SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ 360 उत्तराध्ययन मूलम्-रागो य वोसोवि य कम्मबीयं, कम्मं च मोहप्पभवं वयंति । कम्मं च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ॥७॥ व्याख्या-रागश्च द्वेषोपि च कर्मणो ज्ञानावरणादेबीजं कारणं, अत एव कर्म च मोहप्रभवं मोहोपादानकारणं बदन्ति । कर्म च जातिमरणस्य मूलं कारणं, दुःखं च दुःखहेतुः पुनर्जातिमरणं वदन्ति ॥७॥ यतश्चैवमतः कि स्थितमित्याह मूलम्-दुक्खं हयं जस्स न होइ मोहो, मोहो हो जस्स न होइ तण्हा । तण्हा हया जस्स न होइ लोहो, लोहो हओ जस्स न किंचणाई ॥ ८॥ व्याख्या-दुःखमुक्तरूपं हतमिय हतं, केनेत्याह-यस्य न भवति मोहो मोहस्यैव तन्मूलहेतुत्वात् । भोहो हतो यस्य न भवति तृष्णा, मोहायतनत्वात् तस्याः । तृष्णा हता यस्य न भवति लोभः, तृष्णाशब्देनोक्तनीत्या रागद्वेषयोरुक्तत्वात् , तयोश्च लोभक्षये सर्वथैवाभावात् , अत एव प्राधान्यात् रागान्तर्गतत्वेपि लोभस्य पृथग्ग्रहणं । लोमो हतो यस्य न किश्चनानि द्रव्याणि सन्तीति शेषः, सत्सु हि तेषु प्रायः स्यादेवामिकांक्षेति सूत्रत्रयार्थः ॥८॥ ननु सन्तु दुःखस्य मोहाचा हेतवो हननोपायस्तेषां पूर्वोक्त एव उतान्येपि सन्तीत्साशंक्य सविस्तरं सदुन्मूलनोपायान् विवक्षुः प्रस्तावनामाह मूलम् -रागं च दोसं च तहेब मोहं, उद्धत्तुकामेण समूलजालं। जे जे उवाया पडिवजियवा, ते कित्तइस्सामि अहाणुपुत्विं ॥९॥ व्याख्या-रागं च द्वेषं च तथैव मोहं उद्धर्जुकामेन उन्मूलयितुमिच्छता सह मूलानां तीव्रकपायादीनां विषया. दीनां च जालेन वर्त्तते योऽसौ समूलजालस्तं, ये ये उपायाः प्रतिपत्तव्याः स्वीकार्यास्तान् कीर्तयिष्यामि यथानुपूिित सूत्रार्थः ॥९॥ प्रतिज्ञातमाह मूलम्-रसापगाम न निसेविअवा, पायं रसा दित्तिकरा नराणं । ___दित्तं च कामा समभिवंति, दुमं जहा सादुफलं व पक्खी ॥ १० ॥ व्याख्या-रसाः क्षीरादिविकृतयः प्रकामं वाढं न निषेवितव्या न भोक्तव्याः, प्रकामग्रहणं तु वातादिक्षोभनि अपि जात ग्राह्या इति सूचनार्थम । क़त एवमुच्यत इत्याह-प्रायो बाहुल्येन रसा हप्तिकरा धातद्रेककारिणो नराणामुपलक्षणत्वात् रुयादीनां च भवन्ति, संच नरं बहुवचनप्रक्रमेप्येकवचनं जातित्यात् कामा विषयाः १ नोपभोक्तव्याः -इति “घ” पुस्तके । समभिद्रवन्ति । कमिव के इव ? इत्याह-द्रुमं यथा खादुफलं, वेति भिन्नक्रम उपमार्थश्च ततः पक्षिण इव । इह द्रुमोपमः पुमान् , खादुफलकल्पं दृसत्वं, पक्षितुल्याः कामाः ॥ १०॥ किञ्च मूलम्-जहा दवग्गी पउरिंधणे वणे, समारुओ नोवसमं उवेइ। । एविंदिअग्गीवि पगामभोइणो, न बंभयारिस्स हिआय कस्सइ ॥ ११ ॥ व्याख्या-यथा दवाग्निः प्रचुरेन्धने वने समारुतः सवायुर्नोपशमं उपैति, एवं दयामिवत् 'इंदियग्गित्ति' इहेन्द्रियशब्देन इन्द्रियजनितो राग एवं गृह्यते स एव धर्मद्रुमदाहकत्वादमिरिन्द्रियामिः, सोऽपि प्रकामभोजिनोऽतिमात्राहारस्य न ब्रह्मचारिणो हिताय कस्यचित्सुस्थितस्यापि स्यात् ॥ ११ ॥ अन्यच्च मूलम्-विवित्तसेजासणजंतिआणं, ओमासणाणं दमिइंदिआणं । न रागसत्तू धरिसेइ चित्तं, पराइओ वाहिरिवोसहेहिं ॥ १२ ॥ व्याख्या-विविक्ता ख्यादिवियुक्ता शय्या वसतिस्तस्यामासनमवस्थानं तेन यंत्रिता नियंत्रिता विविक्तशय्यासनयंत्रितास्तेषां अवमाशनानां न्यूनभोजनानां दमितेन्द्रियाणां न रागशत्रुर्द्धर्षयति पराभवति चित्तं, क इव ? पराजितः पराभूतो व्याधिः कुष्ठादिरिवीपधैर्गदुच्यादिभिर्देहमिति गम्यते ॥ १२ ॥ विविक्तवसत्यभावे दोपमाह
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy