Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 406
________________ 401 उत्तराध्ययन भविस्सइत्ति, तस्स य विसंवाए नो सम्म नमुक्कारमाराहेइ” इति सूत्रषट्कार्थः ॥ २५३ ॥ इत्थं प्रपन्नानशनस्याप्यशुभभावनानां मिथ्यात्वादीनां चानर्थहेतुत्वं तद्विपर्ययाणां च शुभहेतुतामाह मूलम्-कंवप्पमाभिओगं च, विविसि मोहमासुरत्तं च । एयाओ दुग्गईओ, मरणम्मि विराहया हुंति ॥ २५४ ॥ व्याख्या-'कंदप्पंति' कन्दर्पभावना एवमाभियोग्यभावना किल्विषभावना मोहभावनों आसुरभावनों च, एता भावना दुर्गतिहेतुत्वात् दुर्गतय एतद्विधातृणां दुर्गतिरूपेषु तथाविधदेवनिकायेष्वेवोत्पादात्, मरणे मरणकाले विराधिका भवन्ति सम्यग्दर्शनादीनामिति गम्यते, इह च मरण इत्यभिधानं पूर्वमेतत्सत्तायामपि प्रान्तकाले शुभभावनाभावे सुगतिरपि स्यादिति सूचनार्थम् ॥ २५४ ॥ मूलम्-मिच्छादसणरत्ता, सनिआणा हु हिंसगा। इइ जे मरंति जीवा,तेसिं पुण दुल्लहा बोही ॥२५५॥ व्याख्या-मिथ्यादर्शनमतत्त्वे तत्त्वाभिनिवेशस्तत्र रक्ता आसक्ता मिथ्यादर्शनरक्ताः सनिदानाः कृतभोगप्रार्थनाः हुः पूत्तौं हिंसका जीवोपमईकारिण इतीत्येवंरूपा ये वियन्ते जीवास्तेषां पुनर्दुर्लभा बोधिर्जिनधर्मावाप्तिः ॥ २५५ ॥ मूलम् सम्मदसणरत्ता, अनिआणा सुक्कलेसमोगाढा।इइ जे मरंति जीवा, सुलभा तेर्सि भवे बोही॥ व्याख्या-"सुकलेसमोगाढत्ति" शुक्ललेश्यामवगाढाः प्रविष्टाः ॥ २५६ ॥ मूलम्-मिच्छादसणरत्ता, सनिआणा कण्हलेसमोगाढा । इअ जे मरंति जीवा, तेसिं पुण दुलहा बोही ॥ २५७ ॥ व्याख्या-स्पष्टम् , ननु पुनरुक्तत्वादनकमिदं सूत्रं, नैवं विशेषज्ञापकत्वादस्य, विशेषश्चायं-ताशे सल्लेशे सत्सेव दुर्लभबोधित्वं, सामान्येन तु पूर्वोक्तविशेषणविशिष्टानामपि तद्भवे भवान्तरे वा बोधिलामो दृश्यतेऽपीति विशेषसूचकत्वादस्य न पौनरुक्त्यम् । इह चायेन सूत्रेण कन्दर्पादिभावनानां दुर्गतिरूपानर्थस्य हेतुत्वमुक्तं, अर्थाच्छुभमाबनानां च सुगतिरूपार्थस्य । द्वितीयेन मिथ्यात्वरक्तादीनां दुर्लभवोधित्वमनर्थ उक्तः, तृतीयेन सम्यक्त्वरक्तानां सुल. भबोधित्वं शुभार्थः, चतुर्थेन तूक्तरूपो विशेषः सूचित इति सूत्रचतुष्कार्थः ॥ २५७ ॥ जिनवचनाराधनमूलमेव संलेखनादि श्रेयस्ततोऽन्वयव्यतिरेकाभ्यां तन्माहात्म्यमाह__मूलम्-जिणवयणे अणुरत्ता, जिणवयणं जे करिति भावेणं । अमला असंकिलिट्टा, ते होति परित्तसंसारी ॥ २५८ ॥ व्याख्या-'अमलत्ति' श्रद्धामालिन्यहेतुमिध्यात्वादिभावमलरहिताः, तथाऽसंक्लिष्टा रागादिसंक्लेशमुक्ताः 'परित्तसंसारित्ति' परित्तः परिमितः स चासो ससारश्च परित्तसंसारः सोऽस्ति येषां ते परित्तसंसारिणः ॥ २५८ ॥ मूलम्-बालमरणाणि बहुसो, अकाममरणाणि चेव बहुआणि । मरिहंति ते वराया, जिणवयणं जे न याति ॥ २५९ ॥ व्याख्या-बालमरणैरुद्वन्धनादिनिबन्धनैर्वहुशो बहुवारं अकाममरणैश्चैवानिच्छारूपमरणैर्बहुभिः सुव्यत्ययः प्राकृतत्वात् मरिष्यन्ति ते वराका जिनवचनं ये न जानन्ति, उपलक्षणत्वान्नानुतिष्ठन्ति चेति सूत्रद्वयार्थः ॥२५९॥ यतश्चैवमतो जिनवचनं भावतः कर्त्तव्यं, तत्र चातिचारसम्भवे आलोचना तच्छ्रवणयोग्यानां श्रावणीया, ते च हेतुमिभवन्ति तानाहमूलम् बहु आगमविण्णाणा, समाहिउप्पायगा य गुणगाही।एएण कारणेणं, अरिहा आलोअणं सोउं॥ म्याख्या-बहुः सूत्रतोऽर्थतश्च स चासावागमश्च बह्वागमस्तत्र विशिष्टं ज्ञानं येषां ते बह्वागमविज्ञानाः, समाधेरुत्पादका ये देशकालाभिप्रायादिविज्ञतया समाधिमेव मधुरवाक्यादिभिरालोचकानामुत्पादयन्ति, चशब्दो भिन्नक्रमस्ततो गुणग्राहिणथोपबृंहणार्थ परेषां सद्भूतगुणग्रहणशीलाच, 'एएण कारणेणंति' एतैः कारणैः अहा॑ भवन्त्याचार्यादय आलोचनां श्रोतुमिति सूत्रार्थः ॥ २६० ॥ इत्थमनशनस्थेन यत्कृत्यं तदुपदर्य सम्प्रति पूर्वोद्दिष्टकन्दर्पादिभावनानां खरूपमाह

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424