Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 415 तृतीयः परिच्छेदः रजतस्य साक्षिभास्यत्वे आक्षेप: नन्वेवमन्धस्य त्वगिन्द्रियोपनीते रूपविशेषवद्रजतादिभ्रमः स्यात्। एवमाकाशे रूपभ्रमो न स्यात् चक्षुषा तत्स्फुरणाभावात् / एवं तिक्तो गुड इति भ्रमोऽपि न स्यादिति / न / जाग्रति रजताधारोपे हि सादृश्यप्रत्यक्षमपि दोषतया कारणं नियमेन तदन्वयाद्यनुविधानात्तस्य / तच्च नान्धस्य / न च सादृश्यज्ञाने रजतज्ञाने चोभयत्र चक्षुः कारणम् प्रमाणाभावात् / आकाशेऽपि स्फुरणमस्त्येव / तथा हि न तावदप्रत्यक्षमाकाशं लिङ्गानुसंधानं विनापि तदनुभवात् / ध्वनिर्वायुधर्मो वर्णश्च नित्यद्र व्यमिति निश्चयवतामपीदमाकाशमित्यनुभवात् / आकाशस्य प्रत्यक्षत्वे वाधकम् नन्वाकाशो न वहिरिन्द्रियग्रह्यः रूपस्पर्शहीनत्वात् / नापि मानसप्रत्यक्षः मनसो वाह्यागोचरत्वात् / तव मते तस्याकरणत्वाच्च / अतः कथं स प्रत्यक्ष इति / न। साक्षिप्रत्यक्षविषयत्वात् / न चेन्द्रियव्यापारेणाकाशस्यानुभवात् तस्य चाक्षुषत्वं, नीरूपस्यापि मिति / किं चाचार्यैरेवात्मचैतन्यमात्मानात्मसंभेदावभासि स्वरूपेणाजन्यत्वेऽपि विशिष्टविषयोपरक्तत्वाकारेण जन्यत इत्यादिनाऽहंकारतद्धर्माणां स्वाकारवृत्तिमनपेक्ष्यानावृतसाक्षिण्यध्यासमात्रेण तद्भास्यत्वस्य निपुणतरभुपपादितत्त्वात्तन्न्यायस्य रजतादावपि तुल्थत्वात् तेषामुक्त एवाभिप्राय इत्याह-एतैरेवेति / इन्द्रियस्याधिष्ठानग्रह एवोपक्षयेऽतिप्रसंगंशंकते--नन्वेव मिति / रजतादिमात्रभ्रम इष्ट इत्याशंक्य रूपविशेषवदित्युक्तम्। आरोप्यसजातीयग्राहकेणैवेन्द्रियेणाधिष्ठानग्रहो हेतुरित्याशंक्याह-- एवमाकाश इत्यादिना / अधिष्ठानस्फुरणमेवाध्यासोपयोगि / न चान्धादेरपि रजतादिभ्रमापातः, विशेषकारणाभावादित्याह-न ज.ग्रतीति / चक्षुषः सादृश्यधीद्वारा रजतधीहेतुताप किं न स्यादित्यत आह-न च साहश्येति / / नन्वेवमाकाशे तलमलिनताद्यध्यासो न स्यादधिष्ठानस्फुरणाभावादित्यत आहआकाशेऽपीति / आकाशस्य नित्यपरोक्षत्वात् कथं तत्र स्फुरणमित्याशंक्यासिद्धो हेतुरित्याह-न तावदिति / आकाशलिङ्गत्वेनाभिमतध्वन्यादेरतद्धर्मत्वभ्रमदशायामपि तत्प्रतीतेन तस्य नित्यपरोक्षतेत्याह-ध्वनिरिति / आकाशस्य सर्वेन्द्रियायोग्यत्वात् प्रत्यक्षत्वमनुपपन्नमिति चोदयति-नन्विति / इन्द्रियायोग्यत्वेऽपि शुक्तिरजतादिवत् साक्षिगोचरत्वादाकाशस्फुरणसिद्धिरित्याह-न साक्षीति / / चक्षुष्मतामेवाकाशानुभवदर्शनात् तच्चाक्षुषमिति केचित् ; तन्निराकरोति-न चेन्द्रियेत्यादिना / पञ्चीकरणवशेन पञ्चभूतात्मकत्वादाकाशस्य कथं नीरूपत्वमित्यत

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486