________________
386
उतराध्ययन
व्याख्या - एकत्वेन पृथग्भूतद्व्यादिपरमाणुसङ्घाततो द्विप्रदेशिकादिलक्षणसमानपरिणतिखरूपेण, पृथक्त्वेन परमाण्वन्तरैः सहासंघातरूपेण बृहत्स्कन्धेभ्यो विचटनात्मकेन वा स्कन्धाश्च परमाणवश्च लक्ष्यन्त इति शेषः । एतानेव क्षेत्रत आह- 'लोएगदेसे' इत्यादि-लोकस्यैकदेशे लोके च भक्तव्या भजनया विज्ञेयाः ते इति स्कन्धाः परमाणवश्व, तुः पूरणे, क्षेत्रतः । अत्र चाविशेषोक्तावपि परमाणूनामेकप्रदेश एवावस्थानात् स्कन्धविषयैव भजना द्रष्टव्या । ते हि विचित्र परिणामत्येन बहुतरप्रदेशोपचिता अपि केचिदेकप्रदेशे अवतिष्ठन्ते, अन्ये तु संख्येयेष्वेव प्रदेशेषु यावकोsपि सकललोकेपि तथाविधाचित्तमहास्कन्धवत्ततो भजनीया इत्युच्यन्ते । 'इत्तोत्ति' इत इति क्षेत्रप्ररूपणातोऽनन्तरं कालविभागं तु कालभेदं पुनस्तेषां स्कन्धादीनां वक्ष्ये चतुर्विधं साद्यनादिसपर्यवसितापर्यवसितभेदेनेति सूत्रार्थः । इदं च सूत्रं षट्पाद, प्रत्यन्तरेषु चान्त्यपादद्वयं न दृश्यतेऽपि ॥ ११ ॥ प्रतिज्ञातमाह
मूलम् - संत पप्प तेऽणाई, अपज्जवसिआवि अ । ठिहं पडुच्च साईआ, सपज्जवसिआवि अ ॥१२॥ व्याख्या - सन्ततिम परापरोत्पत्तिरूपां प्राप्य आश्रित्य ते इति स्कन्धाः परमाणवश्च अनादयः अपर्यवसिता अपि च, न हि प्रवाहतस्तद्वियुक्तं जगत् कदाप्यासीत् अस्ति भविष्यति वा । स्थितिं प्रतिनियतक्षेत्रावस्थान रूपां प्रतीत्य सादिकाः सपर्यवसिता अपि च, ब्रजन्ति हि कालान्तरे नवनवं क्षेत्रं परमाणवः स्कन्धाश्चेति ॥ १२ ॥ सादिसपर्यवसितत्वेप्येषां कियत्कालं स्थितिरित्याह
मूलम् - असंखकाल मुक्कोसं, एगं समयं जहन्नयं । अजीवाण य रूविणं, ठिई एसा विआहिआ ||१३
व्याख्या - असंख्य कालमुत्कृष्टा, एकं समयं जघन्यका, अजीवानां रूपिणां स्थितिरेक क्षेत्रावस्थानरूपा एषा व्याख्याता । ते हि जघन्यत एकसमयादुत्कृष्टतोऽसंख्यकालादप्यूर्द्ध ततः क्षेत्रात्क्षेत्रान्तरमवश्यं यान्तीति ॥ १३ ॥ इथं कालद्वारमाश्रित्य स्थितिरुक्ता, सम्प्रत्येतदन्तर्गतमेवान्तरमाह
मूलम् - अनंतकालमुक्कोसं, एगं समयं जहन्नयं । अजीवाण य रूवीणं, अंतरेअं विआहिअं ॥ १४ ॥ व्याख्या - स्पष्टं, नवरं - 'अतंरेअंति' अन्तरं विवक्षितक्षेत्रात् प्रच्युतानां पुनस्तत्प्राप्तिव्यवधानं एतत्पूर्वोक्तमिति सूत्रार्थः ॥ १४ ॥ एतान्येव भावतोऽभिधातुमाह
मूलम् -- वण्णओ गंधओ चेत्र, रसओ फासओ तहा। संठाणओ अ विपणेओ, परिणामो तेसि पंचहा व्याख्या -- वर्णतो गन्धतश्चैव रसतः स्पर्शतस्तथा संस्थानतश्च विज्ञेयः परिणामः स्वरूपावस्थितानामेव वर्णाद्यन्यथाभावस्तेषामणूनां स्कन्धानां च पञ्चधा ॥ १५ ॥ प्रत्येकमेषामेवोत्तरभेदानाह
मूलम् - वण्णओ परिणया जे उ, पंचहा ते पकित्तिआ
fever नीला य लोहिआ, हालिद्दा सुक्किला तहा ॥ १६ ॥
व्याख्या – अत्र कृष्णाः कज्जलादिवत्, नीला हरितादिवत्, लोहिता हिङ्गुलकादिवत्, हारिद्राः पीता हरिद्रादिवत् शुक्लाः शङ्खादिवत् ॥ १६ ॥
मूलम् - गंधओ परिणया जे उ, दुविहा ते विआहिआ। सुब्भिगंधपरिणामा, दुब्भिगंधा तहेव य ॥१७॥
व्याख्या - सुरभिगन्धपरिणामाः श्रीखण्डादिवत्, दुरभिगन्धा दुर्गन्धा लशुनादिवत् ॥ १७ ॥ मूलम् - रसओ परिणया जे उ, पंचहा ते पकित्तिआ । तित्त- कडुअ-कसाया, अंबिला महुरा तहा | १८ | व्याख्या - अत्र तिक्ता निम्बादिवत् कटुकाः शुण्ठ्यादिवत् कषाया बुब्बूलादिवत्, अम्ला अम्लिकावत्, मधुराः शर्करादिवत् ॥ १८ ॥
मूलम् - फासओ परिणया जे उ, अट्टहा ते पकित्तिआ । केक्खडा मउआ चेत्र, गरुआ लँहुआ तहा | १९| उहा यद्धि य, तहा लुक्खा य आहिआ। इति फासपरिणया, एए पुग्गला समुदाआ२०
व्याख्या – कर्कशाः पाषाणादिवत्, मृदवो ग्रक्षणादिवत्, गुरवो हीरकादिवत्, लघवोऽर्कतूलादिवत् ॥ १९ ॥ शीता जलादिवत्, उष्णा दहनादिवत्, स्निग्धा घृतादिवत्, रूक्षा रक्षादिवत् ॥ २० ॥ मूलम् - संठाणपरिणया जे उ, पंचहा ते पकित्तिआ । परिमंडला य वेट्टा, तंसा चउरंसमायया ॥ २१ ॥