________________
390
उत्तराध्ययन न्त वर्तिनि तुः पूत्तौं ततश्वरमभयोत्सेधात्रिभागहीना सिद्धानां यत्तदोर्नियाभिसम्बन्धात् तेषामवगाहना भवेत् त्रिभागस्य शरीरान्तर्विवरपूरणेन कृतार्थत्वात् ॥ ६४ ॥ एतानेव कालतो निरूपयितुमाहमूलम्-एगत्तेणं साईआ, अपजवसिआवि अ । पुहत्तेण अणाईआ, अपज्जवसिआवि अ॥६५॥
व्याख्या-एकत्वेन सादिकाः अपर्यवसिता अपि च, यत्र काले ते सिध्यन्ति तत्र तेषामादिः न च कदाचिन्मुक्तेश्यन्तीति न पर्यवसानं । पृथक्त्वेन बहुत्वेन सामस्त्यापेक्षयेत्यर्थः अनादिका अपर्ययसिता अपि च, नहि ते कदाचिन्नाभूवन्न भवन्ति न भविष्यन्ति चेति मायः ॥ ६५ ॥ एषामेव खरूपमाहमूलम्-अरूविणो जीवघणा, नाणदसणसन्निआ।अउलं सुहसंपत्ता, उवमा जस्स नस्थि उ॥ ६६ ॥ ___ व्याख्या-अरूपिणो रूपरसादिरहिताः, जीवाश्च ते सततोपयुक्ततया घनाश्च शुपिरपूरणनिचितप्रदेशतया जीवधनाः, ज्ञानदर्शने एव संज्ञा जाता येषां ते ज्ञानदर्शनसंज्ञिताः, ज्ञानदर्शनोपयोगानन्यखरूपा इत्यर्थः । अतुलं
संप्राप्ताः, उपमा यस्य सुखस्य नास्ति तुः पूतौ ॥ ६६ ॥ उक्तग्रन्थे ज्ञातमपि विप्रतिपत्तिनिरासाय क्षेत्रं खरूपं च तेषामाहमूलम्-लोएगदेसे ते सवे, नाणदसणसनिआ।संसारपारनिस्थिपणा, सिद्धिं वरगइं गया ॥ ६७ ॥
व्याख्या-लोकैकदेशे ते सर्वे इत्येनन सर्वत्र मुक्तास्तिष्ठन्तीति मतमपास्तं, ज्ञानदर्शनसंज्ञिता इत्यनेन ज्ञानोच्छेदे मुक्तिरिति मतं निरस्तं, संसारपारं निस्तीर्णाः पुनरागमनाभावलक्षणेनाधिक्येन अतिक्रान्ताः, अनेन तु “ज्ञानिनो धर्मतीर्थस्य, कारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥१॥" इति मतमपातं, सिद्धिं घरगतिं गता अनेन क्षीणकर्मणोऽपि खभाषेनैवोत्पत्तिसमये लोकाग्रगमनं यावत्सक्रियत्वमप्यस्तीति ख्याप्यते, इत्येकादशसूत्रार्थः ॥ ६७ ॥ इत्थं सिद्धानुक्त्वा संसारस्थानाहमूलम्-संसारस्था उजे जीवा, दुविहा ते विआहिआ। तसा य थावरा चेव, थावरा तिविहातहिं॥८॥
व्याख्या-स्पष्टं ॥ ६८ ॥ त्रैविध्यमेवाहमूलम्-पुढवी आउ जीवा य,तहेव य वणस्सई । इच्छेते थावरा तिविहा, तेसिं भेए सुणेह मे ॥६९॥
म्याख्या-स्पष्टम् , नवरं इह तेजोवाय्बोर्गतित्रसत्येन स्थावरमध्येऽनभिधानम् ॥ ६९ ॥ पृथिवीकायिकानाहमूलम्-दुविहा पुढवीजीवा उ, सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ॥ ७० ॥
व्याख्या-द्विविधाः पृथिवीजीवास्तु सूक्ष्माः सूक्ष्मनामकर्मोदयात्, बादरा पादरनामकर्मोदयात्, 'पज्जत्तमपजत्तत्ति' आहारशरीरेन्द्रियोच्छासवाग्मनोनिष्पत्तिहेतुदलिकं पर्याप्तिस्तद्वन्तः पर्याप्ताः, तद्विपरीता अपर्याप्साः, एव. मेते सूक्ष्मा बादराश्च प्रत्येकं द्विधा पुनः ॥ ७० ॥ पुनरेपामेवोत्तरभेदानाहमूलम्-बायरा जे उ पजत्ता, दुविहा ते विआहिआ।सण्हा खरा य बोधवा, सहा सत्तविहा तहिं ।७१।
व्याख्या-'सण्हत्ति' श्लक्ष्णा चूर्णितलोष्टुकल्पा मृदु पृथियी तदात्मका जीवा अप्युपचारतः श्लक्ष्णा एवमुत्तरत्रापि, खरा कठिना ॥ ७१ ॥ सप्तविधत्वमेवाह
मूलम्-किण्हा १ नीला २ य रुहिरा ३ य, हालिहा ४ सुक्किला ५ तहा ।
__पंडू ६ पणगमट्टीआ ७, खरा छत्तीसईविहा ॥७२॥ म्याख्या-कृष्णा नीला 'रुहिरत्ति' रक्ता हारिद्रा शुक्ला 'पंडुत्ति' पाण्डः पाण्डुरा ईषच्छुक्लत्ववतीत्यर्थः, इत्वं वर्णभेदेन पबिधत्वमुक्तं, इह च पाण्डरग्रहणं कृष्णादिभेदानामपि खस्थाने भेदान्तरसम्भवसूचकम् । पनकोऽत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, पनकस्य च नभसि विवर्त्तमानस्य लोके पृध्वित्वेनारूढत्वाद्भेदेनोपादानम् । खरा पृथ्वी पत्रिंशद्विधा षट्त्रिंशद्भेदा ॥७२ ।। तानेवाह
मूलम्-पुढवी अ सक्करा वालुगा य उवले सिला य लोणूसे।
अय-तंब-तउव-सीसग-रुप्प-सुवण्णे अ वहरे अ ॥ ७३ ॥ व्याख्या-पृथिवी शुद्धपृथिवी १ शर्करा लघूपलशकलरूपा २ वालुका प्रतीता ३ उपलो गण्डशैलादिः ४ शिला