Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
400
उत्तराध्ययन व्याख्या-या तेषां देवानामायुःस्थितिः सैय कायस्थितिम॒त्वा पुनस्तत्रोत्पादाभावात् ॥ २४१, २४२, २४३ ॥ मूलम्-अणंतकालमुक्कोस, अंतोमुहुत्तं जहण्णयं । विजढंमि सए काए, देवाणं हुज अंतरे ॥२४४॥
____एएसिवण्णओ चेव, गंधओरसफासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो॥२४५॥ ___ व्याख्या-प्राग्वदिति केषाश्चिदवयवार्थः ॥ २४४, २४५ ॥ संप्रति निगमनमाहमूलम्-संसारत्था य सिद्धा य, इइजीवा विआहिआ। रूविणो चेवऽरूवी य,अजीवा दुविहावि अ२४६
व्याख्या-संसारस्थाश्च सिद्धाश्च इत्यनेन पूर्वोक्तन्यायेन जीवा व्याख्याताः, रूपिणोऽरूपिणथेति अजीवा अपि द्विविधा व्याख्याता इति योगः ॥ २४६ ॥ अथ कश्चिजीवाजीवविभक्तिश्रवणश्रद्धानमात्रादेव कृतार्थतां मन्येताऽतस्तदाशङ्कापनोदार्थमाहमूलम्-इइ जीवमजीवे अ, सुच्चा सदहिऊण य । सबनयाण अणुमए, रमिज्जा संजमे मुणी ॥२४७॥
व्याख्या-इति जीवानजीवांश्च श्रुत्वा श्रद्धाय च सर्वे च ते नयाश्च सर्वनया ज्ञानक्रियानयान्तर्गता नैगमादयस्तेषामनुमतेऽभिप्रेते रमेत संयमे मुनिरिति सूत्रार्थः ॥ २४७ ॥ संयमे रतिं कृत्वा यत्कार्यं तदाहमूलम्-तओ वहूणि वासाणि,सामण्णमणुपालिआ।इमेण कम्मजोगेणं, अप्पाणं संलिहे मुणी॥२४८॥
व्याख्या-अत्र 'कम्मजोगेणंति' क्रमेण योगस्तपोऽनुष्ठानरूपो व्यापारः क्रमयोगस्तेन 'संलिहेत्ति' संलिखेत् द्रव्यतो भावतश्च कृशीकुर्यात् ॥ २४८ ॥ क्रमयोगमेवाहमूलम्-बारसेव उ वासाइं,संलेहुक्कोसिआ भवे । संवच्छरं मज्झिमिआ,छम्मासे अजहण्णिआ।२४९।
व्याख्या-द्वादशैव तुः पूत्तौ वर्षाणि संलेखना द्रव्यतो वपुषो भावतः कपायाणां कृशतापादनमुत्कृष्टा भवति, संवत्सरं मध्यमा, पण्मासांश्च जघन्यका ॥ २४९ ॥ उत्कृष्टायाः क्रमयोगमाहमूलम्-पढमे वासचउकंम्मि, विगई निजूहणं करे।विइए वासचउकम्मि, विचित्तं तु तवं चरे ॥२५०॥
व्याख्या-प्रथमे वर्पचतुष्के विकृतिनिहनं विकृतित्यागं कुर्यात् , इदं च विचित्रतपसः पारणके । यदाह निशीथचूर्णिकारः-"अण्णे चत्तारि वरिसे विचित्तं तवं काउं आयंबिलेण निविइएण वा पारेइत्ति" केवलमनेन द्वितीये वर्षचतुष्के इदमुक्तं, अत्र तु प्रथमे दृश्यते ततोऽस्य प्रकारद्वयेनापि करणे न दोष इति ज्ञायते । द्वितीये वर्षचतुष्के 'विचित्तं तुत्ति' विचित्रमेव पष्ठाप्टमादिकं तपश्चरेदत्र च पारणके सर्व कल्पनीयं पारयतीति संप्रदायः ॥ २५० ॥ मूलम्-एगंतरमायाम, कट्ट संवच्छरे दुवे । तओ संवच्छरद्धं तु, नाइविगिटुं तवं चरे ॥ २५१ ॥
तओ संवच्छरद्धं तु, विगिळं तु तवं चरे । परिमिअं चेव आयामं, तंमि संवच्छरे करे॥२५२॥
कोडीसहिअमायाम, कद्दू संवच्छरे मुणी।मासद्धमासिएणंतु, आहारेणं तवं चरे ॥ २५३ ॥ ___ व्याख्या-एकेन चतुर्थलक्षणेन तपसा अन्तरं व्यवधानं यस्मिंस्तदेकान्तरं आयाम आचाम्लं कृत्वा संवत्सरौ द्वौ, ततः संवत्सरार्द्ध मासपट्क तुः पूतौ न नैवातिविकृष्टमष्टमदशमादि तपश्चरेत् ॥ २५१ ॥ ततः संवत्सरार्द्ध तुः एवकारार्थे 'विगिळं तुति' विकृष्टमेव तपश्चरेत्, अत्रैव विशेषमाह-'परिमिरं चेवत्ति' परिमितमेव खल्पमेव आचाम्लं,द्वादशे हि वर्षे निरन्तरमाचाम्लमिह तु चतुर्थादिपारणक एवेति परिमितमित्युक्तं,तस्मिन् द्विधा विभज्योक्ते संवत्सरे कुर्यात्॥२५२॥कोट्यौ अग्रे प्रत्याख्यानाद्यन्तरूपे सहिते मीलिते यस्मिंस्तत्कोटीसहितं,अयं भावः-विवक्षितदिने आचाम्लं कृत्वा पुनर्द्वितीयेऽहि आचाम्लमेव प्रत्याख्याति ततः प्रथमस्य पर्यन्तकोटिद्वितीयस्य प्रारम्भकोटिरभे अपि मीलिते भवतस्ततस्तकोटीसहितं स्यात् , इदृशं निरन्तरमित्यर्थः, आचाम्लं कृत्वा संवत्सरे प्रक्रमात् द्वादशे मुनिः 'मासत्ति' मासिकेन अर्द्धमासिकेन वा 'आहारेणंति' आहारप्रत्याख्यानेन तप इति प्रस्तावाद्भक्तपरिज्ञादिकमनशनं चरेत् । निशीथचूर्णायुक्तः संप्रदायश्चायमत्र-“दुवालसमं परिसं निरंतरं हीप्रमाणं उसिणोदएणं आयंत्रिलं करेइ, तं कोडीसहि भण्णइ जेणायंबिलस्स कोडी कोडीए मिलइ, जहा पदीवस्स बत्ती तिलं च समं निवइ तहा पारसमे वरिसे आहारं परिहावेइ जहा आहारसंलेहणाए आउभं च समं निट्ठवइ । एत्थ बारसमस्स वासस्स पच्छिमा जे चत्तारि मासा तेसु तेलगंडूसे निसीटं घरेउं खेल्लमल्लगे णिच्छुहइ, मा अइरुक्खत्तणओ मुहतविसंवाओ

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424