________________
उत्तराध्ययन
358
तिमतिर्धार्या ॥ १६ ॥ संवेगपरता ॥ १७ ॥ स्वदोषप्रच्छादनार्थ या माया सा प्रणिधिरुच्यते सा त्याज्या ॥ १८ ॥ सुविधिकारिता ॥ १९ ॥ संवरः ॥ २० ॥ आत्मदोषोपसंहारः ॥ २१ ॥ सर्वकामविरक्तत्वभावना ॥ २२ ॥ मूलगुणप्रत्याख्यानम् ॥ २३ ॥ उत्तरगुणप्रत्याख्यानं ॥ २४ ॥ द्रव्यभावविषयो व्युत्सर्गः ॥ २५ ॥ अप्रमत्तता ॥ २६॥ क्षणे २ सामाचार्यनुष्ठानम् ॥ २७ ॥ ध्यानसम्भृतता ॥ २८ ॥ मारणान्तिकवेदनोदयेप्यक्षोभता ॥ २९ ॥ सङ्गानां प्रत्याख्यानम् ॥ ३० ॥ प्रायश्चितकारिता ॥ ३१ ॥ मरणान्ताराधना ॥ ३२ ॥ ततो इन्हे सिद्धातिगुणयोगास्तेषु । त्रयस्त्रिंशदाशातनासु च अर्हदादिविषयासु प्रतिक्रमणसूत्रोक्तासु, पुरतः शिष्यगमनादिषु वा समवायाङ्गोक्तासु तामाः शिष्यो राजन्यस्याचार्यादेः पुरतः १ पार्श्वतो वा २ पृष्टतो ३ वा अत्यासन्नं गच्छति ॥ ३ ॥ एवं तिष्ठति ॥ ६ ॥ एवमेव च निषीदति ॥ ९ ॥ बहिर्भूमौ गतो गुरोः पूर्वमुभयसाधारणाम्भसा शौचं करोति ॥ १० ॥ गुरोः पूर्व गमनागमनमालोचयति ॥ ११ ॥ रात्रौ शब्दं कुर्वतो गुरोर्जाग्रदपि प्रतिशब्दं न दत्ते ॥ १२ ॥ श्रावकादिकमालापनीयं गुरोः पूर्वमालापयति ॥ १३ ॥ अशनाद्यानीय पूर्वमन्येषामालोच्य पश्चागुरोरालोचयति ॥ १४ ॥ एवमन्येषां तत्पूर्वमुपदर्शयति ॥ १५ ॥ एवं गुरोः प्रागशनादिनाऽपरान्निमन्त्रयति ॥ १६ ॥ गुरूननापृच्छय यो यदि - च्छति तत्तस्मै प्रचुरं २ दत्ते ॥ १७ ॥ मनोज्ञं मनोज्ञं स्वयं भुङ्क्ते ॥ १८ ॥ दिनेऽपि गुरोः शब्दयतो न प्रतिवचो दस्ते ॥ १९ ॥ गुरुं प्रति निष्ठुरं मुहुर्वति ॥ २० ॥ गुरुणा शब्दितो यत्र स्थितो गुरुवचः शृणोति तत्र स्थितः एव प्रतिवचो दत्ते ॥ २१ ॥ किं भणसीति गुरुं वक्ति ॥ २२ ॥ त्वमिति वक्ति ॥ २३ ॥ यादृशं गुरुर्वति ताशमेव प्रतिवक्ति, यथार्थ ! किं ग्लानादेर्वैयावृत्त्यादि न करोपीत्यादि गुरुणोक्तस्त्वमेव किं न करोपीत्यादि प्रतिवक्ति ॥ २४ ॥ गुरौ कथां कथयति नो सुमनाः स्यात् ॥ २५ ॥ त्वमेतमर्थ न स्मरसीति वक्ति ॥ २६ ॥ गुरौ कथ कथयति स्वयं कथां वक्तुमारभते ॥ २७ ॥ भिक्षाकालो जात इत्यादिवाक्यनाकालेऽपि पर्षदं भिनत्ति ॥ २८ ॥ अनुत्थितायामेव पदि गुरुक्तमेवार्थ स्वकौशलज्ञापनार्थ सविशेषं वक्ति ॥ २९ ॥ गुरोः संस्तारकं पचयां घट्टयति ॥ ३० ॥ गुरोः संस्तारके निषीदति शेते वा ॥ ३१ ॥ उच्चासने निषीदति ॥ ३२ ॥ समासने वा ॥ ३३ ॥ यो भिक्षुर्यतते श्रद्धानसेवनवर्जनादिना स न तिष्ठति मण्डले संसारे । इत्येकोनविंशतिसूत्रार्थः ||२०|| अध्ययनार्थ निगमयितुमाहमूलम् - इइ एएस ठाणेसु, जो भिक्खू जयई सया । से खिप्पं सबसंसारा, विप्पमुच्चइ पंडिएत्ति बेमि ॥ व्याख्या - इत्यनेन प्रकारेण एतेष्वनन्तरोक्तेषु स्थानेषु शेषं स्पष्टमिति सूत्रार्थः ॥ २१ ॥ इति ब्रवीमीति प्राग्वत् ॥
20x2
gogo x o x o x
इति श्रीतपागच्छीय महोपाध्याय श्रीविमलहर्पगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजय गणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती एकत्रिंशमध्ययनं सम्पूर्णम् ॥ ३१ ॥
कर फल फल फन्फन्ट फल फल फल क ॥ अथ द्वात्रिंशमध्ययनम् ॥
-904
॥ ॐ ॥ उक्तमेकत्रिंशमध्ययनं अथ प्रमादस्थानाख्यं द्वात्रिंशमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने चरणमुक्तं, तथ प्रमादस्थानत्यागादेवासेव्यते, तत्त्यागश्च तत्परिज्ञानपूर्वक इति तदर्थमिदमारभ्यते, इतिसम्बन्धस्यास्येदमादिसूत्रम् ।
मूलम् — अच्चंतकालस्स समूलयस्स, सबस्स दुक्खस्स उ जो पमोक्खो ! तं भासओ मे पडिपुण्णचित्ता, सुणेह एगंतहियं हियत्थं ॥ १ ॥
व्याख्या — अन्तमतिक्रान्तोऽत्यन्तो वस्तुनश्च द्वावन्तौ प्रारम्भक्षणो निष्टाक्षणश्च तत्रेहारम्भक्षणलक्षणोऽन्तः परिगृयते, तथा चात्यन्तोऽनादिः कालो यस्य सोऽत्यन्तकालस्तस्य, सह मूलेन कषायाविरतिरूपेण वर्त्तते इति समूलकस्तस्य सर्वस्य दुःखयतीति दुःखः संसारस्तस्य तुः पूत, यः प्रकर्षेण मोक्षोऽपगमः प्रमोक्षः तं भाषमाणस्य मे, प्रतिपूर्ण प्रस्तुतार्थ श्रवणव्यतिरिक्तविषयान्तरागमनेनाखण्डितं चित्तं येषां ते प्रतिपूर्णचित्ताः सन्तो यूयं शृणुत, एकान्तेन निश्चयेन हितं एकान्तहितं, हितस्तत्त्वतो मोक्ष एव तदर्थमिति सूत्रार्थः ॥ १ ॥ प्रतिज्ञातमाह