SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ 382 उत्तराच्ययन ॥ अथ पञ्चत्रिंशमध्ययनम् ॥ अहम् ॥ उक्तं चतुस्त्रिंशमध्ययनमथानगारमार्गगत्याख्यं पञ्चत्रिंशमारभ्यते, अस्य चायं सम्बन्धः-इहानन्तराध्य. यनेऽप्रशस्ता लेश्यास्त्यक्त्वा प्रशस्ता एवाश्रयणीया इत्युक्तं, तच्च गुणवता भिक्षुणा सम्यकर्तुं शक्यमिति इह तद्गुणा उच्यन्त इति सम्बन्धस्यास्येदमादिसूत्रम्मूलम्-सुणेह मेगग्गमणा, मग्गं बुद्धेहिं देसिअं । जमायरंतो भिक्खू , दुक्खाणंतकरो भवे ॥१॥ व्याख्या-शृणुत मे वदत इति शेषः, हे शिष्याः ! यूयं एकाग्रमनसोऽनन्यचित्ताः, किं तदित्याह-मार्ग मुक्त रिति प्रक्रमः, बुद्धरहंदाद्यैर्देशितं, यमाचरन्नासेवमानो भिक्षुः दुःखानामन्तकरो भवेत्सकलकर्मनिर्मूलनादिति भावः ॥१॥प्रतिज्ञातमेवाहमूलम्-गिहवासं परिच्चज, पवजं अस्सिए मुणी। इमे संगे विआणेजा, जेहिं सजंति माणवा ॥२॥ व्याख्या-गृहवासं परित्यज्य प्रव्रज्यामाश्रितो मुनिः इमान् प्रतिप्राणिप्रतीतत्वेन प्रत्यक्षान् सङ्गान् पुत्रकलत्रादीन विजानीयात् , भवहेतवोऽमी इति विशेपेणाववुध्येत, ज्ञानस्य च विरतिफलत्वात् प्रत्याचक्षीतेति भावः । सङ्ग शब्दव्युत्पत्तिमाह-यैः सज्यन्ते प्रतिवन्धं भजन्ति मानवा उपलक्षणत्वादन्येऽपि जन्तवः ॥ २॥ मूलम्-तहेव हिंसं अलिअं, चोजं अब्बंभसेवणं । इच्छा कामं च लोभं च, संजओ परिवजए॥३॥ व्याख्या-तथेति समुच्चये, एवेति पूरणे, हिंसामलीक चौर्यमब्रह्मसेनं इच्छारूपः काम इच्छाकामस्तं च अप्राप्तवस्तुवान्छारूपं लोभं च लब्धवस्तुविषयगृद्धिरूपं अनेनोभयेनापि परिग्रह उक्तस्ततः परिग्रहं च संयतः परिवर्जयेत् ॥ ३॥ तथामूलम्-मणोहरं चित्तघरं, मल्लधूवेण वासि। सकवाडं पंडरुल्लोअं, भणसावि न पत्थए ॥४॥ व्याख्या-मनोहरं मनोज्ञं चित्रप्रधानं गृहं चित्रगृहं माल्यधूपेन वासितं सकपाटं पाण्डुरोलोचं मनसाप्यास्तां वचसा न प्रार्थयेत् , किं पुनः तत्र तिष्ठेदिति भावः ॥ ४ ॥ किं पुनरेवमुपदिश्यते ? इत्याहमूलम्-इंदिआणि उ भिक्खुस्स, तारिसम्मि उवस्सए । दुकराई निवारेउं, कामरागविवडणे ॥५॥ व्याख्या-इन्द्रियाणि तरिति यस्माद्विक्षोस्तारशे उपाश्रये दुष्कराणि करोतेः सर्वधात्वर्धव्याप्तत्वात नाशकानि निवारयितुं खस्खविषयेभ्य इति गम्यते, कामरागविवर्द्धने विषयाभिष्वङ्गपोपके इत्युपाश्रयविशेषणम् ॥५॥ तर्हि क स्थेयमित्याहमूलम्-सुसाणे सुन्नगारे वा, रुक्खमूले वा एगगो। पइरिके परकडे वा, वासं तत्थाभिरोअए ॥६॥ व्याख्या-३मशाने शून्यागारे वा वृक्षमूले वा एकको रागादिवियुक्तोऽमहायो वा प्रतिरिक्ते ख्याद्यसङ्कले परकृते परैर्निप्पादिते स्वार्थमिति शेपः, वा समुच्चये, वासमवस्थानं तत्र श्मशानादौ अभिरोचयेद्भिक्षुरिति योगः ॥ ६ ॥ मूलम्-फासुअंमि अणाबाहे, इत्थीहिं अभिदुए । तत्थ संकप्पए वासं, भिक्खू परमसंजए ॥७॥ ___ व्याख्या-प्रासुके अचित्तीभूतभूभागे अनाबाधे कस्याप्यावाधारहिते स्त्रीभिरुपलक्षणत्वात् पण्डकादिभिश्च अनभिद्रुतेऽदूपिते, तत्र प्रागुक्तविशेषणे श्मशानादौ सङ्कल्पयेत्कुर्याद्वासं भिक्षुः, परमो मोक्षस्तदर्थ संयतः परमसंयतः । प्राग् वासं तत्राभिरोचयेदित्युक्ते रुचिमात्रेणैव कश्चित्तुष्येदिति तत्र सङ्कल्पयेद्वासमित्युक्तम् ॥ ७ ॥ ननु ? किमिह परकृत इति विशेषणमुक्तमित्याशंक्याहमूलम्-न सयं गिहाई कुविजा, नेव अन्नेहिं कारवे । गिहकम्मसमारंभे, भूआणं दिस्सए वहो ॥८॥ व्याख्या-न खयं गृहाणि कुर्वीत नैवान्यैः कारयेदुपलक्षणत्वान्नापि कुर्वन्तमन्यमनुमन्येत, किमिति यतो गृहकर्म इष्टकामृदानयनादि तस्य समारम्भः प्रवर्तनं गृहकर्मसमारम्भः तस्मिन् भूतानां प्राणिनां दृश्यते वधः ॥ ८॥ कतरेपामियाह
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy