Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 394
________________ 389 उत्तराध्ययन मूलम्-अलोए पडिहया सिद्धा, लोअग्गे अ पइट्ठिआ।इहं बोदिं चइत्ता णं, तत्थ गतूण सिज्झइ।५६। व्याख्या-अलोके केवलाकाशरूपे प्रतिहताः सिद्धाः, तत्र धर्मास्तिकायाभावेन तेषां गतेरभावात् , लोकाने च प्रतिष्ठिताः सदावस्थिताः, ननु तिर्यगधो वा तेषां गतिर्भाविनी तत्कथं लोकाग्रे तदवस्थान ? उच्यते-अधस्तिर्यग्गयोः कर्माधीनत्वात् तेषां च क्षीणकर्मत्वान्न तत्सम्भवो यदुक्तं-"अधस्तिर्यगथोएं च, जीवानां कर्मजा गतिः। ऊर्यमेव तु ताद्धा-द्भवति क्षीणकर्मणाम् ॥ १॥" इह तिर्यग्लोकादी बोन्दि यपुस्त्यक्त्वा तत्र लोकाग्रे गत्वा सिध्यन्ति । इह च यस्मिन्समये देहत्यागस्तस्मिन्नेव मोक्षो लोकाग्रे गतिः सिद्धत्वं च "मुखं व्यादाय स्खपिति" इत्यादिवदिहापि क्त्वाप्रत्ययस्य समानकाल एव प्रयोगादिति सूत्रत्रयार्थः ॥ ५६ ॥ लोकाग्रे गत्वा सिध्यन्ति इत्युक्तं, लोकाग्रं चेपत्प्राग्भाराया उपरीति तत्वरूपं सिद्धखरूपं चाहमूलम्-चारसहिं जोअणेहिं, सबहस्सुवरिं भवे । इसीपब्भारनामा उ, पुढवी छत्तसंठिआ ॥ ५७ ॥ व्याख्या-द्वादशभिर्योजनैः सर्वार्थस्यानुत्तरविमानस्योपरि भवेत् , ईपत्प्राग्भारेति नाम यस्याः सा ईपत्प्राग्भारनामा, तुः पूत्तौं, पृथिवी । छत्रसंस्थिता छत्राकारा ॥ ५७ ॥ मूलम्-पणयालसयसहस्सा,जोअणाणं तु आयया। तावइअंचेव विच्छिण्णा, तिगुणो तस्सेव परिरओ व्याख्या-पञ्चचत्वारिंशत् शतसहस्राणि लक्षाणि योजनानां तुः पूतौ आयता दीर्घा, 'तावइ चेवत्ति' तावतश्चैव शतसहस्रान् विस्तीर्णा, त्रिगुणः 'तस्सेयत्ति' तस्मादायामात्परिरयः परिधिः । इह च त्रिगुण इत्युक्तेऽपि विशेपाधिक्यं द्रष्टव्यम् । परिरयमानं चैवं-“एगा जोअणकोडि, बायालीसं भवे सयसहस्सा । तीसं चेव सहस्सा, दो चेव सया अउणपण्णत्ति ॥१॥ ५८ ॥ मूलम्-अट्ठजोअणवाहल्ला, सा मज्झमि विआहिआ।परिहायंती चरिमंते, मच्छिपत्ताओ तणुअतरी५९ व्याख्या-अप्टयोजनवाहल्या सा मध्ये मध्यप्रदेशे व्याख्याता, ततः परि समन्तात् हीयमाना 'चरिमंतेत्ति' चरमान्तेषु सकलदिग्बार्तिपर्यन्तप्रदेशेषु मक्षिकापत्रादपि तनुकतरा । हानिश्चात्र प्रतियोजनमङ्गलपृथक्त्वस्य ज्ञेया॥ ५९॥ मूलम्-अजुणसुवण्णगमई, सा पुढवी निम्मला सहावेणं। उत्ताणगछत्तसंठिआय,भणिआ जिणवरेहि व्याख्या-अर्जुनसुवर्णकमयी शुक्लफनकमयी सा पृथ्वी निर्मला स्वभावेन नोपाधितः, उत्तानकच्छत्रसंस्थिता। पूर्व छत्रसंस्थितेति सामान्येनोक्तं, इह तु उत्तानत्वं तद्विशेष इति न पौनरुक्त्यम् ॥ ६ ॥ मूलम्-संखंककुंदसंकासा,पंडुरा निम्मला सुभा।सीआए जोअणे तत्तो,लोअंतो उ विआहिओ॥३१॥ ___ व्याख्या-पूर्वार्द्ध स्पष्टं, 'सीआएत्ति' शीतायाः शीताभिधायाः पृथ्व्या उपरीति शेषः, योजने उत्सेधा लनि पन्ने इति गम्यं, तत इति तस्या लोकान्तस्तुः पूत्तौं व्याख्यातः ॥ ६१ ॥ ननु यदि योजने लोकान्तस्तर्हि किं तत्र योजने सर्वत्र सिद्धाः सन्ति उत नेत्साहमूलम्-जोअणस्स उ जो तस्स, कोसो उवरिमो भवे। तस्स कोसस्स छब्भाए, सिद्धाणोगाहणा भवे॥ _व्याख्या-योजनस्य तु यस्तस्य क्रोश 'उवरिमोत्ति' उपरिवर्ती भवेत् तस्य क्रोशस्य षड्भागे द्वात्रिंशदङ्गुलत्रयस्त्रिंशद्धनुरधिकधनुःशतत्रयरूपे सिद्धानामवगाहना भवेत् ॥ ६२ ॥ अवगाहना च चलनसम्भवेऽपि स्यादित्याहमूलम्-तत्थ सिद्धा महाभागा, लोगग्गंमि पइहिआ।भवप्पवंचउम्मुक्का, सिद्धिं वरगइं गया ॥३॥ व्याख्या-तत्र योजनषड्भागे सिद्धा महाभागा अतिशयाचिन्त्यशक्तयो लोकाग्रे प्रतिष्ठिताः, एतच्च कुतः? इत्याहभवा नारकादिभवास्तेषां प्रपञ्चो विस्तारस्तेनोन्मुक्ताः सिद्धिं वरगतिं गताः । अयं भावो भवप्रपञ्च एव चलने हेतुः स च सिद्धानां नास्तीति कुतः तेषां चलनमिति ॥ ६३ ॥ सिद्धानामवगाहनामाहमूलम्-उस्सेहो जस्स जो होइ, भवम्मि चरिमम्मि ।तिभागहीणा तत्तो अ, सिद्धाणोगाहणाभवे६४ व्याख्या-उत्सेध उच्छ्यः प्रक्रमाहेहस्य 'जस्सत्ति' येषां सिद्धानां य इति यत्परिमाणो भवति भवे चरमे पर्य

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424