Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 388
________________ उत्तराध्ययन मूलम्-तसाणं थावराणं च, सुहुमाणं बायराण य । गिहकम्मसमारंभ, संजओ परिवजए ॥९॥ व्याख्या-प्रसाणां स्थावराणां सूक्ष्माणां शरीरापेक्षया बादराणां च तथैव तस्माद्गृहकर्मसमारम्भं संयतः परिवर्जयेत् ॥ ९॥ अन्यच्चमूलम्-तहेव भत्तपाणेसु, पयणपयावणेसु अ । पाणभूयदयहाए, न पए न पयावए ॥ १०॥ ___ व्याख्या--तथैवेति प्राग्वदेव भक्तपानेषु पचनपाननेषु च यधो दृश्यते इति प्रागुक्तेन सम्बन्धः, ततः किमित्याह-प्राणास्त्रसा भूतानि पृथिव्यादीनि तयार्थ न पचेत् न पाचयेत् ॥ १०॥ अमुमेवार्थ स्पष्टतरमाहमूलम्-जलधन्ननिस्सिआ पाणा, पुढविकनिस्सिआ।हम्मति भत्तपाणेसु, तम्हा भिक्खू न पयावए ॥ ___ व्याख्या-जले धान्ये च निश्रिता ये तान्यत्र वा उत्पद्य तन्निश्रया स्थितास्ते जलधान्यनिश्रिताः पूतरकेलिकापिपीलिकादयो जीवा एवं पृथ्वीकाष्ठनिश्रिताः, हन्यन्ते भक्तपानेपु प्रक्रमात्पच्यमानेषु, यत एवं तस्मात् भिक्षुर्न पाचयेत् , अपेर्गम्यत्वान्न पाचयेदपि कथं पुनः स्वयं पचेत् ? अनुमतिनिधोपलक्षणं चैतत् ॥११॥ तथामूलम्-विसप्पे सवओ धारे, बहुपाणिविणासणे।नस्थि जोइसमे सत्थे, तम्हा जोइं न दीवए ॥ १२ व्याख्या-विसर्पति खल्पमपि बहु व्याप्नोतीति विसर्प, सर्वतो धारं सर्वदिकस्थितजीयोपघातकत्वात् , अत एष बहुप्राणिविनाशनं नास्ति ज्योतिःसमं वह्नितुल्यं शस्त्रं, यस्मादेवं तस्मात् ज्योतिर्न दीपयेत् ॥ १२ ॥ ननु ? पचनादौ जीववधः स्यान्न तु क्रयविक्रययोस्ततो युक्त एवाभ्यां निर्वाह इति कस्यचिदाशङ्का स्य तदपोहार्थमाहमूलम्-हिरणं जायरूवं च, मणसावि न पत्थए । समलेटुकंचणे भिक्खू , विरए कयविक्कए॥१३॥ व्याख्या-हिरण्यं कनकं, जातरूपं च रूप्यं, चकारोऽनुक्ताशेषधनधान्यादिसमुच्चये, मनसापि न प्रार्थयेद्रिक्षु. रिति योगः, कीदृशः सन् ? समे प्रतिवन्धाभावात्तुल्ये लेष्ठुकाञ्चने यस्य स समलेटुकाश्चनो भिक्षुः विरतो निवृत्तः क्रयविक्रये क्रयविक्रयविपये ॥ १३ ॥ कुत एवमित्याहमूलम्-किणंतो कइओ होइ, विकिणंतो अ वाणिओ। कयविकयंमि वर्सेतो, भिक्खू न हवइ तारिसो ___ व्याख्या-क्रीणन् रकीयं वस्तु मूल्येनाददानः क्रायको भवति, तथाविधेतरलोकसरश एष स्यात्, विक्रीणा. नश्च खकीयं च वस्तु परस्य ददद्वणिग् भवति, पाणिज्यप्रवृत्तत्वादिति भाषः । अत एव क्रयविक्रये वर्तमानः प्रवर्त्तमानो भिक्षुर्न भवति तादृशो यादृशः समयेऽभिहितः ॥ १४ ॥ ततः किं कार्यमित्याहमूलम्-भिक्खिअवन केअवं,भिक्खुणा भिक्खवत्तिणा । कयविक्कओ महादोसो, भिक्खावित्ती सुहावहा व्याख्या-भिक्षितव्यं याचितव्यं तथाविधवस्त्विति गम्यते, न क्रेतव्यं उपलक्षणत्वाच नापि विक्रेतव्यं भिक्षुणा मिक्षावृत्तिना, अत्रैवादरख्यापनार्थमाह-क्रयश्च विक्रयश्च क्रयविक्रयं महादोषं, लिङ्गव्यत्ययः सूत्रत्वात् , भिक्षावृत्तिः सुखावहा ॥ १५ ॥ भिक्षितव्यमित्युक्तं तच्चेककुलऽपि स्यादत आहमूलम्-समुआणं उंछमेसिजा, जहासुत्तमणिंदिअं। लाभालाभंमि संतुढे, पिंडवायं चरे मुणी ॥१६॥ व्याख्या-समुदानं भक्ष्यं तच्च उञ्छमिय उञ्छं अन्यान्यगृहेभ्यः स्तोकस्तोकमीलनात् एषयेद्वेषयेत् यथासूत्रं आगमार्थानतिक्रमेण उद्मोत्पादनैपणाद्यवाधात् इति भावस्तत एवानिन्दितं जात्यादिजुगुप्सितजनसम्बन्धि यन्त्र भवति, तथा लाभालाभे सन्तुष्टः पिण्ड म्य पातः पतनं प्रक्रमात् पात्रेऽस्मिन्निति पिण्डपातं चरेदासेवेत मुनिर्याक्यान्तरविषयत्वाञ्च न पौनरुत्यम् ॥ १६ ॥ इत्थं पिण्डमवाप्य यथा भुजीत तथाहमूलम्-अलोले न रसे गिद्धे, जिब्भादंते अमुच्छिए । न रसट्टाए भंजिजा, जवणट्ठाए महामुणी।१७। व्याख्या-अलोलो न सरसाने प्राप्ते लाम्पट्ययान् , न रसे मधुरादौ गृद्धोऽप्राप्तेऽभिकांक्षावान् , कुतश्चैवंविधः १ यतः 'जिब्भादंतेत्ति' दान्तजिह्वोऽत एवामूर्छितः सन्निधेरकरणेन भोजनकालेऽभिष्वङ्गाभावेन वा । एवंविधश्च न नैव 'रसट्टाएत्ति' रसो धातुविशेषः स चाशेषधातूपलक्षणं ततस्तदुपचयः स्यादिति रसाथै धातू

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424