________________
389 उत्तराध्ययन मूलम्-अलोए पडिहया सिद्धा, लोअग्गे अ पइट्ठिआ।इहं बोदिं चइत्ता णं, तत्थ गतूण सिज्झइ।५६।
व्याख्या-अलोके केवलाकाशरूपे प्रतिहताः सिद्धाः, तत्र धर्मास्तिकायाभावेन तेषां गतेरभावात् , लोकाने च प्रतिष्ठिताः सदावस्थिताः, ननु तिर्यगधो वा तेषां गतिर्भाविनी तत्कथं लोकाग्रे तदवस्थान ? उच्यते-अधस्तिर्यग्गयोः कर्माधीनत्वात् तेषां च क्षीणकर्मत्वान्न तत्सम्भवो यदुक्तं-"अधस्तिर्यगथोएं च, जीवानां कर्मजा गतिः। ऊर्यमेव तु ताद्धा-द्भवति क्षीणकर्मणाम् ॥ १॥" इह तिर्यग्लोकादी बोन्दि यपुस्त्यक्त्वा तत्र लोकाग्रे गत्वा सिध्यन्ति । इह च यस्मिन्समये देहत्यागस्तस्मिन्नेव मोक्षो लोकाग्रे गतिः सिद्धत्वं च "मुखं व्यादाय स्खपिति" इत्यादिवदिहापि क्त्वाप्रत्ययस्य समानकाल एव प्रयोगादिति सूत्रत्रयार्थः ॥ ५६ ॥ लोकाग्रे गत्वा सिध्यन्ति इत्युक्तं, लोकाग्रं चेपत्प्राग्भाराया उपरीति तत्वरूपं सिद्धखरूपं चाहमूलम्-चारसहिं जोअणेहिं, सबहस्सुवरिं भवे । इसीपब्भारनामा उ, पुढवी छत्तसंठिआ ॥ ५७ ॥
व्याख्या-द्वादशभिर्योजनैः सर्वार्थस्यानुत्तरविमानस्योपरि भवेत् , ईपत्प्राग्भारेति नाम यस्याः सा ईपत्प्राग्भारनामा, तुः पूत्तौं, पृथिवी । छत्रसंस्थिता छत्राकारा ॥ ५७ ॥ मूलम्-पणयालसयसहस्सा,जोअणाणं तु आयया। तावइअंचेव विच्छिण्णा, तिगुणो तस्सेव परिरओ
व्याख्या-पञ्चचत्वारिंशत् शतसहस्राणि लक्षाणि योजनानां तुः पूतौ आयता दीर्घा, 'तावइ चेवत्ति' तावतश्चैव शतसहस्रान् विस्तीर्णा, त्रिगुणः 'तस्सेयत्ति' तस्मादायामात्परिरयः परिधिः । इह च त्रिगुण इत्युक्तेऽपि विशेपाधिक्यं द्रष्टव्यम् । परिरयमानं चैवं-“एगा जोअणकोडि, बायालीसं भवे सयसहस्सा । तीसं चेव सहस्सा, दो चेव सया अउणपण्णत्ति ॥१॥ ५८ ॥ मूलम्-अट्ठजोअणवाहल्ला, सा मज्झमि विआहिआ।परिहायंती चरिमंते, मच्छिपत्ताओ तणुअतरी५९
व्याख्या-अप्टयोजनवाहल्या सा मध्ये मध्यप्रदेशे व्याख्याता, ततः परि समन्तात् हीयमाना 'चरिमंतेत्ति' चरमान्तेषु सकलदिग्बार्तिपर्यन्तप्रदेशेषु मक्षिकापत्रादपि तनुकतरा । हानिश्चात्र प्रतियोजनमङ्गलपृथक्त्वस्य ज्ञेया॥ ५९॥ मूलम्-अजुणसुवण्णगमई, सा पुढवी निम्मला सहावेणं। उत्ताणगछत्तसंठिआय,भणिआ जिणवरेहि
व्याख्या-अर्जुनसुवर्णकमयी शुक्लफनकमयी सा पृथ्वी निर्मला स्वभावेन नोपाधितः, उत्तानकच्छत्रसंस्थिता। पूर्व छत्रसंस्थितेति सामान्येनोक्तं, इह तु उत्तानत्वं तद्विशेष इति न पौनरुक्त्यम् ॥ ६ ॥ मूलम्-संखंककुंदसंकासा,पंडुरा निम्मला सुभा।सीआए जोअणे तत्तो,लोअंतो उ विआहिओ॥३१॥ ___ व्याख्या-पूर्वार्द्ध स्पष्टं, 'सीआएत्ति' शीतायाः शीताभिधायाः पृथ्व्या उपरीति शेषः, योजने उत्सेधा लनि
पन्ने इति गम्यं, तत इति तस्या लोकान्तस्तुः पूत्तौं व्याख्यातः ॥ ६१ ॥ ननु यदि योजने लोकान्तस्तर्हि किं तत्र योजने सर्वत्र सिद्धाः सन्ति उत नेत्साहमूलम्-जोअणस्स उ जो तस्स, कोसो उवरिमो भवे। तस्स कोसस्स छब्भाए, सिद्धाणोगाहणा भवे॥ _व्याख्या-योजनस्य तु यस्तस्य क्रोश 'उवरिमोत्ति' उपरिवर्ती भवेत् तस्य क्रोशस्य षड्भागे द्वात्रिंशदङ्गुलत्रयस्त्रिंशद्धनुरधिकधनुःशतत्रयरूपे सिद्धानामवगाहना भवेत् ॥ ६२ ॥ अवगाहना च चलनसम्भवेऽपि स्यादित्याहमूलम्-तत्थ सिद्धा महाभागा, लोगग्गंमि पइहिआ।भवप्पवंचउम्मुक्का, सिद्धिं वरगइं गया ॥३॥
व्याख्या-तत्र योजनषड्भागे सिद्धा महाभागा अतिशयाचिन्त्यशक्तयो लोकाग्रे प्रतिष्ठिताः, एतच्च कुतः? इत्याहभवा नारकादिभवास्तेषां प्रपञ्चो विस्तारस्तेनोन्मुक्ताः सिद्धिं वरगतिं गताः । अयं भावो भवप्रपञ्च एव चलने हेतुः स च सिद्धानां नास्तीति कुतः तेषां चलनमिति ॥ ६३ ॥ सिद्धानामवगाहनामाहमूलम्-उस्सेहो जस्स जो होइ, भवम्मि चरिमम्मि ।तिभागहीणा तत्तो अ, सिद्धाणोगाहणाभवे६४ व्याख्या-उत्सेध उच्छ्यः प्रक्रमाहेहस्य 'जस्सत्ति' येषां सिद्धानां य इति यत्परिमाणो भवति भवे चरमे पर्य