Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 409
________________ 404 उत्तराध्ययन तत्र मनोरमसुमनोराजिविराजी रराज मुनिराजः । श्रीआनन्दविमलगुरुरमरतरुनन्दन इवोचैः ॥६॥ शुद्धां क्रियां दधौ यः सुधाव्रतनततिमिव मरुदृक्षः । कल्पतरोः सौरभमिव यस्य यशो व्यानशे विश्वम् ॥ ७॥ तत्पदृगगनदिनमणिरजनिष्ट जनेष्टदानदेवमणिः । श्रीविजयदानमुनिमणिरनणुगुणाधरितरजनिमणिः ॥ ८॥ श्रीमान् जगद्गुरुरिति प्रथितस्तदीय-पट्टे स हीरविजयायसूरिरासीत् । योऽष्टाऽपि सिद्धिललनाः सममालिलिङ्गः, तत्स्पर्द्धयेव दिगिभांश्च यदीयकीर्तिः ॥९॥ श्रीमानकबरनृपाम्बुधरोधिगम्य, श्रीसूरिनिर्जरपतेरिह यस्य वाचम् । जन्तुबजानभयदानजलैरनल्पै-रप्रीणयत्पटहवादनगर्जिपूर्वम् ॥ १०॥ तत्पभूषणमणिर्गणिलक्ष्मीकान्तः, सूरिर्वभौ विजयसेन इति प्रतीतः । योऽकम्बराधिपसभे द्विजपैर्यदीय-गोभिर्जितैर्गुरुरपि धुतिमानमानि ॥ ११॥ विजयतिलकः सरिः पटं तदीयमदीदिप-हिनकर इव व्योमस्तोमं हस्तमसा क्षणात प्रसृमरमहाः पमोलासावहो जडतापहो, विदलितमहादोषः क्लप्सोदयः सुदिनश्रियाम् ॥ १२ ॥ नकम्बरनृपाम्बुधरोपि यस्य, श्रीरिनिर्जरपतेरधिगम्य वाचम् । “घ" पुस्तके ॥ विषणधिषणादेश्या प्रेक्षा गिरः श्रवसोः सुधा, अपरितधरं धैर्य यस क्षमानुरुतधमा । जगति महिमा हेमक्षोणीधरहयसो यशः, शशिजयकरं नाभूत्कस्साळुताय मुनिप्रमोः ॥ १३ ॥ तदीये पट्टे सद्गुणगणमणिश्रेणिनिधयः, क्षमापीयूषाम्भोनिधय उचिताचारविषयः । खभक्तेच्छापूर्त्तित्रिदशतरयो बुद्धिगुरवो, जयन्ति श्रीमन्तो विजयिविजयानन्दगुरवः ॥ १४ ॥ तेषां तपागणपयोनिधिशीतभासां, विश्वप्रयोजनमनोरमकीर्तिमासाम् । भाग्यभवाधरितसाधुसुधासवाना, राज्ये चिरं विजयिनि प्रतिवासवानाम् ॥ १५ ॥ शिष्याः श्रीविजयादिदानसुगुरोः सिद्धान्तवारांनिधि-श्रीकान्ताः परतीर्थिकनजरजःपुजैकपायोधराः । पूर्व श्रीविमलादिहर्पगुरवः श्रीवाचका जजिरे, यैवैराग्यरति वितीर्य विरतिं चक्रे ममोपक्रिया॥ १६ ॥ विनेयास्तेपां च प्रसूमरयशः पूरितदिशः, श्रुतं दत्त्वा मागजडजनमहानुग्रहकृतः। महोपाध्यायश्रीमुनिविमलपादाः समभवन, भवोदन्वन्मजजननिवहवोहित्थसरशाः ॥ १७ ॥ वैरङ्गिकाणामुपकारकाणां, वचखिनां कीर्तिमतां कवीनाम् । अध्यापकानां सुधियां च मध्ये, दधुः सदा ये प्रथमत्वमेव ॥ १८ ॥ तेषां शिष्याणुरिमा भावविजयवाचकोऽलिखदृत्तिम् । खपरावबोधविधये खल्पधियामपि सुखावगमाम् ॥ १९॥ निधिषमुरसवसुधा [१६८९] मितवर्षे श्रीरोहिणीमहापुर्याम् । सोऽम्याः प्रथमादर्श खयमेव प्रापयत्सिद्धिम्॥२०॥ गुणगणमुरतरुमुरगिरिकल्पैस्तस्याग्रजैः सतीध्यश्च । श्रीविजयहर्पकृतिभिर्विदघे साहाय्यमिह सम्यक् ॥ २१ ॥ अनुमृत्य पूर्ववृत्तीलिखितायामपि यदत्र दुष्टं स्यात् । तच्छोध्यं मयि कृत्वा कृपां कृतीन्द्रः प्रकृतिसरलैः ॥ २२॥ श्रीशलेश्वरपार्थप्रभुप्रभारात् प्रभूतशुभभावात् । आचन्द्रार्क नन्दतु वृत्तिरसौ मोदयन्ती ज्ञान् ॥ २३ ॥ शान्तिं तुष्टिं पुर्टि श्रेयः मन्तानसौख्यकमलाच । व्याख्यातृश्रोतृणां वृत्तिरसों दिशतु मङ्गलैकगृहम् ॥ २४ ॥ ससूत्रायामिह श्लोक-संख्या संख्याय निर्मिता । र्शते द्वे पञ्चपञ्चाशे, सहस्राणि च षोडश ॥ २५ ॥ "सूत्रग्रन्थाग्रं [ २०००] वृत्तिग्रन्थानं [१४२५५] उभयं [ १६२५५]" १ श्रीरोहिणीपुरि महद्धौं ॥ इति "घ" पुस्तके ॥ २ पञ्चपश्चाशे शते द्वे, “घ” पुस्तके । न्टन्छ MPLOMANT श ॥इति सवृत्तिकं उत्तराध्ययनसूत्रम् || ಕನಕನಹಹಾಹಾಹಾಹಾಹಾಹಣಹಾಜಹಾಗೆ

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424