Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
361
उत्तराध्ययन
मूलम्-जहा बिरालावसहस्स मूले, न मूसगाणं वसही पसत्था।
___एमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्स खमो निवासो ॥ १३ ॥ व्याख्या-यथा बिडालावसथस्य मार्जारगृहस्य मूले समीपे न भूपकानां वसतिः स्थितिः प्रशस्ता, अवश्यं नत्र तदपायसम्भवात् , एवमेव स्त्रीणामुपलक्षणात्पण्डकादीनां च निलयो निवासः स्त्रीनिलयः तस्य मध्ये न ब्रह्मचारिणः क्षमो युक्तो निवासः, तत्र ब्रह्मचर्यबाधासम्भवादिति भावः ॥ १३ ॥ विविक्तवसतायपि कदाचित्स्त्रीसम्पाते यत्कतैव्यं तदाह--
मूलम्-न रूवलावण्णविलासहासं, न जंपिअं इंगिअ पेहि वा।
. इत्थीण चित्तंसि निवेसइत्ता, दटुं ववस्से समणे तवस्सी ॥ १४ ॥ व्याख्या-न नैव रूपं सुसंस्थानत्वं, .लावण्यं नयनमनसामाह्लादको गुणः, विलासा विशिष्टनेपथ्यरचनादयः, हासः प्रतीतः, एपां समाहारः, न जल्पितमुल्लपितं, 'इंगिअत्ति' इङ्गितं अङ्गभङ्गादि प्रेक्षितं कटाक्षवीक्षितादि, वा समुच्चये स्त्रीणां सम्वन्धि चित्ते निवेश्य, अहो! सुन्दरमिदमिति विकल्पतो मनसि स्थापयित्वा द्रष्टुं इन्द्रियविषयता नेतुं व्यवस्वेदध्ययस्येत् श्रमणः तपस्वी ॥ १४ ॥ कुत एवमुपदिश्यते ? इत्याह
मूलम्-अदंसणं चेव अपत्थणं च, अचिंतणं चेव अकित्तणं च ।
इत्थीजणस्सारियझाणजुग्गं, हिअं सया बंभचेरे रयाणं ॥ १५ ॥ व्याख्या-अदर्शनं च, एवोऽयधारणे, ततः अदर्शनमेव, अप्रार्थनं चाऽनभिलपणं, अचिन्तनं चैव रूपाद्यपरिमा. को अकीले चनामतो गणतो वा स्त्रीजनस्य, आर्यध्यानं धर्मादि तद्योग्यं तद्धेतत्वेनोचितं आर्यध्यानयोग्यं. हितं पथ्यं, सदा ब्रह्मचर्ये रतानां । ततो न स्त्रीणां रूपादि सरागं द्रष्टुं व्ययस्येदिति स्थितम् ॥ १५ ॥ ननु विकारहेतौ सति ये निर्विकाराः स्युस्त एव धीरास्तत्किं विविक्तशयनासनत्वमिप्यते ? इत्याशंक्याह
मूलम्--कामं तु देवीहिं विभूसिआहिं, न चाइआ खोभइउं तिगुत्ता।
तहावि एगंतहिति नच्चा, विवित्तभावो मुणिणं पसत्थो ॥ १६ ॥ व्याख्या-'कामं तुत्ति' अनुमतमेवैतत् यद्देवीभिरपि आस्तां मानुपीभिर्भूपिताभिरलङ्कताभिः म नैव 'चाइअत्ति' शकिताः क्षोभयितुं चलयितुं त्रिगुप्ताः मुनयः, तथापि एकान्तं हितमिति ज्ञात्वा विविक्तभावो मुनीनां प्रशस्तोऽन्तर्भावितणिगर्थतया प्रशंसितो जिनाथैः । अयं भावः-रूयादिसङ्गे प्रायो योगिनोऽपि क्षुभ्यन्ति येपि न क्षुभ्यन्ति तेऽप्यवर्णादिदोषभाजो भवन्तीति विविक्तत्वमेव श्रेयः ॥ १६ ॥ इदमेव समर्थयितुं स्त्रीणां दुरतिक्रमत्वमाह
मूलम्-मोक्खाभिकंखिस्सऽवि माणवस्स, संसारभीरुस्स ठियस्स धम्मे ।
नेयारिसं दुत्तरमत्थि लोए, जहित्थिओ बालमणोहराओ ॥ १७ ॥ व्याख्या-मोक्षाभिकांक्षिणोऽपि मानवस्य संसारभीरोरपि स्थितस्यापि धर्मे श्रुतधर्मे अपिशब्दश्चैकोऽपि सर्वत्र सम्बध्यते, न नैव एतादृशं दुस्तरं दुरतिक्रममस्ति लोके यथा स्त्रियो वालानां निर्विवेकानां मनोहरा बालमनो. हरा दुस्तराः ॥ १७॥ स्त्रीसङ्गातिक्रमे गुणमाह
मूलम्-एए अ संगे समइकमित्ता, सुहुत्तरा चेव हवंति सेसा ।
जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ॥ १८ ॥ व्याख्या-एतांश्च स्त्रीविपयान् सङ्गान् सम्बन्धान समतिक्रम्य सुखोत्तराश्चैव भवन्ति शेपा द्रव्यादिसङ्गाः, सर्व सङ्गानां रागरूपत्वे तुल्येऽपि स्त्रीसङ्गानामेवैतेषु प्राधान्यात् दृष्टान्तमाह-यथा महासागरं स्वयम्भूरमणमुत्तीर्य नदी भवेत्सुखोत्तरैव 'अवि गंगासमाणत्ति' गङ्गासमानापि आस्तां क्षुद्रनदीत्यपिशब्दार्थः ॥ १८॥ किञ्च
मूलभ–कामाणुगिद्धिप्पभवं खु दुक्खं, सवस्स लोगस्स सदेवगस्स।
जं काइअं माणसि च किंचि, तस्संतगं गच्छइ वीअरागो ॥ १९ ॥

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424