Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 379
________________ 374 उतराध्ययन मूलम् - सबेसिं चेत्र कम्माणं, पएसग्गमणंतगं । गठिअसत्ताईअं, अंतो सिद्धाण आहिअं ॥ १७ ॥ । व्याख्या - सर्वेषां चः पूत एवोऽपिशब्दार्थः, ततः सर्वेषामपि कर्मणां प्रदेशानं परमाणुपरिमाणं अनन्तमेवानन्तकं । तच्चानन्तकं ग्रन्थिकसत्त्वा ये ग्रन्थिदेशं गत्वापि तं भित्त्या न कदाचिदुपरि गन्तारस्ते चाभव्या एवात्र गृशन्ते, तानतीतं तेभ्योऽनन्तगुणत्वेनातिक्रान्तं ग्रन्थिकसत्त्वातीतं । तथा अन्तर्मध्ये सिद्धानामाख्यातं सिद्धेभ्यो हि कर्मपरमाणवोऽनन्तभागे एव स्युः । एकस्य जीवस्य एकसमयग्राह्यकर्म परमाण्वपेक्षं चैतत्, अन्यथा हि सर्वजीवेभ्यो. प्यनन्तानन्तगुणत्वात्सर्वकर्मपरमाणूनां कथमिदमुपपद्येतेति ॥ १७ ॥ क्षेत्रमाह मूलम् - सङ्घजीवाण कम्मं तु, संगहे छद्दिसागयं । सर्व्वसुवि पएसेसु, सवं सर्व्वण बज्झगं ॥ १८ ॥ व्याख्या - सर्वजीवानां कर्म ज्ञानावरणादि, तुः पूर्ती संग्रहे संग्रहक्रियायां योग्यं स्यादिति शेषः, यद्वा सर्वजीवाः 'ण' इति वाक्यालङ्कारे, कर्म 'संगहेत्ति' संगृह्णन्ति । कीदृशं सदित्याह - 'छहिसागयंति' षण्णां दिशां समाहारः षड्रदिशं तत्र गतं स्थितं पदशगतं, एतच्च द्वीन्द्रियादीनाश्रित्य नियमेन व्याख्येयं एकेन्द्रियाणामन्यथापि सम्भवात् । यदागमः - "एगेंदिए णं भंते ! तेआकम्मपोग्गलाणं गहणं करेमाणे किं तिदिसिं जाव छद्दिर्सि करेह ? गोयमा ! सिअ तिदिसिं सिअ चउदिसिं सिअ पंचदिसिं सिअ छदिसिं करेह । बेइंदिअ - तेइंदिअ - चउरिंदिअपंचिंदिआ निअमा छद्दिसिंति । " तच संगृहीतं सत् केन सह कियत् कथं वा वद्धं स्यादित्याह - 'सधेवि परसेसुति' सर्वैरपि प्रदेशैरात्मसम्बन्धिभिः सर्व ज्ञानावरणादि, नत्वन्यतरदेकमेव, सर्वेणेति गम्यत्वात् प्रकृतिस्थित्यादिना प्रकारेण । बद्धं क्षीरेणोदकवदात्मप्रदेशैः श्लिष्टं तदेव बद्धकम् ॥ १८ ॥ कालमाह - मूलम् — उदहिस रिसनामाणं, तीसई कोडिकोडिओ । उक्कोसिआ ठिई होई, अंतोमुहुत्तं जहण्णिआ१९ वरणिजाण दुहंपि, वेअणिजे तहेव य । अंतराए अ कम्मंमि, ठिई एसा विआहिआ २० व्याख्या - उदधिना सदृशं नाम येषां तानि उदधिसदृशनामानि सागरोपमाणीत्यर्थः तेषां त्रिंशत्कोटाकोट्यः 'उक्कोसिअत्ति' उत्कृष्टा भवति स्थितिः, अन्तर्मुहूर्त्त जघन्यैव जघन्यका ॥ १९ ॥ केषामित्याह - 'आवरणिजाणत्ति' आवरणयोर्ज्ञानदर्शन विषययोर्द्वयोरपि, वेदनीये तथैव च, अन्तराये च कर्मणि स्थितिरेषा व्याख्याता । किञ्चेह वेदनीयस्यापि जघन्या स्थितिरन्तर्मुहूर्त्तमानयोक्ताऽन्यत्र तु द्वादशमुहूर्त्तमाना सा सकपायस्योच्यते । यदुक्तं - "मोतुं अकसायठि, बारमुहुत्ता जहन्न वेअणिएत्ति” । अकपायस्य तु समयद्वयरूपा सातवेद्यस्य स्थितिरिहैवोक्ता, तदत्र तत्त्वं तत्त्वविदो विदन्तीति ॥ २० ॥ मूलम् — उदहिस रिसनामाणं, सत्तरि कोडिकोडिओ । मोहणिजस्स उक्कोसा, अंतोमुहुत्तं जहण्णिआ २१ तेत्तीस सागरोवम, उक्कोसेण विआहिआ । टिई उ आउकम्मस्स, अंतोमुहुत्तं जहण्णिआ २२ उदहिस रिसनामाणं, वीसई कोडिकोडिओ । नामगोत्ताण उक्कोसा, अट्ठमुहुत्ता जहण्णिआ २३ व्याख्या - स्पष्टानि ॥ २१ ॥ २२ ॥ २३ ॥ अथ भावमाह - मूलम् — सिद्धाणऽणंतभागो अ, अणुभागा भवंति उ । सर्व्वसुवि पएसग्गं, सवज्जीवेसऽइच्छिअं ॥२४॥ व्याख्या - सिद्धानामनन्तभागेऽनुभागा रसविशेषा भवन्ति, तुः पूत, अयञ्चानन्तभागोऽनन्तसंख्य एवेति । तथा सर्वेष्वपि प्रक्रमादनुभागेषु प्रदिश्यन्त इति प्रदेशा बुद्ध्या विभज्यमानास्तदविभागैकदेशास्तेषामत्रं परिमाणं प्रदेशानं 'सवजीवेसइच्छिअंति' सर्वजीवेभ्योऽतिक्रान्तं, ततोपि तेषामनन्तगुणत्वादिति सूत्रनवकार्थः ॥ २४ ॥ अध्ययनार्थोपसंहारपूर्वमुपदेशमाह - मूलम् - तम्हा एएसि कम्माणं, अणुभागे विआणिआ । एएसिं संवरे चैव, खवणे अ जए बुहेत्ति बेमि ॥ २५ ॥ व्याख्या — यस्मादेवंविधाः प्रकृतिबन्धादयस्तस्मादेतेषां कर्मणामनुभागानुपलक्षणत्वात् प्रकृतिबन्धादींश्च विज्ञाय

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424