________________
381 उत्तराध्ययन व्याख्या-'तित्तीसमुहुत्तमभहिअत्ति' प्रयस्त्रिंशन्मुहूर्त्ताभ्यधिकानि सागरोपमाण्युत्कृष्टेति गम्यते, अस्या जघन्या लान्तकेऽपरा त्वनुत्तरेष्विति द्वाविंशतिसूत्रार्थः ॥ ५५ ॥ उक्तं स्थितिद्वारं गतिद्वारमाह
मूलम्-किण्हा नीला काऊ, तिण्णिऽवि एआ उ अहमलेसाओ।
___ एआहिं तिहिंऽवि जीवो, दुग्गई उववज्जइ ॥ ५६ ॥ व्याख्या--अत्र 'तिण्णिवित्ति' तिस्रोऽपि अधमलेश्या अप्रशस्तलेश्याः, दुर्गतिं नरकतिर्यग्गतिरूपां उपपद्यते प्राप्नोति ॥ ५६ ॥ मूलम्--तेऊ पम्हा सुक्का, तिण्णिऽवि एआउधम्मलेसाओ। एआहिं तिहिंऽवि जीवो, सुग्गइं उववजइ
व्याख्या-'धम्मलेसाओत्ति' धर्मलेश्या विशुद्धत्वेनासां धर्महेतुत्यात्, सुगतिं नरगत्यादिकामिति सूत्रघ्यार्थः ॥५७ ॥ संप्रत्यायुरावसरतत्र चावश्यं जीवो यल्लेश्येपूत्पत्यते तलेश्य एव म्रियते, तत्र च जन्मान्तरभाविलेश्यायाः प्रथमसमये परभवायुप उदय आहोखिचरमसमयेऽन्यथा वा ? इति संशयापोहार्थमाह--
मूलम्-लेसाहिं सवाहि, पढमे समयंमि परिणयाहिं तु ।
नहु कस्सवि उववाओ, परे भवे होइ जीवस्स ॥ ५८ ॥ व्याख्या-लेश्याभिः सर्वाभिः प्रथमसमये प्रतिपत्तिकालापेक्षया परिणताभिरात्मरूपतयोत्पन्नाभिरुपलक्षितस्येति शेषः तुः पूरणे 'न हु' नैव कस्यापि उपपाद उत्पत्तिः परे भवे भवति जीवस्य ॥ ५८ ॥ तथा
मूलम्-लेसाहिं सवाहि, चरमे समयंमि परिणयाहिं तु।
न हु कस्सवि उववाओ, परे भवे होइ जीवस्त ॥ ५९ ॥ व्याख्या-लेश्याभिः सर्वाभिश्चरमसमयेऽन्त्यसमये परिणताभिस्तु नैव कस्याप्युपपादः परे भवे भवति जीवस्य ॥ ५९॥ कदा तीत्याहमूलम्-अंतमुहुत्तंमि गए, अंतमुहुत्तंमि सेसए चेव । लेसाहिं परिणयाहिं, जीवा गच्छंति परलोगं ६० ___ व्याख्या-अन्तर्मुहूर्ते गते एव तथान्तर्मुहुर्ते शेपके चैव अवशिष्यमाण एव लेश्याभिः परिणताभिरुपलक्षिता जीवा गच्छन्ति परलोकं, अनेनान्तर्मुहूर्तावशेपे आयुपि परभवलेश्यापरिणाम इत्युक्तम्भवति । अत्र च तिर्यग्मनुष्या आगामिभयलेश्याया अन्तर्मुहूर्ते गते, देवनारकाश्च खभवलेश्याया अन्तर्मुहूर्ते शेपे परलोकं यान्तीति विशेषः । उक्तं च-"तिरिनर आगामिभव-लेसाए अइगए मुरा निरया । पुत्वभवलेससेसे, अंतमुहुत्ते मरणमिति" ति सूत्रत्रयार्थः ॥६०॥ सम्प्रत्यध्ययनार्थमुपसंहरन्नुपदेष्टुमाह
मूलम्-तम्हा एआण लेसाणं, अणुभागे विआणिआ ।
अप्पसत्था उ वजित्ता, पसत्था उ अहिट्ठिजासित्ति बेमि ॥ ६१ ॥ व्याख्या-यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवः तस्मादेतासां लेश्यानामनुभावं उक्तरूपं विज्ञाय अप्रशस्ता वर्जयित्वा प्रशस्ता अधितिष्ठेद्भावप्रतिपत्त्याश्रयेन्मुनिरिति शेषः, उभयत्रापि तुः पूत्तौं इति सूत्रार्थः ॥६१ ॥ इति ब्रवीमीति प्राग्वत् ॥
FUKINAKOREXXX KTIKKIRTAIKHETKAR XEXTREKKRAKHLEXIKKITKARXXSARKHEREKA a इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्पगणिमहोपाध्यायधीमुनिविमलगणिशिष्योपाध्याय@ श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुस्त्रिंशत्तममध्ययनं सम्पूर्णम् ॥ ३४ ॥ Tixx...xxxxxxxxxxxxx XXXEMAME XXXHAR