SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ 361 उत्तराध्ययन मूलम्-जहा बिरालावसहस्स मूले, न मूसगाणं वसही पसत्था। ___एमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्स खमो निवासो ॥ १३ ॥ व्याख्या-यथा बिडालावसथस्य मार्जारगृहस्य मूले समीपे न भूपकानां वसतिः स्थितिः प्रशस्ता, अवश्यं नत्र तदपायसम्भवात् , एवमेव स्त्रीणामुपलक्षणात्पण्डकादीनां च निलयो निवासः स्त्रीनिलयः तस्य मध्ये न ब्रह्मचारिणः क्षमो युक्तो निवासः, तत्र ब्रह्मचर्यबाधासम्भवादिति भावः ॥ १३ ॥ विविक्तवसतायपि कदाचित्स्त्रीसम्पाते यत्कतैव्यं तदाह-- मूलम्-न रूवलावण्णविलासहासं, न जंपिअं इंगिअ पेहि वा। . इत्थीण चित्तंसि निवेसइत्ता, दटुं ववस्से समणे तवस्सी ॥ १४ ॥ व्याख्या-न नैव रूपं सुसंस्थानत्वं, .लावण्यं नयनमनसामाह्लादको गुणः, विलासा विशिष्टनेपथ्यरचनादयः, हासः प्रतीतः, एपां समाहारः, न जल्पितमुल्लपितं, 'इंगिअत्ति' इङ्गितं अङ्गभङ्गादि प्रेक्षितं कटाक्षवीक्षितादि, वा समुच्चये स्त्रीणां सम्वन्धि चित्ते निवेश्य, अहो! सुन्दरमिदमिति विकल्पतो मनसि स्थापयित्वा द्रष्टुं इन्द्रियविषयता नेतुं व्यवस्वेदध्ययस्येत् श्रमणः तपस्वी ॥ १४ ॥ कुत एवमुपदिश्यते ? इत्याह मूलम्-अदंसणं चेव अपत्थणं च, अचिंतणं चेव अकित्तणं च । इत्थीजणस्सारियझाणजुग्गं, हिअं सया बंभचेरे रयाणं ॥ १५ ॥ व्याख्या-अदर्शनं च, एवोऽयधारणे, ततः अदर्शनमेव, अप्रार्थनं चाऽनभिलपणं, अचिन्तनं चैव रूपाद्यपरिमा. को अकीले चनामतो गणतो वा स्त्रीजनस्य, आर्यध्यानं धर्मादि तद्योग्यं तद्धेतत्वेनोचितं आर्यध्यानयोग्यं. हितं पथ्यं, सदा ब्रह्मचर्ये रतानां । ततो न स्त्रीणां रूपादि सरागं द्रष्टुं व्ययस्येदिति स्थितम् ॥ १५ ॥ ननु विकारहेतौ सति ये निर्विकाराः स्युस्त एव धीरास्तत्किं विविक्तशयनासनत्वमिप्यते ? इत्याशंक्याह मूलम्--कामं तु देवीहिं विभूसिआहिं, न चाइआ खोभइउं तिगुत्ता। तहावि एगंतहिति नच्चा, विवित्तभावो मुणिणं पसत्थो ॥ १६ ॥ व्याख्या-'कामं तुत्ति' अनुमतमेवैतत् यद्देवीभिरपि आस्तां मानुपीभिर्भूपिताभिरलङ्कताभिः म नैव 'चाइअत्ति' शकिताः क्षोभयितुं चलयितुं त्रिगुप्ताः मुनयः, तथापि एकान्तं हितमिति ज्ञात्वा विविक्तभावो मुनीनां प्रशस्तोऽन्तर्भावितणिगर्थतया प्रशंसितो जिनाथैः । अयं भावः-रूयादिसङ्गे प्रायो योगिनोऽपि क्षुभ्यन्ति येपि न क्षुभ्यन्ति तेऽप्यवर्णादिदोषभाजो भवन्तीति विविक्तत्वमेव श्रेयः ॥ १६ ॥ इदमेव समर्थयितुं स्त्रीणां दुरतिक्रमत्वमाह मूलम्-मोक्खाभिकंखिस्सऽवि माणवस्स, संसारभीरुस्स ठियस्स धम्मे । नेयारिसं दुत्तरमत्थि लोए, जहित्थिओ बालमणोहराओ ॥ १७ ॥ व्याख्या-मोक्षाभिकांक्षिणोऽपि मानवस्य संसारभीरोरपि स्थितस्यापि धर्मे श्रुतधर्मे अपिशब्दश्चैकोऽपि सर्वत्र सम्बध्यते, न नैव एतादृशं दुस्तरं दुरतिक्रममस्ति लोके यथा स्त्रियो वालानां निर्विवेकानां मनोहरा बालमनो. हरा दुस्तराः ॥ १७॥ स्त्रीसङ्गातिक्रमे गुणमाह मूलम्-एए अ संगे समइकमित्ता, सुहुत्तरा चेव हवंति सेसा । जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ॥ १८ ॥ व्याख्या-एतांश्च स्त्रीविपयान् सङ्गान् सम्बन्धान समतिक्रम्य सुखोत्तराश्चैव भवन्ति शेपा द्रव्यादिसङ्गाः, सर्व सङ्गानां रागरूपत्वे तुल्येऽपि स्त्रीसङ्गानामेवैतेषु प्राधान्यात् दृष्टान्तमाह-यथा महासागरं स्वयम्भूरमणमुत्तीर्य नदी भवेत्सुखोत्तरैव 'अवि गंगासमाणत्ति' गङ्गासमानापि आस्तां क्षुद्रनदीत्यपिशब्दार्थः ॥ १८॥ किञ्च मूलभ–कामाणुगिद्धिप्पभवं खु दुक्खं, सवस्स लोगस्स सदेवगस्स। जं काइअं माणसि च किंचि, तस्संतगं गच्छइ वीअरागो ॥ १९ ॥
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy