________________
न्तिानां भवज्जीवानामजीवानी
385 उत्तराध्ययन मूलम्-दवओ खेत्तओ चेव, कालओ भावओ तहा। परूवणा तेसि भवे, जीवाणं अजीवाण 4 ॥३॥
व्याख्या-द्रव्यत इदमियद्भेदं द्रव्यमिति, क्षेत्रतश्चैव इदमियति क्षेत्रे स्यादिति, कालत इदमियत्कालस्थितिकमिति, भावत इमेऽस्य पर्यायास्तथेति समुच्चये इति प्ररूपणा तेषां विभजनीयत्वेन प्रक्रान्तानां भवर्ज चेति सूत्रद्वयार्थः ॥ ३ ॥ तत्राल्पवक्तव्यत्वाद्रव्यतोज्जीवप्ररूपणामाहमूलम्-रूविणो चेवऽरूवी अ, अजीवा दुविहा भवे । अरूवी दसहा वुत्ता, रूविणोऽवि चउबिहा ॥४॥
व्याख्या-रूपिणश्चैव समुचये अरूपिणश्च अजीवा द्विविधा भवेयुः, तत्रारूपिणो दशधा उक्ताः, 'रूविणोवित्ति' अपिः पुनरर्थस्ततो रूपिणः पुनश्चतुर्विधाः । अप्राप्यल्पवक्तव्यत्वादेवारूपिणां प्राक् प्ररूपणेति ध्येयम् ॥ ४॥ तत्रारूपिणो दशविधानाहमूलम्-धम्मत्थिकाए तसे, तप्पएसे अ आहिए । अधम्मे तस्स देसे अ, तप्पएसे अ आहिए ॥५॥
व्याख्या-धारयत्यनुगृह्णाति गतिपरिणतान् जीवपुद्गलांस्तत्वभावतयेति धर्मः, अस्तयः प्रदेशास्तेषां कायः समूहोऽस्तिकायः, धर्मश्चासावसिकायश्च धर्मास्तिकायः ॥१॥ तस्य धर्मास्तिकायस्स देशस्त्रिभागचतुर्भागादिः तहेशः ॥२॥ तम्य प्रदेशो निविभागो भागस्तत्प्रदेशश्च आख्यातः ॥३॥न धारयति जीवाणून स्थित्यवष्टम्भकत्वादित्यधर्मः स एवास्तिकायोऽधर्मास्तिकायः ॥ १॥ तस्य देशः २ तत्प्रदेश ३ श्वाख्यातः॥५॥ मूलम्-आगासे तस्स देसे अ, तप्पएसे अ आहिए । अद्धासमये चेव, अरूवी दसहा भवे ॥६॥
व्याख्या-आङिति मर्यादया खरूपात्यागरूपया काशन्ते भासन्तेऽस्मिन् पदार्था इत्याकाशं तदेवास्तिकायः आकाशास्तिकायः ॥ १ ॥ तस्य देशश्च ॥ २ ॥ तत्प्रदेशश्चाख्यातः ॥ ३ ॥ एवं ॥९॥ अद्धा कालवद्रूपः समयोद्धासमयोऽनिर्विभागत्वाचास्य न देशप्रदेशसम्भवः, आवलिकाद्यास्तु कालभेदा व्यवहारत एवोल्यन्त इति नेह विवक्षिताः, एवमरूपिणो दशधा भवेयुरिति सूत्रत्रयार्थः ॥ ६ ॥ सम्प्रत्येतानेव क्षेत्रत आह
मूलम्-धम्माधम्मे अ दोवेए, लोगमेता विआहिआ।
लोआलोए अ आगासे, समए समयखेत्तिए ॥७॥ व्याख्या-धर्माधम्मों च धर्मास्तिकायाधर्मास्तिकायौ लोकमात्रौ व्याख्यातो, लोकेऽलोके चाकाशं सर्वगतत्वातस्य, समयोऽद्धासमयः समयक्षेत्रमर्द्धतृतीयद्वीपवार्द्धिद्वयरूपं विषयभूतमस्सास्तीति समयक्षेत्रिकस्तत्परतस्वस्थामाषादिति सत्रार्थः ॥ ७ ॥ अथामूनेव कालत आहमूलम्-धम्माधम्मागासा, तिपिणऽवि एए अगाइआ। अपजवसिआ चेव, सबद्धं तु विआहिआ ८
व्याख्या-धर्माधर्माकाशानि त्रीण्यप्येतानि अनादिकानि अपर्यवसितानि चैव अनन्तानीत्यर्थः, 'सबद्धं तुति' सर्वाद्धामेव सर्वदा खखरूपात्यागता नित्यानीति यावत् व्याख्यातानि ॥ ८॥ मूलम्-समएवि संतई पप्प, एवमेव विआहिए । आएसं पप्प साइए, सपजवसिएवि अ॥९॥
व्याख्या-समयोऽपि सन्तति अपरापरोत्पत्तिरूपप्रवाहात्मिकां प्राप्य आश्रित्य एवमेव अनाद्यनन्तलक्षणेनेव प्रकारेण व्याख्यातः, आदेशं विशेष प्रति नियतव्यक्तिरूपं घट्यादिकं प्राप्य सादिकः सपर्यवसितोऽपि चेति सूत्रद्वयार्थः ॥९॥ अथामूर्ततयाऽमीषां पर्यायाः प्ररूप्यमाणा अप्यवबोडं दुश्शका इति भावतस्तत्प्ररूपणामनास्त्य द्रव्यतो रूपिणः प्ररूपयितुमाह
मूलम्-खंधा य १ खंधदेसा य २ तप्पएसा ३ तहेव य ।
परमाणुणो अ बोधवा, रूविणो य चउबिहा ॥ १०॥ व्याख्या-स्कन्धाश्च पुद्गलोपचयापचयलक्षणाः स्तम्भादयः, स्कन्धदेशाश्च स्तम्भादिद्वितीयादिभागरूपाः, तेषां प्रदेशास्तत्प्रदेशाः स्तम्भादिसम्पृक्तनिरंशांशरूपास्तथैव चेति समुच्चये, परमाणवश्च निरंशद्रव्यरूपा बोद्धव्याः, रूपिणश्च रूपिणः पुनश्चतुर्विधाः ॥ १० ॥ इह च देशप्रदेशानां स्कन्धेष्वेवारतर्भावात् स्कन्धाश्थ परमाणवश्चेति समासतो द्वावेव रूपिद्रव्यभेदो, तयोश्च किं लक्षणमित्याहमूलम्-एगत्तेण पुहत्तेणं, खंधा य परमाणुणो । लोएगदेसे लोए अ, भइअवा ते उ खेत्तओ।
इत्तो कालविभागं तु, तेसिं वोच्छं चउविहं ॥ ११ ॥