक्य तयोरन्यथासिद्धिमाह-न चेन्द्रियेत्यादिना / ननु घटादेः स्वाकारवृत्त्यभिव्यक्तसाक्षिभास्यत्वमेव दृष्टं तत्कथं रजतस्येदमाकारवृत्यभिव्यक्तसाक्षिभास्यतेति शंकते-अन्यस्येति / किंचिद् भास्यस्य सर्वस्य स्वाकारवृत्त्यपेक्षया चिद्भास्यत्वनियमादिदमयुक्तमित्युच्यते उत चाक्षुषवृत्त्यभिव्यक्तचिद्भास्यस्यायं नियम इति ? तत्र नाद्य इत्याहतत्किमिति : अहंकारस्वप्नगजादेरनावृतसाक्षिण्यध्यासेन रखाकारवृत्तेरनुपयोगेन केवलसाक्षिभास्यत्वान्न सर्वत्रोक्तनियम इत्यर्थः /

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486