________________
362
उत्तराध्ययन
व्याख्या—कामेषु अनुगृद्धिः सतताभिकांक्षा कामानुगृद्धिस्तत्प्रभवमेव, खुशब्दस्यावधारणार्थत्वात्, दुःखं सर्वस्य लोकस्य सदेवकस्य, यत्कायिकं मानसिकं च किञ्चिदल्पमपि तस्यान्तमेवान्तकं गच्छति वीतरागो विगतकामानुद्धिः ॥ १९ ॥ ननु कामाः सुखरूपास्तत्कथं तत्प्रभवमेव दुःखमुच्यते ? उच्यते
मूलम् — जहा य किंपागफला मणोरमा, रसेण वण्णेण य भुज्जमाणा । ते खुद्दए जीविअ पश्चमाणा, एओत्रमा कामगुणा विवागे ॥ २० ॥ व्याख्या—यथा च यथैव किम्पाकफलानि 'मणोरमत्ति' अपेर्गम्यत्वान्मनोरमाण्यपि रसेन वर्णेन च शब्दादन्धादिना च भुज्यमानानि तानि लोकप्रतीतानि 'खुद्दएत्ति' आर्पत्वात्क्षोदयन्ति विनाशयन्ति जीवितं पच्यमानानि विपाकावस्थाप्राप्तानि, एतदुपमाः कामगुणा विपाके, विपाकदारुणतासाम्येन तत्तुल्या इति भाषः ॥ २० ॥ एवं केवलस्य रागस्योद्धरणोपायमभिधाय तस्यैव द्वेषान्वितस्य तमाह -
मूलम् - जे इंदिआणं विसया मणुष्णा, न तेसु भावं निसिरे कयाई ।
न यामण्णेसु मपि कुज्जा, समाहिकामे समणे तवस्सी ॥ २१ ॥ व्याख्या - ये इन्द्रियाणां विपया मनोज्ञाः न तेषु भावं अभिप्रायं अपेगम्यत्वात् भावमपि प्रक्रमादिन्द्रियाणि प्रवर्त्तयितुं किं पुनस्तत्प्रवर्त्तनमित्यपिशब्दार्थः, निसृजेत्कुर्यात्कदाचित् । न च नैवामनोज्ञेषु मनोऽपि कुर्यादिन्द्रियाणि प्रवर्त्तयितुमितीहापि गम्यं, अपेरर्थः प्राग्वत्, समाधिरिह रागद्वेपाभावरूपस्तं कामयते इति समाधिकामः श्रमणः तपस्वीति सूत्रद्वादशकार्थः ॥ २१ ॥ इत्थं रागद्वेपोद्धरणैषिणो विषयेभ्य इन्द्रियाणां निवर्त्तनमुपदिष्टं, अथ विषयेषु तत्प्रवर्त्तने रागद्वेषानुद्धरणे च यो दोपस्तं प्रत्येकमिन्द्रियाणि मनश्चाश्रित्य दर्शयितुमष्टसप्ततिं सूत्राण्याह । तत्रापि चक्षुराश्रित्य त्रयोदशसूत्राणि -
मूलम् -- चक्खुस्स रूवं गहणं वयंति, तं रागहेउं तु मणुण्णमा हु ।
तं दोसउं अमणुष्णमाहु, समो उ जो तेसु स वीरागो ॥ २१ ॥
व्याख्या- - चक्षुपो रूपं गृह्यतेऽनेनेति ग्रहणमाक्षेपकं वदन्ति, ततः किमित्याह - तद्रूपं रागहेतुं तुः पूर्वौ मनोज्ञमाहुः, तथा तद्रूपमेव द्वेषहेतु ममनोज्ञयाहुः, ततस्तयोश्चक्षुः प्रवर्त्तने रागद्वेपसम्भवात्तदुद्धरणाशक्तिलक्षणो दोषः स्यादिति भावः । आहेब न कोऽपि सति रूपे वीतरागः स्यादत आह- समस्त्वरक्तद्विष्टतया तुल्यः पुनर्यस्तयोर्मनोज्ञे तररूपयोः स वीतराग इव वीतरागः, उपलक्षणत्वाद्वीतद्वेषश्च । अयं भावः- न तावत्तयोश्चक्षुः प्रवर्त्तयेत् कथञ्चित्प्रवृत्तौ तु समतामेवावलम्वेतेति ॥ २२ ॥ ननु यद्येवं तर्हि रूपमेव रागद्वेपजनकं, न तु चक्षुस्तत्किं चक्षुर्निग्रहेणेति शङ्कापोहायाह
मूलम् — रुवस्स चक्खुं गहणं वयंति, चक्खुस्स रूवं गहणं वयंति | रागस्स हे समणुण्णमाहु, दोसस्सहेउं अमणुष्णमाहु ॥ २३ ॥
व्याख्या - रूपस्य चक्षुर्गृहातीति ग्रहणं ग्राहकमित्यर्थः वदन्ति, तथा चक्षुषो रूपं गृद्यते इति ग्रहणं प्रायं वदन्ति अनेन रूपचक्षुषोरन्योन्यं ग्रायग्राहक भावलक्षणः सम्बन्धो दर्शितस्ततो यथा रूपं रागद्वेषकारणं तथा चक्षुरपीत्युक्तं भवति अत एवाह - रागस्सेत्यादि - रागस्य हेतुं प्रक्रमाचक्षुः सह मनोज्ञेन ग्राह्येण रूपेण वर्त्तते इति समनोज्ञमाहुः, द्वेषस्य हेतुं अमनोज्ञं मनोज्ञरूपरहितमाहुस्ततो युक्त एव चक्षुपो निग्रह इति भावः ॥ २३ ॥ इत्थं रागद्वेषोद्धरणोपाययुक्त्वा तदनुद्धरणे दोषमाह -
मूलम् — रुवेसु जो गिद्धिमुवेइ तिबं, अकालिअं पावइ से विणासं । रागाउरे से जह वा पयंगे, आलोअलोले समुवे मधुं ॥ २४
व्याख्या- - रूपेषु यो गृद्धिं रागमुपैति तीव्रां अकाले भवमाकालिकं प्राप्नोति स विनाशं, रागातुरः सन् स इति लोकप्रतीतः, यथा वेति वाशब्दस्यैवकारार्थत्वात् यथैव पतङ्गः आलोकलोलो ऽतिस्निग्धदीपशिखादर्शन लम्पटः समुपैति मृत्युम् ॥ २४ ॥