________________
364 उत्तराध्ययन तेन दुःखी यदि ममेदमिदं च रूपवद्वस्तु स्यात्तदा वरमित्याकांक्षातोऽतीवदुःखवान् सन् , परस्य सम्बन्धि रूपब. स्त्विति गम्यते, लोभाविलो लोभकलुष आदत्ते अदत्तं ॥ २९ ॥ ततश्च
मूलम्-तण्हाभिभूअस्स अदत्तहारिणो, रूवे अतित्तस्स परिग्गहे अ।
मायामुसं वहइ लोभदोसा, तस्थावि दुक्खा न विमुच्चई से ॥३०॥ व्याख्या-तृष्णाभिभूतस्य लोभपराजितस्य तत एवादत्तहारिणो रूपे रूपविषये यः परिग्रहो मूर्छारूपस्तस्मिनिति योगः, चस्स भिन्नक्रमत्वादतृप्तस्स च, मायाप्रधानं 'मोसंति' मृषाऽलीकभाषणं मायामृषा वर्द्धते, कुतः ! इत्याह-लोभदोषात्, लुब्धो हि परखमादत्ते, आदाय च तद्रोपनाय मायया मृषां वदति । तदनेन लोम एव सर्वाश्रवाणामपि मूलहेतुरिति सूचितम् । रागप्रक्रमेपि च यदिह लोभाभिधानं तद्रागेपि लोमांशस्यैवातिदुष्टताख्यापनापम् । तत्रापि को दोषः ? इत्याह-तत्रापि मृषाभापणेपि दुःखान विमुच्यते सः, किन्तु दुःखभाजनमेवस्यादिति भावः ॥३०॥ दुःखाविमोक्षमेव भावयति
मूलम्-मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अदुही दुरंते।
एवं अदत्ताणि समाययंतो, रूवे अतित्तो दुहिओ अणिस्सो ॥ ३१ ॥ व्याख्या-'मोसस्सत्ति' मृषाभाषणस्य पश्चाच पुरस्ताच प्रयोगकाले च दुःखी सन् , तत्र पथानहीदं मया सुसंस्थापितमुक्तमिति पश्चात्तापात् , पुरस्ताच कथमयं सुरूपख्यादिवस्तुखामी मया वञ्चनीय इति चिन्तया, प्रयोगकाले च किमसौ ममालीकभापितां लक्षयिष्यति न वेति क्षोभतः । तथा 'दुरंतेत्ति' हुष्टोऽन्तः पर्यन्तः इह जन्मन्यनेकविउम्बनातोऽन्यभवे च नरकादिप्राप्त्या यस्य स दुरन्तो भवति जन्तुरिति शेषः । अथवा 'मोसस्सत्ति' मोपख आयस इति व्याख्येयम् । एवममुना प्रकारेणादत्तानि समाददानो रूपेऽतृप्तः सन् दुःखितः स्वादितिशेषः । कोशः सन् । इत्याह-अनिश्री दोपवत्तया कस्याप्यवष्टम्भेन रहितः, मेथुनाश्रवोपलक्षणं चैतत् ॥ ३१ ॥ उक्तमेवार्थ निगमयितुमाह
मूलम्-रूवाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि ।
तस्थोवभोगेवि किलेसदुक्खं, निवत्तई जस्स कए ण दुक्खं ॥ ३२ ॥ म्याख्या-रूपानुरक्तस्य नरस्य एवमनन्तरोक्तनीत्या कुतः सुखं भवेत् ? कदाचित्किञ्चिदल्पमपि, कुतः इत्याहपतस्तत्र रूपानुरागे उपभोगेपि क्लेशदुःखं अतृप्तिलामलक्षणपाधाजनितमसातं भवति । उपभोगमेव विशिनष्टि, निर्वर्तयति उत्पादयति यस्योपभोगस्य कृते, 'ण' वाक्यालङ्कारे, दुःखं कृछ्रमात्मन इति गम्यते । उपभोगायें हि जनः क्लिश्यते तदा सुखं स्यादिति, यदि च तदापि दुःखमेव तदा कुतोऽन्यदा मुखं स्यादिति भावः ॥ ३२ ॥ एवं रागस्यानर्थहेतुतामुक्त्वा द्वेषस्यापि तामतिदेष्टुभाह
मूलम्-एमेव रूवम्मि गओ पओस, उवेइ दुक्खोहपरंपराओ।
पदुद्दचित्तो अ चिणाइ कम्म, जं से पुणो होइ दुहं विवागे ॥ ३३ ॥ व्याख्या-एवमेव यथानुरक्तस्तथैव रूपे प्रक्रमाहुटे गतः प्रद्वेषं उपैति दुःखौघपरम्परा उत्तरोत्तरदुःखसमूहरूपाः। तथा प्रविष्टचित्तः चस्य भिन्नक्रमत्वात् चिनोति च कर्म, बत् 'से' तस्य पुनर्मवेत् दुःखं दुःखहेतुर्विपाकेऽनुमक्काले अत्रामुत्र चेति भावः । पुनःखग्रहणमैहिकदुःखापेक्षमभुमकर्मोपचयश्च हिंसाद्याश्रवान् विना न स्यादित्यनेन द्वेषस्याप्याकहेतुत्वमाक्षिप्यते ॥ ३३ ॥ एवं रागद्वेषानुद्धरणे दोषमुक्त्वा तदुद्धरणे गुणमाह
मूलम्-वे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण ।
न लिप्पई भवमज्झेवि संतो, जलेण वा पुक्खरिणीपलासं ॥ ३४ ॥१॥ व्याख्या-रूपे विरक्त उपलक्षणत्वादद्विष्टश्च मनुजो विशोकः शोकमुक्तस्तन्निबन्धनयो रागद्वेषयोरभाषादेतेनानन्तरोक्तेन 'दुक्खोहपरंपरेणत्ति' दुःखानामोषाः सहातास्तेषां परम्परा तया न लिप्यते न स्पृश्यते भवमध्येपि संस्ति