Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 408
________________ उत्तराध्ययन 403 धिनोरपि सतोः । तथा समुच्चये, चः पूरणे, निमित्तमतीतादि तद्विषये भवति प्रतिसेवी अपुष्टालम्बनेऽपि तापणात्, एताभ्यां कारणाभ्यां आसुरीं भावनां करोति ॥ २६४ ॥ तथा मूलम्-सत्थग्गहणं विसभक्खणं च जलणं च जलप्पवेसो अ। अणायारभंडसेवा जम्मणमरणाणि बंधंति ॥ २६५ ॥ व्याख्या-शस्त्रस्य ग्रहणं वधार्थमात्मनि व्यापारणं शस्त्रग्रहणं, विषभक्षणं, चशब्द उक्तसमुखये, ज्वलनं च दीपनमात्मन इति शेषः, जलप्रवेशश्च चशब्दोऽनुक्तभृगुपातादिपरिग्रहार्थः । आचारः शास्त्रविहितो व्यवहारस्तेन भाण्डमुपकरणं आचारभाण्डं न तथा अनाचारभाण्डं तस्य सेवा हास्यमोहादिभिः परिभोगोऽनाचारभाण्डसेवा च, चस्सगम्यत्वादेतानि कुर्वन्तो जन्ममरणानि उपचारात्तन्निमित्तकर्माणि वन्ति, संक्लेशहेतुतया शस्त्रग्रहणादीनामनन्तभवनिवन्धनत्वात् । अनेन चोन्मार्गप्रतिपत्त्या मार्गविप्रतिपत्तिराक्षिप्ता तथा चेहार्थतो मोही भावनोक्ता । यतस्तलक्षण. मिदं-"उम्मग्गदेसओ मग्गनासओ मग्गविपडियत्ती अ । मोहेण य मोहित्ता समोहणं भावणं कुणइ ॥१॥" फलं चासामनन्तरं परम्परं चैवं-"एयाओ भावणाओ, भाविता देवदुग्गई जंति । तत्तो अचुआ संता, पति भवसागरमणंतं ॥ १॥" इहानन्तरं फलं देवदुर्गतिगमनं परम्परं तु भयाम्धिभ्रमणमिति सूत्रार्थः ॥ २६५ ॥ संप्रत्युपसंहारद्वारेण शास्त्रस्य माहात्म्यमाहमूलम्-इइ पाउकरे बुद्धे, नायए परिनिव्वुए। छत्तीसं उत्तरज्झाए, भवसिद्धियसंमएत्ति बेमि ॥ २६६ ॥ । व्याख्या-इति एताननन्तरोक्तान् ‘पाउकरेत्ति' प्रादुष्कृत्य कांश्चिदर्थतः कांश्चित्तु सूत्रतोऽपि प्रकाश्य युद्धः सकलवस्तुतत्त्वो ज्ञातजो ज्ञातकुलोद्भवः स चेह श्रीवर्द्धमानखामी परिनिवृतो निर्वाणं गतः, यद्वा 'पाउकरेत्ति' प्रादुरकार्षीत् प्रकाशितवान् शेषं प्राग्वन्नयरं परिनिर्वृतः कषायादितपोपशमात्खस्थीभूतः । कान् प्रादुरकाीदित्याह-पत्रिंशदुत्तराः प्रधाना अध्याया अध्ययनानि उत्तराध्यायास्तान्, भवसिद्धिकानां भन्यानां संमतानभिप्रेतान् । इति परिसमाप्तौ वीमीति प्राग्वदिति सूत्रार्थः ॥ २६६ ॥ इति षट्त्रिंशमध्ययनम् ॥ ३६ ॥ धर्मकल्पद्रुमस्कन्धस्यास्य श्रुतस्कन्धस्य नियुक्तिकारोऽप्येवं माहात्म्यमाह- . मूलम्जे किर भवसिद्धिआ,परित्तसंसारिआ य जे भवा।ते किर पढंति एए, छत्तीसं उत्तरज्झाए ॥१॥ व्याख्या-अत्र भवत्ति' भव्या आसन्नाक्षिप्तसिद्धयो रत्नत्रयाराधका भिन्नग्रन्थय इत्यर्थः, भवसिद्धिकशब्दस्तु सामान्येन भव्यत्वार्थः ॥१॥ मूलम्-जे हुंति अभवसिद्धि, गंठिअसत्ता अणंतसंसारी।ते संकिलिहकम्मा,अभविआ उत्तरज्झाए । ___ व्याख्या-गंठिअसत्तत्ति' प्रन्थिकसत्त्वा अभिन्नग्रन्थय इत्यर्थः ॥ 'अमवित्ति' अभव्या अयोग्या उत्तराण्याये उत्तराध्ययनपठने ॥२॥ ततः किं कार्यमित्याहमूलम् तम्हा जिणपण्णत्ते, अणंतगमपज्जवेहिं संजुत्ते। अज्झाए जहजोगं, गुरुप्पसाया अहिजिजा॥३॥ व्याख्या-तस्माजिनप्रज्ञप्ताननन्तैर्गमेरर्थभेदैः पर्यवैः शब्दपर्यायैः संयुक्तान् अध्यायान् उत्तराध्ययनानि यथायोग योग उपधानाधुचितक्रिया तदनतिक्रमेण गुरुप्रसादादधीयेत पठेन्न तु प्रमादं कुर्यादित्यर्थः । गुरुप्रसादामिधानं चेह श्रुताध्ययनार्थिना गुरवोऽवश्यं प्रसाचा इति ख्यापनार्थमिति गाथात्रयार्थः ॥३॥ मूलम्-जस्साढत्ता एए, कहवि समप्पंति विग्घरहिअस्स।सोलखिज्जइ भयो, पुत्वरिसी एव भासंति ४ व्याख्या स्पष्टा ॥ ४ ॥ इति सम्पूर्णा श्रीउत्तराध्ययनसूत्रवृत्तिः ॥ ॥ अथ प्रशस्तिः ॥ अनन्तकल्याणनिकेतनं तं, नमामि शङ्केश्वरपार्थनाथम् । यस प्रभावाद्वरसिद्धिसोध-मध्यास्त निर्विघ्नमसौ प्रयत्नः१ श्रिया जयन्ती द्युतिमैन्दवींद्रा-ग्मुदाभिवन्दे श्रुतदेवतां ताम्।प्रसादमासाद्य यदीयमेषा,वृत्तिर्मया मन्दधियापि तेनेर सत्कीर्तिलक्ष्मीपरिवर्द्धमानं, श्रीवर्द्धमानं जिनराजमीडे।पुनाति लोकं सुरसार्थशाली, यदागमो गान इव प्रवाहः॥३॥ तच्छिष्यमुख्यसकलर्द्धिपात्रं,श्रीगौतमो मे शिवतातिरस्तु । गणी सुधर्मा च सतां सुधर्मा-बहोस्तु वीरप्रभुदत्तपट्टः ४ जम्बूद्वीपे सुरगिरिरिव चन्द्रकुलं विभाति तद्वंशे । मेरौ नन्दनवनमिव तस्मिन्नन्दति तपागच्छः ॥५॥

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424