Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 296
________________ 291 उत्तराध्ययन राहे, तयोश्चाभवतां प्रिये ॥ ४ ॥ विश्वभूतिर्वेश्ममार-मारोप्य सुतयोस्तयोः॥प्रपद्य प्रायमन्येधु-विपद्य त्रिदिवं ययौ ॥५॥ भार्याप्यनुद्धरा तस्य, तद्वियोगज्वरातुरा ॥ शोपयित्वा वपुः शोक-तपोभ्यां मृत्युमासदत् ! ॥ ६ ॥ चक्रतुः सोदरौ तौ च, खपित्रोरौद्धदेहिकम् ॥ पुरोहितपदं त्वाप, कमठः स हि पूर्वजः॥७॥ व्रताय स्पृहयन्नन्त-विषयेभ्यः पराशुखः ॥ बभूव मरुभूतिस्तु, धर्मकर्मरतो भृशम् ॥ ८ ॥ रमणीयाकृति तस्य, रमणी नवयौवनाम् ॥ इष्ट्वा वसुन्धरां क्षोभ, बभाज कमठोऽन्यदा ॥९॥ ततः स तो प्रकृत्याऽपि, परस्त्रीलम्पटो विटः ॥ आलापयप्रियालापै-मन्मथगुमदोहदैः॥१०॥तां चेत्यूचे स्मरव्याधि-लुप्तलज्जाविलोचनः ॥ भोगान् विना मुधा मुग्धे!, वयः किं गमयस्यदः १ ॥ ११ ॥ निःसत्वः सेवते न त्वां, यदि मूढो ममानुजः ॥ तत्किं तेन मया साकं, रमख त्वं मनोरमे ! ॥ १२ ॥ तेनैवमुदिता खांके, सादरं विनिवेशिता ॥ भोगेच्छुः पूर्वमप्यु वैः, प्रपेदे तद्वसुन्धरा ! ॥ १३ ॥ ततो विवेकं मर्यादा, अपां चावगणय्य तौ ॥ सेवेते स्म रहो नित्यं, पशुकल्पौ पशुक्रियाम् । ॥ १४ ॥ कथञ्चित्तष विज्ञाय, वरुणा कमठागना ॥ असूयाविवशा सर्व-मुवाच मरुभूतये ॥ १५॥ असम्भाव्यमदाऽप्रेक्ष्य, खयं प्रत्येति कः सुधीः ॥ ध्यायन्निति ततोऽगच्छ-न्मरुभूतिरुपाप्रजम् ॥ १६ ॥ यामि नामान्तरं भ्रात-रित्युदीर्य बहिर्ययौ ॥ कृत्वा वेषान्तरं चाभू-जन्मकार्पटिकोपमः ॥ १७ ॥ नक्तं चोपेत्य कमठ-मित्यूचे भाषयाऽन्यया ॥ शीतत्राणक्षम देहि, स्थानं दूराध्वगाय मे ॥ १८ ॥ अज्ञातपरमार्थस्तं, कमठोऽप्येवमब्रवीत् ॥ भोः कार्पटिक ! तिष्ठ त्व-मिहगर्भगृहान्तिके ॥ १९ ॥ भरभूतिस्ततस्तत्र, सुष्वापालीकनिद्रया ॥ कामं कामान्धयोर्द्रष्टु-फामो दुश्रेष्टितं तयोः ॥ २०॥ मरुभूतिर्गतोऽस्तीति, निदशंकं रममाणयोः ॥ वसुन्धराकमठयो-स्तमन्यायं ददर्श च ! ॥ २१ ॥ अक्षमोऽपि स तद्रष्टुं, भीरर्लोकापवादतः ॥ चकार न प्रतीकारं, निरगाच ततो द्रुतम् ॥ २२ ॥ गत्वा चोवाच तत्स4-मरविन्दमहाभुजे ॥ मापोऽप्यादिक्षदारक्षा-स्तनिवासयितुं पुरात् ॥ २३ ॥ तेऽपि गईभमारोप्य, रसद्विरसडि वजीर्णपनद्धा-मालामालितकन्धरम् ॥ २४ ॥ उच्चैरुपोषिताकार्य, रक्षामूत्रविलेपनम् ॥ कमठं भ्रमयित्वान्त-नगरं निरवासयत् ! ॥ २५ ॥[युग्मम् ] एवं विडम्बितो जात-वैराग्यो विपिनं गतः ॥ कमटस्तापसीभूया-ऽऽरभे बालतपो भृशम् ॥ २६ ॥ मरुभूतिस्ततो जात-पश्चात्तापो व्यचिन्तयत् ॥ धिग्मां राज्ञे गृहच्छिद्रं, प्रोच्याग्रजविडम्बकम् ! ॥ २७ ॥ गृहदुश्चरितं जातु, प्रकाश्यं नैव कस्यचित् ॥ इति नीतिवचोऽप्यद्य, व्यसा हि रुषाकुलः ! ॥ २८ ॥ क्षमयामि तदद्यापि, मन्तुमेनं निजाग्रजम् ॥ ध्यात्वेति तद्वनं गत्वा, सोऽपतत्तस्य पादयोः ॥ २९ ॥ कमठो दुर्धियामेक-भठो दुष्कर्मकर्मठः ॥ विडम्बनां तां तन्मूलां, मृत्योरप्यधिकां स्मरन् ॥३०॥ मूर्भि प्रणमतो भ्रातु-सदोरिक्षप्याऽक्षिपच्छिलाम् ॥ दुष्टस्य सान्त्वनं नूनं, शान्तस्याः प्रदीपनम् । ॥ ३१॥ [ युग्मम् ] तत्प्रहारक्षुण्णमौलि-म॒त्वाऽऽर्तध्यानयोगतः ॥ मरुभूतिरभूद्विन्ध्या-चले यूथाधिपो द्विपः ॥ ३२॥ ___ इतश्च शरदि क्रीडन् , समं स्त्रीभिहोपरि ॥ अरविन्दनृपोऽपश्य-क्षणालब्धोदयं धनम् ॥ ३३ ॥ शकचापा. श्चितं तं च, गर्जन्तं हृद्यविद्युतम् ॥ अहो रम्योयमित्युच्चे-वर्णयामास भूधवः ! ॥ ३४ ॥ मेघः स तु क्षगायोनि, व्यानशे तैलवजले ॥ क्षणाचाऽपुण्यवान्छाव-द्वातोद्भूतो न्यलीयत !॥ ३५ ॥ ततो दध्यौ नृपो यथातथा विश्वेऽपि विश्वेऽमी, भावास्तत्तेषु का रतिः ॥३६॥ ध्यायन्नित्यादि तत्काल-मवधिज्ञानमाप सः॥राज्ये न्यस्याङ्गजं पार्थे, सद्गुरोश्चाददे व्रतम् ॥ ३७॥ क्रमाच श्रुतपारिणो, विहरन्सोऽन्यदाऽचलत्॥समसागरदत्तेभ्य-सार्थेनाष्टापदम्प्रति ॥ ३८ ॥ तं नत्वा सार्थपोऽ पृच्छत् ,क वो गम्यं ? प्रभो! इति ॥ गन्तव्यं तीर्थयात्रार्थ, ममेति यतिरप्यवक् ॥ ३९ ॥ सार्धेशः पुनरप्यूचे, धर्मः को भवतामिति ॥ ततः सविस्तरं तस्मै, जैन धर्म मुनिर्जगी ॥४०॥ तञ्चाकर्ण्य सकर्णो द्राक्, श्राद्धत्वं प्रत्यपादि सः ॥ सुक्षेत्रे बीजयदक्षे, झुपदेशो महाफलः ! ॥ ४१ ॥ सोऽथ सार्थोऽटवीं प्राप, मरुभूतिगजाश्रिताम् ॥ तस्यां च सरसस्तीरे, भोजनावसरेऽवसत् ॥४२॥ तदा च मरुभूतीभो, वृतो भूरिकरेणुभिः ॥ तत्रागत्य तटाकेऽम्भो-ऽम्भोदोऽम्भोधाविवापिबत् ॥४३॥ करिणीभिः समं तत्र, क्रीडित्वा पालिमाश्रयत् ॥ दिशः पश्यन्नपश्यच, तं सार्थ तत्र संस्थितम् ॥ ४४ ॥ तद्वधाय च सोधावत् , क्रुधाऽन्तक इवापरः ॥ तं चायान्तं वीक्ष्य सर्वे, प्रणेशुः सार्थिका द्रुतम् ॥ ४५ ॥ तं चावबुध्य बोधाहे-मवधेः स तु सन्मुनिः ॥ कायोत्सर्गेण तस्थौ त-मार्गेऽचल इवाचलः ॥ ४६॥ धावन्कुम्भी तु तमभि, क्रुधा तत्पार्धमागतः ॥ तं पश्यन्प्राप शान्तत्वं, स्थिरः तस्थौ च तत्पुरः ॥४७॥ उत्सर्ग पारयित्वाऽथ, तस्योपकृतये व्रती ॥ इत्यूचे भोः स्मरसि तं, मरुभूतिभवं न किम् ? ॥ ४८ ॥ मां चारविन्दभूपालं, न किं जानासि ? सन्मते ! ॥ प्राग्भवे चाटतं श्राद्ध-धर्म किं व्यस्मरः? कृतिन् !॥४९॥ इति तद्वचसा जाति-स्मरणं प्राप्य स द्विपः॥उदश्चितकरो भूमि-न्यस्तमद्धोन ॥५०॥ तेनोक्त साधुना श्राद्ध-धर्म च प्रतिपद्य सः ॥ नत्वा मुनिं गुणास्थानं, स्वस्थाने खस्थधीयेयी ॥५१॥

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424