Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 364
________________ 359 उत्तराध्ययन मूलम्-नाणस्स सबस्स पगाराणाए, अण्णाणमोहस्स विवजणाए । रागस्त दोसस्स य संखएणं, एगंतसोक्खं समुवेइ मोक्खं ॥२॥ व्याख्या-ज्ञानस्य मतिज्ञानादेः सर्वस्य पाठान्तरे 'सच्चस्स' सत्यस्य या प्रकाशनया निर्मलीकरणेन, अनेन ज्ञानात्मको मोक्षहेतुरुक्तः । तथा अज्ञानं मत्यज्ञानादि, मोहो दर्शनमोहनीयं, अनयोः समाहारस्तस्य विवर्जना मिथ्याश्रुतश्रवणकुदृष्टिसङ्गत्यागादिना परिहाणिस्तया, अनेन सम्यग्दर्शनरूपो मोक्षहेतुरेयोक्तः । रागस्य द्वेपस्य च संक्षयेण विनाशेन, अनेन चारित्रात्मकः स एवोक्तः, रागद्वेषयोरेव तदुपघातकत्वात् । ततश्चायमर्थः-सम्यग्ज्ञानदर्शनचारित्रैरकान्तसौख्यं समुपैति मोक्षम् अयं च दुःखप्रमोक्षं विना न स्यादित्यनेन स एवोपलक्षित इति सूत्रार्थः ॥ २॥ नन्वस्तु ज्ञानादिभ्यो दुःखप्रमोक्षो ज्ञानादीनां तु कः प्राप्तिहेतुरुच्यते ? । मूलम्-तरसेस मग्गो गुरुविद्धसेवा, विवज्जणा बालजणस्स दूरा । सज्झायएगंतनिसेवणा य, सुत्तत्थसंचिंतणया धिई य ॥३॥ व्याख्या-तस्येत्यनन्तरोक्तस्य ज्ञानादेर्मोक्षोपायस्य एप मार्गः पन्था उपाय इत्यर्थः, क इत्याह-गुरवो यथास्थितशास्त्राभिधायकाः, वृद्धाश्च श्रुतपर्यायादिना स्थविरास्तेषां सेवा गुरुवृद्धसेवा । विवर्जना बालजनस्य पार्श्वस्थादेरात् दूरण, खल्पस्यापि तत्सङ्गस्य महादोपत्वात् । स्वाध्यायस्य एकान्तेन व्यासगात्यागेन निपेत्रणा अनुष्ठानं एकान्तनिपेवणा। चः समुच्चये, सूत्राथेसश्चिन्तना, धृतिश्च मनःखास्थ्य, न हि धृति विना ज्ञानादिलाम इति सूत्रार्थः॥३॥ यद्येवंविधो ज्ञानादेरुपायस्तर्हि तानि वाञ्छता प्राकिं कर्त्तव्यमित्याह मूलम्-आहारमिच्छे मिअमेसणिजं, सहायमिच्छे निउणबुद्धिं । निकेअमिच्छेज विवेगजोगं, समाहिकामे समणे तवस्सी ॥४॥ व्याख्या-अहारमिछेन्मितमेपणीयं, न तु तदन्यं । सहायमिच्छेत् निपुणा अर्थपु जीवादिषु बुद्धिर्यस्य स तथा तं । निकेतमाश्रयमिच्छेद्विवेकः स्याद्यसंसर्गस्तद्योग्यं तदुचितं । समाधिकामः श्रमणः तपस्वीति सूत्रार्थः ॥ ४ ॥ तारशसहायालाभे यत्कार्य तदाह मूलम् -ण वा लभिजा निउणं सहायं, गुणाहि वा गुणओ समं वा। एकोऽवि पावाइं विवजयंतो, विहरिज कामेसु असज्जमाणो ॥ ५॥ व्याख्या-न निषेधे, वा शब्दवेदर्थे, ततश्च न चेलभेत निपुणं सहायं गुणैर्जानादिभिरधिकं गुणाधिकं गुणतो गुणानाश्रित्य समं वा, उभयत्राप्यात्मन इति गम्यते, तदा एकोऽपि पापानि पापहेतुभूतानुष्ठानानि विवर्जयन् विहरेत् कामेषु असजन् प्रतिवन्धमकुर्वन् । तथाविधगीतार्थविपयं चैतदन्यथा एकाकिविहारस्यागमे निपिद्धत्वात् । एतदुक्तौ च मध्यग्रहणे आद्यन्तग्रहणमिति न्यायादाहारवसत्योरप्यपवादोऽवादीति मन्तव्यमिति सूत्रार्थः॥५॥ इत्थं सप्रसङ्ग ज्ञानादीनां दुःखप्रमोक्षोपायत्वमुक्तं, इदानीं तु ज्ञानादिप्रतिवन्धकानां दुःखहेतूनां च मोहादीनां यथोत्पादो यथा दुःखहेतुत्वं यथा च क्षयस्तत्क्षये च यथा दुःखक्षयस्तथाभिधातुमाह मूलम्-जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । एमेव मोहाययणं खु तण्हा, मोहं च तण्हाययणं वयंति ॥६॥ व्याख्या-यथा च येनैव प्रकारेण अण्डप्रभवा बलाका, अण्डं बलाकाप्रभवं च यथा । एवमेवानेनैव प्रकारेण मोहोऽज्ञानं मिथ्यादर्शनं च स आयतनमुत्पत्तिस्थानं यस्याः सा मोहायतना तां खुरवधारणे 'तण्हत्ति' तृष्णां वद. न्तीति सम्वन्धः, यथोक्तमोहाभावे ह्यवश्यं तृष्णाक्षयः स्यादिति । मोहं च तृष्णायतनं वदन्ति, तृष्णा नाम सत्यसति वा वस्तुनि मूर्छा, सा च रागप्रधाना ततस्तया राग उपलक्ष्यते, सति च तत्र द्वेषोऽपि सम्भवतीति सोप्यनेनैवाक्षिप्यते, ततस्तृष्णाग्रहणेन रागद्वेपावुक्तौ, तदुत्कटत्वे चोपशान्तमोहस्यापि मिथ्यात्वगमनसम्भवात्सिद्ध एवाऽज्ञानादिरूपो मोहः, तृष्णातः । अनेन चान्योन्यं हेतुहेतुमद्भावाभिधानेन यथा मोहादीनामुत्पादस्तथोक्तम् ॥ ६ ॥ अथ यथैपां दुःखहेतुत्वं तथा वक्तुमाह

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424