Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 391
________________ 386 उतराध्ययन व्याख्या - एकत्वेन पृथग्भूतद्व्यादिपरमाणुसङ्घाततो द्विप्रदेशिकादिलक्षणसमानपरिणतिखरूपेण, पृथक्त्वेन परमाण्वन्तरैः सहासंघातरूपेण बृहत्स्कन्धेभ्यो विचटनात्मकेन वा स्कन्धाश्च परमाणवश्च लक्ष्यन्त इति शेषः । एतानेव क्षेत्रत आह- 'लोएगदेसे' इत्यादि-लोकस्यैकदेशे लोके च भक्तव्या भजनया विज्ञेयाः ते इति स्कन्धाः परमाणवश्व, तुः पूरणे, क्षेत्रतः । अत्र चाविशेषोक्तावपि परमाणूनामेकप्रदेश एवावस्थानात् स्कन्धविषयैव भजना द्रष्टव्या । ते हि विचित्र परिणामत्येन बहुतरप्रदेशोपचिता अपि केचिदेकप्रदेशे अवतिष्ठन्ते, अन्ये तु संख्येयेष्वेव प्रदेशेषु यावकोsपि सकललोकेपि तथाविधाचित्तमहास्कन्धवत्ततो भजनीया इत्युच्यन्ते । 'इत्तोत्ति' इत इति क्षेत्रप्ररूपणातोऽनन्तरं कालविभागं तु कालभेदं पुनस्तेषां स्कन्धादीनां वक्ष्ये चतुर्विधं साद्यनादिसपर्यवसितापर्यवसितभेदेनेति सूत्रार्थः । इदं च सूत्रं षट्पाद, प्रत्यन्तरेषु चान्त्यपादद्वयं न दृश्यतेऽपि ॥ ११ ॥ प्रतिज्ञातमाह मूलम् - संत पप्प तेऽणाई, अपज्जवसिआवि अ । ठिहं पडुच्च साईआ, सपज्जवसिआवि अ ॥१२॥ व्याख्या - सन्ततिम परापरोत्पत्तिरूपां प्राप्य आश्रित्य ते इति स्कन्धाः परमाणवश्च अनादयः अपर्यवसिता अपि च, न हि प्रवाहतस्तद्वियुक्तं जगत् कदाप्यासीत् अस्ति भविष्यति वा । स्थितिं प्रतिनियतक्षेत्रावस्थान रूपां प्रतीत्य सादिकाः सपर्यवसिता अपि च, ब्रजन्ति हि कालान्तरे नवनवं क्षेत्रं परमाणवः स्कन्धाश्चेति ॥ १२ ॥ सादिसपर्यवसितत्वेप्येषां कियत्कालं स्थितिरित्याह मूलम् - असंखकाल मुक्कोसं, एगं समयं जहन्नयं । अजीवाण य रूविणं, ठिई एसा विआहिआ ||१३ व्याख्या - असंख्य कालमुत्कृष्टा, एकं समयं जघन्यका, अजीवानां रूपिणां स्थितिरेक क्षेत्रावस्थानरूपा एषा व्याख्याता । ते हि जघन्यत एकसमयादुत्कृष्टतोऽसंख्यकालादप्यूर्द्ध ततः क्षेत्रात्क्षेत्रान्तरमवश्यं यान्तीति ॥ १३ ॥ इथं कालद्वारमाश्रित्य स्थितिरुक्ता, सम्प्रत्येतदन्तर्गतमेवान्तरमाह मूलम् - अनंतकालमुक्कोसं, एगं समयं जहन्नयं । अजीवाण य रूवीणं, अंतरेअं विआहिअं ॥ १४ ॥ व्याख्या - स्पष्टं, नवरं - 'अतंरेअंति' अन्तरं विवक्षितक्षेत्रात् प्रच्युतानां पुनस्तत्प्राप्तिव्यवधानं एतत्पूर्वोक्तमिति सूत्रार्थः ॥ १४ ॥ एतान्येव भावतोऽभिधातुमाह मूलम् -- वण्णओ गंधओ चेत्र, रसओ फासओ तहा। संठाणओ अ विपणेओ, परिणामो तेसि पंचहा व्याख्या -- वर्णतो गन्धतश्चैव रसतः स्पर्शतस्तथा संस्थानतश्च विज्ञेयः परिणामः स्वरूपावस्थितानामेव वर्णाद्यन्यथाभावस्तेषामणूनां स्कन्धानां च पञ्चधा ॥ १५ ॥ प्रत्येकमेषामेवोत्तरभेदानाह मूलम् - वण्णओ परिणया जे उ, पंचहा ते पकित्तिआ fever नीला य लोहिआ, हालिद्दा सुक्किला तहा ॥ १६ ॥ व्याख्या – अत्र कृष्णाः कज्जलादिवत्, नीला हरितादिवत्, लोहिता हिङ्गुलकादिवत्, हारिद्राः पीता हरिद्रादिवत् शुक्लाः शङ्खादिवत् ॥ १६ ॥ मूलम् - गंधओ परिणया जे उ, दुविहा ते विआहिआ। सुब्भिगंधपरिणामा, दुब्भिगंधा तहेव य ॥१७॥ व्याख्या - सुरभिगन्धपरिणामाः श्रीखण्डादिवत्, दुरभिगन्धा दुर्गन्धा लशुनादिवत् ॥ १७ ॥ मूलम् - रसओ परिणया जे उ, पंचहा ते पकित्तिआ । तित्त- कडुअ-कसाया, अंबिला महुरा तहा | १८ | व्याख्या - अत्र तिक्ता निम्बादिवत् कटुकाः शुण्ठ्यादिवत् कषाया बुब्बूलादिवत्, अम्ला अम्लिकावत्, मधुराः शर्करादिवत् ॥ १८ ॥ मूलम् - फासओ परिणया जे उ, अट्टहा ते पकित्तिआ । केक्खडा मउआ चेत्र, गरुआ लँहुआ तहा | १९| उहा यद्धि य, तहा लुक्खा य आहिआ। इति फासपरिणया, एए पुग्गला समुदाआ२० व्याख्या – कर्कशाः पाषाणादिवत्, मृदवो ग्रक्षणादिवत्, गुरवो हीरकादिवत्, लघवोऽर्कतूलादिवत् ॥ १९ ॥ शीता जलादिवत्, उष्णा दहनादिवत्, स्निग्धा घृतादिवत्, रूक्षा रक्षादिवत् ॥ २० ॥ मूलम् - संठाणपरिणया जे उ, पंचहा ते पकित्तिआ । परिमंडला य वेट्टा, तंसा चउरंसमायया ॥ २१ ॥

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424