________________
359
उत्तराध्ययन
मूलम्-नाणस्स सबस्स पगाराणाए, अण्णाणमोहस्स विवजणाए ।
रागस्त दोसस्स य संखएणं, एगंतसोक्खं समुवेइ मोक्खं ॥२॥ व्याख्या-ज्ञानस्य मतिज्ञानादेः सर्वस्य पाठान्तरे 'सच्चस्स' सत्यस्य या प्रकाशनया निर्मलीकरणेन, अनेन ज्ञानात्मको मोक्षहेतुरुक्तः । तथा अज्ञानं मत्यज्ञानादि, मोहो दर्शनमोहनीयं, अनयोः समाहारस्तस्य विवर्जना मिथ्याश्रुतश्रवणकुदृष्टिसङ्गत्यागादिना परिहाणिस्तया, अनेन सम्यग्दर्शनरूपो मोक्षहेतुरेयोक्तः । रागस्य द्वेपस्य च संक्षयेण विनाशेन, अनेन चारित्रात्मकः स एवोक्तः, रागद्वेषयोरेव तदुपघातकत्वात् । ततश्चायमर्थः-सम्यग्ज्ञानदर्शनचारित्रैरकान्तसौख्यं समुपैति मोक्षम् अयं च दुःखप्रमोक्षं विना न स्यादित्यनेन स एवोपलक्षित इति सूत्रार्थः ॥ २॥ नन्वस्तु ज्ञानादिभ्यो दुःखप्रमोक्षो ज्ञानादीनां तु कः प्राप्तिहेतुरुच्यते ? ।
मूलम्-तरसेस मग्गो गुरुविद्धसेवा, विवज्जणा बालजणस्स दूरा ।
सज्झायएगंतनिसेवणा य, सुत्तत्थसंचिंतणया धिई य ॥३॥ व्याख्या-तस्येत्यनन्तरोक्तस्य ज्ञानादेर्मोक्षोपायस्य एप मार्गः पन्था उपाय इत्यर्थः, क इत्याह-गुरवो यथास्थितशास्त्राभिधायकाः, वृद्धाश्च श्रुतपर्यायादिना स्थविरास्तेषां सेवा गुरुवृद्धसेवा । विवर्जना बालजनस्य पार्श्वस्थादेरात् दूरण, खल्पस्यापि तत्सङ्गस्य महादोपत्वात् । स्वाध्यायस्य एकान्तेन व्यासगात्यागेन निपेत्रणा अनुष्ठानं एकान्तनिपेवणा। चः समुच्चये, सूत्राथेसश्चिन्तना, धृतिश्च मनःखास्थ्य, न हि धृति विना ज्ञानादिलाम इति सूत्रार्थः॥३॥ यद्येवंविधो ज्ञानादेरुपायस्तर्हि तानि वाञ्छता प्राकिं कर्त्तव्यमित्याह
मूलम्-आहारमिच्छे मिअमेसणिजं, सहायमिच्छे निउणबुद्धिं ।
निकेअमिच्छेज विवेगजोगं, समाहिकामे समणे तवस्सी ॥४॥ व्याख्या-अहारमिछेन्मितमेपणीयं, न तु तदन्यं । सहायमिच्छेत् निपुणा अर्थपु जीवादिषु बुद्धिर्यस्य स तथा तं । निकेतमाश्रयमिच्छेद्विवेकः स्याद्यसंसर्गस्तद्योग्यं तदुचितं । समाधिकामः श्रमणः तपस्वीति सूत्रार्थः ॥ ४ ॥ तारशसहायालाभे यत्कार्य तदाह
मूलम् -ण वा लभिजा निउणं सहायं, गुणाहि वा गुणओ समं वा।
एकोऽवि पावाइं विवजयंतो, विहरिज कामेसु असज्जमाणो ॥ ५॥ व्याख्या-न निषेधे, वा शब्दवेदर्थे, ततश्च न चेलभेत निपुणं सहायं गुणैर्जानादिभिरधिकं गुणाधिकं गुणतो गुणानाश्रित्य समं वा, उभयत्राप्यात्मन इति गम्यते, तदा एकोऽपि पापानि पापहेतुभूतानुष्ठानानि विवर्जयन् विहरेत् कामेषु असजन् प्रतिवन्धमकुर्वन् । तथाविधगीतार्थविपयं चैतदन्यथा एकाकिविहारस्यागमे निपिद्धत्वात् । एतदुक्तौ च मध्यग्रहणे आद्यन्तग्रहणमिति न्यायादाहारवसत्योरप्यपवादोऽवादीति मन्तव्यमिति सूत्रार्थः॥५॥ इत्थं सप्रसङ्ग ज्ञानादीनां दुःखप्रमोक्षोपायत्वमुक्तं, इदानीं तु ज्ञानादिप्रतिवन्धकानां दुःखहेतूनां च मोहादीनां यथोत्पादो यथा दुःखहेतुत्वं यथा च क्षयस्तत्क्षये च यथा दुःखक्षयस्तथाभिधातुमाह
मूलम्-जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य ।
एमेव मोहाययणं खु तण्हा, मोहं च तण्हाययणं वयंति ॥६॥ व्याख्या-यथा च येनैव प्रकारेण अण्डप्रभवा बलाका, अण्डं बलाकाप्रभवं च यथा । एवमेवानेनैव प्रकारेण मोहोऽज्ञानं मिथ्यादर्शनं च स आयतनमुत्पत्तिस्थानं यस्याः सा मोहायतना तां खुरवधारणे 'तण्हत्ति' तृष्णां वद. न्तीति सम्वन्धः, यथोक्तमोहाभावे ह्यवश्यं तृष्णाक्षयः स्यादिति । मोहं च तृष्णायतनं वदन्ति, तृष्णा नाम सत्यसति वा वस्तुनि मूर्छा, सा च रागप्रधाना ततस्तया राग उपलक्ष्यते, सति च तत्र द्वेषोऽपि सम्भवतीति सोप्यनेनैवाक्षिप्यते, ततस्तृष्णाग्रहणेन रागद्वेपावुक्तौ, तदुत्कटत्वे चोपशान्तमोहस्यापि मिथ्यात्वगमनसम्भवात्सिद्ध एवाऽज्ञानादिरूपो मोहः, तृष्णातः । अनेन चान्योन्यं हेतुहेतुमद्भावाभिधानेन यथा मोहादीनामुत्पादस्तथोक्तम् ॥ ६ ॥ अथ यथैपां दुःखहेतुत्वं तथा वक्तुमाह