Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 395
________________ 390 उत्तराध्ययन न्त वर्तिनि तुः पूत्तौं ततश्वरमभयोत्सेधात्रिभागहीना सिद्धानां यत्तदोर्नियाभिसम्बन्धात् तेषामवगाहना भवेत् त्रिभागस्य शरीरान्तर्विवरपूरणेन कृतार्थत्वात् ॥ ६४ ॥ एतानेव कालतो निरूपयितुमाहमूलम्-एगत्तेणं साईआ, अपजवसिआवि अ । पुहत्तेण अणाईआ, अपज्जवसिआवि अ॥६५॥ व्याख्या-एकत्वेन सादिकाः अपर्यवसिता अपि च, यत्र काले ते सिध्यन्ति तत्र तेषामादिः न च कदाचिन्मुक्तेश्यन्तीति न पर्यवसानं । पृथक्त्वेन बहुत्वेन सामस्त्यापेक्षयेत्यर्थः अनादिका अपर्ययसिता अपि च, नहि ते कदाचिन्नाभूवन्न भवन्ति न भविष्यन्ति चेति मायः ॥ ६५ ॥ एषामेव खरूपमाहमूलम्-अरूविणो जीवघणा, नाणदसणसन्निआ।अउलं सुहसंपत्ता, उवमा जस्स नस्थि उ॥ ६६ ॥ ___ व्याख्या-अरूपिणो रूपरसादिरहिताः, जीवाश्च ते सततोपयुक्ततया घनाश्च शुपिरपूरणनिचितप्रदेशतया जीवधनाः, ज्ञानदर्शने एव संज्ञा जाता येषां ते ज्ञानदर्शनसंज्ञिताः, ज्ञानदर्शनोपयोगानन्यखरूपा इत्यर्थः । अतुलं संप्राप्ताः, उपमा यस्य सुखस्य नास्ति तुः पूतौ ॥ ६६ ॥ उक्तग्रन्थे ज्ञातमपि विप्रतिपत्तिनिरासाय क्षेत्रं खरूपं च तेषामाहमूलम्-लोएगदेसे ते सवे, नाणदसणसनिआ।संसारपारनिस्थिपणा, सिद्धिं वरगइं गया ॥ ६७ ॥ व्याख्या-लोकैकदेशे ते सर्वे इत्येनन सर्वत्र मुक्तास्तिष्ठन्तीति मतमपास्तं, ज्ञानदर्शनसंज्ञिता इत्यनेन ज्ञानोच्छेदे मुक्तिरिति मतं निरस्तं, संसारपारं निस्तीर्णाः पुनरागमनाभावलक्षणेनाधिक्येन अतिक्रान्ताः, अनेन तु “ज्ञानिनो धर्मतीर्थस्य, कारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥१॥" इति मतमपातं, सिद्धिं घरगतिं गता अनेन क्षीणकर्मणोऽपि खभाषेनैवोत्पत्तिसमये लोकाग्रगमनं यावत्सक्रियत्वमप्यस्तीति ख्याप्यते, इत्येकादशसूत्रार्थः ॥ ६७ ॥ इत्थं सिद्धानुक्त्वा संसारस्थानाहमूलम्-संसारस्था उजे जीवा, दुविहा ते विआहिआ। तसा य थावरा चेव, थावरा तिविहातहिं॥८॥ व्याख्या-स्पष्टं ॥ ६८ ॥ त्रैविध्यमेवाहमूलम्-पुढवी आउ जीवा य,तहेव य वणस्सई । इच्छेते थावरा तिविहा, तेसिं भेए सुणेह मे ॥६९॥ म्याख्या-स्पष्टम् , नवरं इह तेजोवाय्बोर्गतित्रसत्येन स्थावरमध्येऽनभिधानम् ॥ ६९ ॥ पृथिवीकायिकानाहमूलम्-दुविहा पुढवीजीवा उ, सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ॥ ७० ॥ व्याख्या-द्विविधाः पृथिवीजीवास्तु सूक्ष्माः सूक्ष्मनामकर्मोदयात्, बादरा पादरनामकर्मोदयात्, 'पज्जत्तमपजत्तत्ति' आहारशरीरेन्द्रियोच्छासवाग्मनोनिष्पत्तिहेतुदलिकं पर्याप्तिस्तद्वन्तः पर्याप्ताः, तद्विपरीता अपर्याप्साः, एव. मेते सूक्ष्मा बादराश्च प्रत्येकं द्विधा पुनः ॥ ७० ॥ पुनरेपामेवोत्तरभेदानाहमूलम्-बायरा जे उ पजत्ता, दुविहा ते विआहिआ।सण्हा खरा य बोधवा, सहा सत्तविहा तहिं ।७१। व्याख्या-'सण्हत्ति' श्लक्ष्णा चूर्णितलोष्टुकल्पा मृदु पृथियी तदात्मका जीवा अप्युपचारतः श्लक्ष्णा एवमुत्तरत्रापि, खरा कठिना ॥ ७१ ॥ सप्तविधत्वमेवाह मूलम्-किण्हा १ नीला २ य रुहिरा ३ य, हालिहा ४ सुक्किला ५ तहा । __पंडू ६ पणगमट्टीआ ७, खरा छत्तीसईविहा ॥७२॥ म्याख्या-कृष्णा नीला 'रुहिरत्ति' रक्ता हारिद्रा शुक्ला 'पंडुत्ति' पाण्डः पाण्डुरा ईषच्छुक्लत्ववतीत्यर्थः, इत्वं वर्णभेदेन पबिधत्वमुक्तं, इह च पाण्डरग्रहणं कृष्णादिभेदानामपि खस्थाने भेदान्तरसम्भवसूचकम् । पनकोऽत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, पनकस्य च नभसि विवर्त्तमानस्य लोके पृध्वित्वेनारूढत्वाद्भेदेनोपादानम् । खरा पृथ्वी पत्रिंशद्विधा षट्त्रिंशद्भेदा ॥७२ ।। तानेवाह मूलम्-पुढवी अ सक्करा वालुगा य उवले सिला य लोणूसे। अय-तंब-तउव-सीसग-रुप्प-सुवण्णे अ वहरे अ ॥ ७३ ॥ व्याख्या-पृथिवी शुद्धपृथिवी १ शर्करा लघूपलशकलरूपा २ वालुका प्रतीता ३ उपलो गण्डशैलादिः ४ शिला

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424