________________
उत्तराध्ययन मूलम्-तसाणं थावराणं च, सुहुमाणं बायराण य । गिहकम्मसमारंभ, संजओ परिवजए ॥९॥
व्याख्या-प्रसाणां स्थावराणां सूक्ष्माणां शरीरापेक्षया बादराणां च तथैव तस्माद्गृहकर्मसमारम्भं संयतः परिवर्जयेत् ॥ ९॥ अन्यच्चमूलम्-तहेव भत्तपाणेसु, पयणपयावणेसु अ । पाणभूयदयहाए, न पए न पयावए ॥ १०॥ ___ व्याख्या--तथैवेति प्राग्वदेव भक्तपानेषु पचनपाननेषु च यधो दृश्यते इति प्रागुक्तेन सम्बन्धः, ततः किमित्याह-प्राणास्त्रसा भूतानि पृथिव्यादीनि तयार्थ न पचेत् न पाचयेत् ॥ १०॥ अमुमेवार्थ स्पष्टतरमाहमूलम्-जलधन्ननिस्सिआ पाणा, पुढविकनिस्सिआ।हम्मति भत्तपाणेसु, तम्हा भिक्खू न पयावए ॥ ___ व्याख्या-जले धान्ये च निश्रिता ये तान्यत्र वा उत्पद्य तन्निश्रया स्थितास्ते जलधान्यनिश्रिताः पूतरकेलिकापिपीलिकादयो जीवा एवं पृथ्वीकाष्ठनिश्रिताः, हन्यन्ते भक्तपानेपु प्रक्रमात्पच्यमानेषु, यत एवं तस्मात् भिक्षुर्न पाचयेत् , अपेर्गम्यत्वान्न पाचयेदपि कथं पुनः स्वयं पचेत् ? अनुमतिनिधोपलक्षणं चैतत् ॥११॥ तथामूलम्-विसप्पे सवओ धारे, बहुपाणिविणासणे।नस्थि जोइसमे सत्थे, तम्हा जोइं न दीवए ॥ १२
व्याख्या-विसर्पति खल्पमपि बहु व्याप्नोतीति विसर्प, सर्वतो धारं सर्वदिकस्थितजीयोपघातकत्वात् , अत एष बहुप्राणिविनाशनं नास्ति ज्योतिःसमं वह्नितुल्यं शस्त्रं, यस्मादेवं तस्मात् ज्योतिर्न दीपयेत् ॥ १२ ॥ ननु ? पचनादौ जीववधः स्यान्न तु क्रयविक्रययोस्ततो युक्त एवाभ्यां निर्वाह इति कस्यचिदाशङ्का स्य तदपोहार्थमाहमूलम्-हिरणं जायरूवं च, मणसावि न पत्थए । समलेटुकंचणे भिक्खू , विरए कयविक्कए॥१३॥
व्याख्या-हिरण्यं कनकं, जातरूपं च रूप्यं, चकारोऽनुक्ताशेषधनधान्यादिसमुच्चये, मनसापि न प्रार्थयेद्रिक्षु. रिति योगः, कीदृशः सन् ? समे प्रतिवन्धाभावात्तुल्ये लेष्ठुकाञ्चने यस्य स समलेटुकाश्चनो भिक्षुः विरतो निवृत्तः क्रयविक्रये क्रयविक्रयविपये ॥ १३ ॥ कुत एवमित्याहमूलम्-किणंतो कइओ होइ, विकिणंतो अ वाणिओ। कयविकयंमि वर्सेतो, भिक्खू न हवइ तारिसो ___ व्याख्या-क्रीणन् रकीयं वस्तु मूल्येनाददानः क्रायको भवति, तथाविधेतरलोकसरश एष स्यात्, विक्रीणा. नश्च खकीयं च वस्तु परस्य ददद्वणिग् भवति, पाणिज्यप्रवृत्तत्वादिति भाषः । अत एव क्रयविक्रये वर्तमानः प्रवर्त्तमानो भिक्षुर्न भवति तादृशो यादृशः समयेऽभिहितः ॥ १४ ॥ ततः किं कार्यमित्याहमूलम्-भिक्खिअवन केअवं,भिक्खुणा भिक्खवत्तिणा । कयविक्कओ महादोसो, भिक्खावित्ती सुहावहा
व्याख्या-भिक्षितव्यं याचितव्यं तथाविधवस्त्विति गम्यते, न क्रेतव्यं उपलक्षणत्वाच नापि विक्रेतव्यं भिक्षुणा मिक्षावृत्तिना, अत्रैवादरख्यापनार्थमाह-क्रयश्च विक्रयश्च क्रयविक्रयं महादोषं, लिङ्गव्यत्ययः सूत्रत्वात् , भिक्षावृत्तिः सुखावहा ॥ १५ ॥ भिक्षितव्यमित्युक्तं तच्चेककुलऽपि स्यादत आहमूलम्-समुआणं उंछमेसिजा, जहासुत्तमणिंदिअं। लाभालाभंमि संतुढे, पिंडवायं चरे मुणी ॥१६॥
व्याख्या-समुदानं भक्ष्यं तच्च उञ्छमिय उञ्छं अन्यान्यगृहेभ्यः स्तोकस्तोकमीलनात् एषयेद्वेषयेत् यथासूत्रं आगमार्थानतिक्रमेण उद्मोत्पादनैपणाद्यवाधात् इति भावस्तत एवानिन्दितं जात्यादिजुगुप्सितजनसम्बन्धि यन्त्र भवति, तथा लाभालाभे सन्तुष्टः पिण्ड म्य पातः पतनं प्रक्रमात् पात्रेऽस्मिन्निति पिण्डपातं चरेदासेवेत मुनिर्याक्यान्तरविषयत्वाञ्च न पौनरुत्यम् ॥ १६ ॥ इत्थं पिण्डमवाप्य यथा भुजीत तथाहमूलम्-अलोले न रसे गिद्धे, जिब्भादंते अमुच्छिए । न रसट्टाए भंजिजा, जवणट्ठाए महामुणी।१७।
व्याख्या-अलोलो न सरसाने प्राप्ते लाम्पट्ययान् , न रसे मधुरादौ गृद्धोऽप्राप्तेऽभिकांक्षावान् , कुतश्चैवंविधः १ यतः 'जिब्भादंतेत्ति' दान्तजिह्वोऽत एवामूर्छितः सन्निधेरकरणेन भोजनकालेऽभिष्वङ्गाभावेन वा । एवंविधश्च न नैव 'रसट्टाएत्ति' रसो धातुविशेषः स चाशेषधातूपलक्षणं ततस्तदुपचयः स्यादिति रसाथै धातू