________________
-
363
उत्तराध्ययन
मूलम्-जे यावि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं ।
दुइंतदोसेण सएण जंतू, न किंचि रूवं अवरज्झई से ॥ २५ ॥ व्याख्या-यश्च यस्तु अपिर्मिनक्रमोऽन्यत्र योक्ष्यते, द्वेपं समुपैति तीव्र रूपेष्विति प्रक्रमः, स किमित्याह'तसित्ति' प्राच्यस्यापिशब्दस्येह योगातस्मिन्नपि क्षणे स तुः पूर्ती उपैति दुःखं मनःसन्तापादिकं, यद्येवं तर्हि रूप. स्यैव दुःखहेतुत्वं, तत एव द्वेषसम्भवादित्याशंक्याह-दुष्टं दान्तं दमनं दुर्दान्तं दुईमत्वमित्यर्थः, तच्च प्रक्रमाञ्चक्षुषस्तदेव दोषो दुर्दान्तदोपस्तेन खकेनात्मीयेन जन्तुर्देही, न किञ्चिदल्पमपि रूपमपराध्यति तस्य जन्तोः । यदि हि रूपमेव दुःखहेतुः स्यात्तदा वीतरागद्वेपस्यापि दुष्टरूपनिरूपणे दुःखं स्यान्नचैतदस्ति, ततः स्वस्यैव दोषेण दुःखमानोति प्राणीति भावः ॥२५॥ इत्थं रागद्वेपयोरनर्थहेतुत्वमुक्तं, इदानीं तु द्वेपस्यापि रागहेतुकत्वात् स एव महानर्थमूलमिति दर्शयन् तस्य विशेषात्परित्याज्यतां ख्यापयितुमाह
मूलम्-एगंतरत्तो रुइरंसि रूवे, अतालिसे से कुणई पओसं ।
दुक्खस्स संपीलमुवेइ बाले, न लिप्पइ तेण मुणी विरागो ॥ २६ ॥ व्याख्या--एकान्तरक्तो रुचिरे मनोरमे रूपे यः स्यादिति शेपः, अतादृशेऽनीदृशे प्रक्रमादूपे स करोति प्रद्वेष, तथा च दुःखस्य सम्पीडं संघातं उपैति वालो मूढः, न लिप्यते तेन द्वेपकृतदुःखेन मुनिर्विरागो रागरहितः ॥ २६ ॥ अथ रागस्यैव हिंसाद्याश्रवहेतुत्वमिहैव तद्द्वारा दुःखजनकत्वं च सूत्रपट्केनाह
मूलम्-रूवाणुगासाणुगए अ जीवे, चराचरे हिंसइ णेगरूवे ।
चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तहगुरू किलिहे ॥ २७ ॥ व्याख्या-रूपं प्रस्तावान्मनोज्ञमनुगच्छतीति रूपानुगा सा चासौ आशाच रूपानुगाशा रूपविषयोऽभिलाषस्तदनुगतच, पाठान्तरे [रूवाणुवायाणुगएत्ति] रूपाणां प्रशस्तानां उपायैरुपार्जनहेतुभिरनुगतः उपायानुगतश्च प्राणी 'जीवेत्ति' जीवांश्चराचरान् प्रसस्थावरान् हिनस्ति अनेकरूपान् जात्यादिभेदादनेकविधान् कांश्चित् चित्रैर्नानाविधैरुपायैरिति गम्यते, तान् चराचरजीवान् परितापयति दुःखयति वालोऽपरांश्च पीडयत्येकदेशदुःखोत्पादनेन, आत्मार्थगुरुः खप्र. योजननिष्ठः क्लिटो रागवाधितः ॥ २७ ॥ तथा
मूलम्-रुवाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्नियोगे।
वए विओगे अ कहिं सुहं से, संभोगकाले अ अतित्तिलाभे ॥ २८ ॥ व्याख्या-रूपे अनुपातोऽनुगमनं अनुराग इत्यर्थः रूपानुपातस्तस्मिन् सति, णः पूत्तौं, परिग्रहेण मूर्छात्मकेन हेतुभूतेन उत्पादने उपार्जने रक्षणं च अपायेभ्यः सन्नियोगश्च स्वपरप्रयोजनेषु सम्यग्व्यापारणं रक्षणसन्नियोगं तस्मिन् 'वएत्ति' व्यये विनाशे वियोगे विरहे सर्वत्र सुरूपवस्तुन इति गम्यते, क सुखं ? न कापीति भावः, से तस्य रूपानुरागिणः । अयं भावः-सुरूपकलत्र-करि-तुरग-वस्त्रादीनामुत्पादनाद्यर्थ तेषु तेषु क्लेशहेतुपूपायेषु प्रवर्त्तमानो दुःखमेवानुभवति रूपानुरागी । पाठान्तरे वा [ "रूवाणुरागेण" इति रश्यते, तत्र रूपानुरागेण हेतुना यः परिग्रहस्तेन शेषं प्राग्वत् ] ननु रूपवतामुत्पादनादिषु सुखं मा भूत् , सम्भोगकाले तु भावीत्याशंक्याह-सम्भोगकाले चोपभोगप्रस्तावेऽपि अतृप्सिलामे तृप्तिप्रात्यभावे व सुखमिति सम्बन्धः । बहुविधरूपदर्शनेऽपि नहि रागिणां तृप्तिरस्ति । यदुक्तं“न जातु कामः कामाना-मुपभोगेन शाम्यति । हविपा कृष्णवर्मेव, भूय एवाभिवर्द्धते ॥ १॥". ततोऽधिकाधिकेन्छया खिद्यत एव रागी, न तु सुखी स्यादिति भावः ॥ २७ ॥ ततस्तस्यापरापरदोषपरम्परावाप्तिमाह
मूलम्-हवे अतित्ते अ परिग्गहे अ, सत्तोवसत्तो न उवेइ तुहूिँ।
अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ २९ ॥ व्याख्या-रूपे अतृप्तः चस्य भिन्नक्रमत्वात् परिग्रहे च विषयमूर्छालक्षणे सक्तः सामान्येनैवासक्तिमान् , उपसक्तश्च गाढमासक्तः, ततः सक्तश्च पूर्वमुपसक्तश्च पश्चात् सक्तोपसक्तो नोपैति तुष्टिं, तथा च अतुष्टिरेव दोपोऽतुष्टिदोपः