Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 312
________________ उत्तराध्ययन 307 ॥ अथ चतुर्विंशमध्ययनम् ॥ ॥ ॐ ॥ उक्तं त्रयोविंशमध्ययनमथ प्रवचनमातृसंज्ञं चतुशिमारभ्यते । अस्य चायं सम्बन्धः, पूर्वाभ्ययने परेपां मनोविलुतिः केशिगौतमवदपनेयेत्युक्तं, तदपनयनं च भापासमित्यात्मकेन वाग्योगेन स्याझाषासमितिश्च प्रषचनमातृणामन्तर्गतेति तत्स्वरूपमिहोच्यते, इत्येवं सम्बन्धस्यास्येदमादिसूत्रम् ॥ मूलम्-अप्पवयणमायाओ, समिई गुत्ती तहेव यापंचेव य समीईओ, तओ गुत्तिओ आहिआ॥१॥ व्याख्या-'समिइत्ति' समितयः, गुत्तित्ति' गुरायः, आहिजत्ति' आण्याताः कथिताः ॥ १॥ ता एव नामत माहमूलम्-ईरिआ भासेसणादाणे, उच्चारे समिई इमणगुत्ती वयगुत्ती, कायगुत्ति अ अट्ठमा ॥२॥ __ व्याख्या-ईरणं गमनं ईर्या, भापणं भापा, एपणमन्नादिगवेषणमेपणा, आदानं पात्रादेग्रंहणं, निक्षेपोपलक्षणमैतत् , उचारे उच्चारादिपरिष्ठापनायां च समितिः सम्यक्प्रवृत्तिरिदं च प्रत्येकं योज्यं, । 'इअत्ति' इतिः समाप्ती, एतावत्य एव समितय इत्यर्थः । तथा मनसो गुप्तिः शुभे प्रवृत्तिः अशुभे निग्रहो मनोगुप्तिः, एवमप्रेऽपि ॥ २ ॥ निगमगमाहमूलम्-एआओ अह समिईओ, समासेण विआहिआ।दुवालसंगं जिणक्खायं,मायं जत्थ उ पवयणं॥ ___ व्याख्या-एता अष्ट समितयः, समिति सम्यग जिनवचनानुसारितया इतय आत्मनश्चेष्टाः समितय इत्यन्यर्थेन गुप्तीनामपि समितिशब्दवाच्यत्वमस्तीत्येवमुपन्यासः । यत्तु भेदेनोपादानं तत्समितीनां प्रष्टत्तिरूपत्वेन गुप्तीनां तु प्रवृत्तिनिवत्तिरूपत्येन कथञ्चिद्भेद इति ख्यापनार्थम् । द्वादशाङ्गं जिनाख्यातं 'मायति' उत्तरतुशब्दस्यैवकारार्थस्येह योगान्मातमेव यत्र यासु प्रवचनं । तथा हि-सर्वा अप्येताश्चारित्ररूपाचारित्रं च ज्ञानदर्शनाविनाभावि, न चैतत्रयातिरिक्तमन्यदर्थतो द्वादशाङ्गमस्तीत्येतासु प्रवचनं मातमित्युच्यते । इति सूत्रत्रयार्थः, शेषं सुगमत्वान्न व्याख्यासमेवमप्रेऽपि ज्ञेयम् ॥ ३॥ तर्यासमिति खरूपमाहमूलम्-आलंबणेण कालेण, मग्गेण जयणाइ अ । चउकारणपरिद्धसुं, संजये इरिअं रिए ॥ ४॥ व्याख्या-आलम्बनेन कालेन मार्गेण यतनया च, एभिश्चतुर्भिः कारणैः परिशुद्धां संयत ईयाँ गति रीयेत कुर्यात् ॥ ४ ॥ आलम्बनादीन्येव व्याख्यातिमूलम्-तत्थ आलंवणं नाणं, दंसणं चरणं तहा । काले अ दिवसे वुत्ते, मग्गे उप्पहवजिए ॥५॥ ___ व्याख्या-तत्र तेष्वालम्बनादिपु मध्ये यदालम्ब्य गमनमनुज्ञायते तदालम्बनं ज्ञानादि । तत्र ज्ञानं सूत्रार्थोभयरूप आगमः, दर्शनं सम्यक्त्वं, चरणं चारित्रं । तथाशब्दो द्विव्यादिसंयोगभङ्गकसूचकस्ततः प्रत्येकं ज्ञानादीन्याश्रित्य द्विकादिसंयोगेन या गमनमनुज्ञातं, ज्ञानाधालम्बनं विना तु तन्नानुज्ञातम् । कालश्च प्रस्तावादीयविपयो दिवस उक्तो जिनैः, रात्रौ हि चक्षुर्विषयताभावात्पुष्टालम्बनं विना गमनं नानुज्ञातम् । मार्ग इह सामान्येन पन्थाः, स चोत्पथेनोन्मार्गेण वर्जित उत्पथवर्जित उक्त इति योगः, उत्पथे हि व्रजत आत्मविराधनादयो दोपाः॥५॥ अथ यतनामाहमूलम्-दवओ खेत्तओ चेव, कालओभावओ तहा। जयणा चउबिहा वुत्ता, तं मे कित्तयओ सुण ॥६॥ व्याख्या-तं मेत्ति' तां यतनां मे मम कीर्तयतः शृणु हे शिष्य ! ॥६॥ मूलम्-दवओ चक्खुसा पेहे, जुगमित्तं तु खेत्तओ। कालओ जाव रीएजा, उवउत्ते अ भावओ॥७॥ व्याख्या--द्रव्यतो द्रव्यमाश्रित्येयं यतना, यच्चक्षुषा प्रेक्षेत जीवादिद्रव्यं । युगमात्रं च प्रस्तावात्क्षेत्रं प्रेक्षेत इति योग इयं क्षेत्रतो यतना । कालतो यतना यावन्तं कालं रीयेत गच्छेत्तावत्कालमानेति शेषः । उपयुक्तश्च सावधानो यद्रीयेत इयं भावतो यतना ॥७॥ उपयुक्ततामेव स्पष्टयतिमूलम्--इंदिअत्थे विवज्जित्ता, सज्झायं चेव पंचहा । तम्मुत्ती तप्पुरकारे, संजए इरिअं रिए ॥ ८॥ व्याख्या--इन्द्रियार्थान् शब्दादीन् विवर्य खाध्यायं चैव पञ्चधा वाचनादिपञ्चभेदं विवयं तस्यापि गत्युपयोगघातित्वात् , तस्यामीर्यायामेव मूर्तिस्तनुराद्याप्रियमाणा यस्यासी तन्मूर्तिः, तामेव पुरस्करोति उपयुक्ततया

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424