Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 283
________________ 278 उत्तराध्ययन तच ज्ञात्वाऽनङ्गासिंहः, क्रुधाऽधावत सिंहवत् ! ॥ ६९ ॥ ततस्तयोरभूद्युद्धं, दारुणेभ्योऽपि दारुणम् ॥ चित्रं च दुर्जयं ज्ञात्वा-ऽनङ्गस्तं खङ्गमस्मरत् ॥ ७० ॥ ज्वालामालाकुलं देव-दत्तं शत्रुमदापहम् ॥ तत्वहरत्नं तत्पाणा-वापपात ततो द्रुतम् ॥ ७१॥ अनङ्गोऽथ जगौ मूर्ख !, किं मुमूर्षसि याहि रे ! ॥ नो चेदेकोऽपि पञ्चत्वं, गन्ता त्वमसिनाsमुना ॥ ७२ ॥ ऊचे चित्रगतिर्लोह-खण्डेनानेन यो मदः ॥ स ते स्वबलहीनत्व-मेव सूचयति स्फुटम् ! ॥७३ ॥ इत्युक्त्वा विद्यया चक्रे, तमस्कायोपमं तमः ॥ पाणिस्थमपि नापश्य-स्कोऽपि तलुप्तलोचनः॥ ७४ ॥ तमसिं तमसि व्याप्ते, सद्य आच्छिद्य तत्करात् ॥ सुमित्रजामि चादाय, ययौ चित्रगतिस्ततः ॥ ७५ ॥ क्षणाच तिमिरे क्षीणे, नृसिंहोऽनङ्गसिंहराद ॥ पश्यन्नापश्यत्कृपाणं, पाणौ तं च रिपुं पुरः ॥७६ ॥ क्षणं व्यपीदत्स्मृत्वा त-ज्ज्ञानिवाक्यं तुतोष च ॥ ज्ञेयः शाश्वतचैत्येऽसौ, ध्यायंथेति गृहं ययौ ॥ ७७ ॥ सुमित्रायाखण्डशीलां, जामि चित्रगतिर्ददौ ॥ भगिनीहरणोत्पन्न-दुःखात्स तु विरक्तवान् ॥ ७८ ॥ राज्ये न्यस्य ततः पुत्रं, समीपे सुयशोमुनेः ॥ सुमित्रः प्रात्रजचित्र-गतिस्तु खपुरेऽव्रजत् ॥ ७९ ॥ नवपूर्वी किञ्चिदूना-मधित्यानुज्ञया गुरोः ॥ विहरनेकदैकाकी, सुमित्रो मगधेष्वगात् ॥ ८॥ तत्र प्रामादहिः कापि, कायोत्सर्गेण तं स्थितम् ॥ भ्रमंस्तत्रागतोऽपश्य-त्पमाह्वस्तद्विमातृजः ॥ ८१॥ आकर्ण बाणमाकृष्य, मुनिं हृदि जघान सः ॥ मुनिस्तु तस्मै नाकुप्य-दिति चान्तरचिन्तयत् ! ॥ ८२॥ दोषो ममैव यन्नाह-मस्मै राज्यमदां तदा ॥ तदेष क्षमयाम्येन-मन्यांश्वासुमतोऽखिलान् ॥ ८३ ॥ ध्यायन्नितिसुमित्रर्षि-विहितानशनः सुधीः ॥ विपद्य वासवसमो, ब्रह्मलोके सुरोऽभवत् ॥८४॥ पमस्तु निशि तत्रैवा-हिदटोडगात्तमस्तमाम् ! ॥ सुमित्रं च मृतं ज्ञात्वा, न्यषीदत्सूरसूर्भशम् ॥ ८५ ॥ यात्रामहोत्सवे सिद्धा-पतने सोऽन्यदा ययौ ॥ परेऽपि मिमिलस्तत्र, भयांसः खेचराधिपाः ॥८६॥ रखवत्या समं तत्रा-उनासिंहोऽप्यपागमत ॥ तत्र चित्रगतिर्भक्त्या, जिनानभ्यर्च्य तुष्टुवे ॥ ८७॥ मित्रं द्रष्टुं सुमित्रोऽपि, सुरतत्रागतस्तदा ॥ चित्रां चित्रगतेर्मि, पुष्पवृष्टिं व्यधान्मुदा ॥ ८८ ॥ विवेदानसिंहोऽपि, तमेव दुहितुः पतिम् ॥ प्रत्यक्षीभूय देवोऽपि, किं मा वेत्सीत्युवाच तम् ॥ ८९ ॥ देवो महर्द्धिस्त्वमिति, प्रोक्ते सूरभुवा सुरः ॥ प्रत्यभिज्ञाकृते पूर्व-भवरूपमदर्शयत् ॥९॥ या धर्मो, लेभेऽसौ त्वत्प्रसादतः ॥ ९१ ॥ दवा दियं लक्ष्मी-स्तदा मे जीवितार्पणात् ॥ त्वयाऽदायि न चेत्तत्र, मृत्यौ देवगतिः क मे? ॥९२ ॥ उपकारमिति प्राच्यं, वदन्तौ वीक्ष्य तो मिथः ॥ सूरचक्रीप्रभृतयः, सर्वेऽमोदन्त खेचराः ॥९३॥ चित्रो नेत्राध्वना रत्न-पत्याश्चित्तेऽविशत्तदा ॥ तत्स्पर्द्धयेव कामोऽपि, तत्रैव विदधे पदम् ॥ ९४ ॥ लजांशुकमपाकृत्य, साथ काममहाकुला ॥ भावमाविश्वकार खं, चेष्टितैर्विविधैर्दुतम् ॥ ९५ ॥ तां च कामातुरां वीक्ष्या-ऽनङ्गसिंहो न्यचिन्तयत् ॥ ममासिमिव जहेऽसौ, मनोऽप्यस्या महामनाः॥ ९६॥ ददे तदेनामात्रैव, कालक्षेपण किं मुघा?॥ धर्मस्थानेऽथवा कार्यमिदं नार्हति धीमताम् ! ॥ ९७ ॥ ध्यात्वेति खगृहं सोऽगा-द्विसृज्याथ सुहृत्सुरम् ॥ पित्रा समं चित्रगति-रपि खसदनं ययौ ॥ ९८ ॥ अनङ्गोऽथ सुतां दातुं, प्रैषीन्मंत्रिणमात्मनः ॥ सोऽपि गत्वा प्रणम्यैव-मब्रवीत्सूरचक्रिणम् ॥ ९९ ॥ अयं चित्रगती रत्न-वती चेयं गुणाधिकौ ॥ वर्णरने इव खामिन् !, मिथो योगाद्विराजताम् ॥ १०॥ प्रपद्य तन्मुदा सूर-तां सुतेनोदवाहयत् ॥ सोऽपि भेजे यथाकालं, धर्मसौख्ये तया समम् ॥ १.१॥ राज्यं चित्रगतेदत्वा-ऽन्यदा सूरमहीपतिः ॥ आदाय सद्गुरोर्दीक्षां, क्रमात्प्राप परं पदम् ॥१०२॥ ततश्चित्रगतिश्चित्र-कारिविद्याबलोर्जितः ॥ चिरं खेचरचक्रित्व-मन्वभूचण्डशासनः ॥१.३॥ खसामन्तसुतौ राज्य-कृते युद्धा मृति गतौ ॥ वीक्ष्याऽन्यदा चित्रगतिः, प्राप वैराग्यमुत्तमम् ॥ १०४ ॥ ततो निधाय तनयं, राज्ये चित्रगतिर्नृपः ॥ पर्यब्राजीहमचरा-चार्यपार्थे प्रियायुतः ॥१०५॥ चिरं विहत्य प्रान्ते चा-ऽनशनेन विपद्य सः ॥ रत्नवत्या समं तुर्यकल्पे देवत्वमासदत् ॥ १०६ ॥ __ अथापरविदेहेषु, विजये पद्मसंज्ञके ॥ पुरे सिंहपुरे नाम्ना, हरिणन्दी नृपोऽभवत् ॥१०७॥ तस्य सान्वर्थनामासीद्राज्ञी तु प्रियदर्शना ॥ च्युत्वा चित्रगतेर्जीव-स्तत्कुक्षाववतीर्णवान् ॥ १०८ ॥काले चासूत सा पुत्रं,रत्नमाकरभूरिव ॥ तस्याऽपराजित इति, नामधेयं व्यधान्नृपः ॥१०९ ॥ क्रमेण कलयन् वृद्धि-मादाय सकलाः कलाः ॥ स प्राप पुण्यं तारुण्यं, पूर्णत्वमिव चन्द्रमाः ॥११०॥ सपांशुक्रीडितस्तस्य, वयस्यः सचिवाङ्गजः ॥ जज्ञे विमलबोधाख्यो, द्वितीयमिव तन्मनः ॥ १११ ॥ कुमारावन्यदा वाजि-हतौ तौ प्रापतुर्वनम् ॥ तदाऽपराजितो मित्रं, मंत्रिपुत्रमदोऽवदत्

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424