________________
334
उत्तराध्ययन
पचयार्थमित्यर्थः न भुञ्जीत, किमर्थं तत्याह-यापना निर्वाहः स चार्थात् संयमस्य तदर्थ महामुनिर्मुञ्जीतेतियोगः ॥ १७ ॥ तथा
मूलम् -अञ्च्चणं रयणं चेव, वंदणं पूअणं तहा । इड्डीसकारसम्माणं, मणसावि न पत्थर ॥ १८ ॥
व्याख्या – अर्थनां पुष्पादिभिः पूजां, रचनां निषद्यादिविषयां खस्तिकादिरूपां वा, चः समुच्चये एवोऽवधारणे नेत्यनेन योज्यः, वन्दनं प्रतीतं, पूजनं वस्त्रादिभिः प्रतिलाभनं तथेति समुचये, ऋद्धिश्व श्राव कोपकरणादिसम्पत्सत्कारश्चार्घदानादिः, सम्मानं चाभ्युत्थानादि ऋद्धिसत्कारसम्मानं मनसाप्यास्तां बाचा नैव प्रार्थयेत् ॥ १८ ॥ किं पुनः कुर्यादित्याह -
मूलम् - सुकं झाणं झिआएजा, अनिआणे अकिंचणे । वोसट्टकाए विहरेज्जा, जाव कालस्स पज्जओ ॥
व्याख्या- 'मुक्कं झाणंति' सोपस्कारत्वात् सूत्रस्य शुक्लं ध्यानं यथा भवति तथा ध्यायेत् अनिदानोऽकिञ्चनः व्युत्सृष्टकायो निष्प्रतिकर्मशरीरो विहरेदप्रतिबद्ध विहारितयेति भावः । कियन्तं कालमित्याह - यावत् कालख मृत्योः पर्यायः प्रस्तावो यावज्जीवमित्यर्थः ॥ १९ ॥ प्रान्तकाले चायं यत्कृत्वा यत्फलं प्राप्नोति तदाह
मूलम् - निज्जूहिऊण आहारं, कालधम्मे उवट्ठिए । जहिऊण माणुसं बोंर्दि, पभु दुक्खे विमुच्च ॥२०॥
व्याख्या- 'निज्जूहिऊणन्ति' परित्यज्य आहारं संलेखनादिक्रमेण कालधर्मे आयुः क्षयरूपे उपस्थिते, तथा त्यक्त्वा मानुषीं मोन्दिं तनुं प्रभुवर्यान्तरायापगमाद्विशिष्टसामर्थ्यवान् 'दुःखेत्ति' दुःखेः शारीरमान सैर्विमुच्यते ॥ २० कीदृशः सन् दुःखैर्विमुच्यते इत्याह
मूलम् - निम्ममे निरहंकारे, वीअरागे अणासवे । संपत्ते केवलं नाणं, सासयं परिनिव्वुडेत्ति बेमि । २१ ।
व्याख्या - निर्ममो निरहङ्कारः कुतोऽयमीदृग् यतो वीतराग उपलक्षणत्वाद्वीतद्वेषश्च तथा अनाश्रवः कर्म्माश्रवरहितः संप्राप्तः केवलं ज्ञानं शाश्वतं कदापि विच्छेदाभावात्, परिनिर्वृतोऽस्वास्थ्यहेतुकर्माभावात् सर्वथा स्वस्थीभूत इत्येकविंशतिसूत्रार्थः ॥ २१ ॥ इति ब्रवीमीति प्राग्वत्
vesves vesves as xx ves
इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयग णिसमर्थितायां श्रीउत्तराध्ययन सूत्रवृत्तौ पञ्चत्रिंशमध्ययनं सम्पूर्णम् ॥ ३५ ॥ नकल प्न फल फल फल फल फल ॥ अथ षट्त्रिंशमध्ययनम् ॥
॥ अर्हम् ॥ उक्तं पञ्चत्रिंशमध्ययनमथ जीवाजीवविभक्तिसंज्ञं षट्त्रिंशमारभ्यते, अस्य चायमभिसम्बन्धोऽनन्तराध्ययने भिक्षुगुणाः उक्तास्ते च जीवाजीव खरूपपरिज्ञानादेवासेवितुं शक्या इति तज्ज्ञापनार्थमिदमारभ्यते इति सम्बन्धस्यास्येदमादिसूत्रम् -
मूलम् - जीवाजीवविभत्तिं, सुणेह मे एगमणा इओ । जं जाणिऊण भिक्खू, सम्मं जयइ संजमे ॥१॥ व्याख्या - जीवाजीवानां विभक्तिस्तद्भेदादिदर्शनेन विभागेनावस्थापनं जीवाजीवविभक्तिस्तां शृणुत मे कथयतः इति शेषः, एकमनसः सन्तः, अतोऽनन्तराध्ययनादनन्तरं, यां जीवाजीवविभक्तिं प्ररूपणाद्वारेणैव ज्ञात्वा भिक्षुः सम्यग् यतते प्रयत्नं कुरुते संयमे इति सूत्रार्थः ॥ १ ॥ जीवाजीवविभक्तिप्रसङ्गादेव लोकालोकविभक्तिमाहमूलम् - जीवा चेव अजीवा य, एस लोए विआहिए। अजीवदेसे आगासे, अलोए से विआहिए ॥२॥
व्याख्या - जीवाश्चैव अजीवाश्च एष सर्वप्रसिद्धो लोको व्याख्यातोऽर्हदाद्यैः, अजीवदेश आकाशमलोकः स व्याख्यातो धर्मास्तिकायादिरहित स्थाकाशस्यैवालोकत्वात् ॥ २ ॥ इह च जीवाजीवानां विभक्तिः प्ररूपणाद्वारेणैव स्यादिति तामाह -