________________
338
उत्तराध्ययन
व्याख्या - इमानि सर्वाण्यपि प्राग्वयाख्येयानि समुदायार्थस्त्वयमेपां, तथाहि - अत्र द्वौ गन्धो, पञ्च रसाः, अष्टौ स्पर्शाः, पञ्च संस्थानानि तेषु वर्णपञ्चकं विनाऽन्येऽमी मीलिता विंशतिः, एते चैकेन कृष्णवर्णेन लब्धाः, एवं विंशतिभङ्गान् प्रत्येकं पञ्चापि वर्णा लभन्ते, एवं लब्धं शतं १०० । तथा द्वौ गन्धौ तौ विनाऽन्ये पूर्वोक्ता अष्टादश १८, पञ्चभिर्वर्णैमीलितास्त्रयोविंशतिः २३, ततो गन्धद्वयेन लब्धाः ४६ । एवं रसपञ्चके वर्णगन्धस्पर्शसंस्थानभेदेविशत्या लब्धं शतं १०० । इत्थं स्पर्शाष्टके वर्ण ५ गन्ध २ रस ५ संस्थान ५ भेदैः सप्तदशभिर्लब्धं पदत्रिंशं शतं १३६ । एवं संस्थानपञ्चके वर्णादिभेदेर्विशत्या लब्धं शतं १०० । वर्णादिसर्वमङ्गकमीलने जातानि चत्वारि शतानि शीत्यधिकानि ४८२ ॥ इति द्वात्रिंशत्सूत्रार्थः ॥ ४६ ॥ अथोपसंहारद्वारेणोत्तरग्रन्थसम्वन्धमाहमूलम् - एसा अजीवपविभत्ती, समासेण विआहिआ। एत्तो जीवविभत्तिं, तुच्छामि अणुपुवसो ॥४७॥ व्याख्या - स्पष्टम् ॥ ४७ ॥ प्रतिज्ञातमेवाह -
मूलम् - संसारत्थाय सिद्धा य, दुविहा जीवा विआहिआ । सिद्धाऽणेगविहा वुत्ता, तं मे कित्तयओ सुण ॥ ४८ ॥
१ १५ सूत्रादारभ्य ४६ सूत्रपर्यन्तमवसेयम् ॥
व्याख्या – संसारस्थाश्च सिद्धाश्च द्विविधा जीवा व्याख्याताः, तत्रात्पवक्तव्यत्वादादौ सिद्धानाह-सिद्धाः जनेकविधाः प्रोक्ताः 'तं मेत्ति' तान्मे कीर्त्तयतः शृणु हे शिष्येति सूत्रार्थः ॥ ४८ ॥ सिद्धानामनेकविधत्वमेवोपाविभेदेनाह
मूलम् - इत्थी पुरिस सिद्धा य, तहेव य नपुंसगा । सलिंगे अन्नलिंगे अ, गिहिलिंगे तहेव य ॥ ४९ ॥
व्याख्या - सिद्धशब्दः प्रत्येकं योज्यः, स्त्रियश्च ते पूर्वभावापेक्षया सिद्धाश्व स्त्रीसिद्धाः, एवं पुरुषसिद्धाः, तथैव च नपुंसकसिद्धाः, स्वलिङ्गे साधुवेषे, अन्यलिङ्गे च शाक्यादिवेषे, गृहिलिङ्गे गृहस्थवेषे सिद्धास्तथैवेत्युक्तसमुच्चये, चकारोऽनुक्तसिद्धभेदसंसूचक इति सूत्रार्थः ॥ ४९ ॥ अथ सिद्धानेषावगाहनातः क्षेत्रतश्वाह
मूलम् — उक्कोसोगाहणाए अ, जहन्नमज्झिमाइ अ । उड्डे अहे अ तिरिअं च, समुहमि जलंमि अ । ५०
व्याख्या — उत्कृष्टावगाहनायां पञ्चशतधनुर्मानायां सिद्धा: 'जहन्नमज्झिमाइ अत्ति' जघन्यावगाहनायां द्विहस्तमानाय, मध्यमावगाहनायां चोक्तरूपोत्कृष्टजघन्यावगाहनान्तरालवर्त्तिन्यां सिद्धाः ऊर्द्धमूर्द्धलोके मेरुचूलिकादी, अधोऽधस्तादधोलोकेऽघोलौकिकग्रामरूपे, तिर्यक् च तिर्यग्लोके अर्द्धतृतीयद्वीपसमुद्रद्वयरूपे । तत्रापि केचित्समुद्रे सिद्धाः, जले च नद्यादिसम्बधिनीति सूत्रार्थः ॥ ५० ॥ इत्थं स्त्रीसिद्धादीनभिदधता स्त्रीत्वादिषु सिद्धसम्भव उक्तः, सम्प्रति तत्रापि क कियन्तः सिध्यन्तीत्याह
मूलम् - दस चेव नपुंसेसु, वीसई इत्थिआसु अ । पुरिसेसु अ अट्ठसयं, समएणेगेण सिझई ॥५१॥
व्याख्या - अत्र नपुंसकेषु कृत्रिमेष्वेव नान्येषु तेषां प्रत्रज्यापरिणाम स्याप्यभावात्, 'अट्ठसयंति' अष्टोत्तरशतम् ॥ ५१ ॥ मूलम् — चत्तारि अ गिहिलिंगे, अन्नलिंगे दसेव य । सलिंगेण य अट्ठसयं, समएणेगेण सिज्झइ ॥५२॥
व्याख्या स्पष्टम् ॥ ५२ ॥
मूलम् — उक्कोसोगाहणाए उ, सिज्झते जुगवं दुवे । चत्तारि जहण्णाए, जवमज्झद्दुत्तरं सयं ॥ ५३ ॥ व्याख्या- 'जवमज्झत्ति' यवमध्यमिव यवमध्यं मध्यमावगाहना तस्यामष्टोत्तरं शतं यवमध्यत्वं चोत्कृष्टजघन्यावगाहनापेक्षया अस्या बहुतरसंख्यात्वेन पृथुलतयैवावभासमानत्वात् ॥ ५३ ॥
मूलम् - चउरुड्डलोए अ दुवे समुद्दे, तओ जले वीसमहे तहेव य ।
सयं च अत्तर तिरिअलोए, समएण एगेण उ सिज्झई धुवं ॥ ५४ ॥ ब्याख्या - चत्वार ऊर्द्धलोके, शेषं स्पष्टमिति सूत्रचतुष्कार्थः ॥ ५४ ॥ अथ तेषामेव प्रतिघातादि प्रतिपादनायाहमूलम् - कहिं पहिया सिद्धा, कहिं सिद्धा पइडिआ । कहिं बोंदिं चइत्ता णं, कत्थ गंतूण सिज्झइ । ५५ । व्याख्या -क प्रतिहताः स्खलिताः सिद्धाः १ क सिद्धाः प्रतिष्ठिताः साद्यनन्तं कालं स्थिताः १ व बोन्दिं शरीरं त्यक्त्वा ? क्व गत्वा 'सिज्झइत्ति' सिध्यन्ति निष्ठितार्था भवन्ति ? ॥ ५५ ॥ अत्रोत्तरमाह