________________
380
उत्तराध्ययन
मूलम् - एसा तिरिअनराणं, लेसाण ठिई उ वण्णिआ होई । तेण परं वोच्छामि, लेसाण ठिई उ देवागं ॥
व्याख्या - स्पष्टम् ॥ ४७ ॥
मूलम् -- दसवाससहस्साई, किण्हाए ठिई जहण्णिआ होई । पलिअम संखिज्जइमो, उक्कोसो होइ किण्हाए ॥ ४८ ॥
व्याख्या – 'पलिअमसंखिज्जइमोत्ति' पल्योपमासंख्येयतमः प्रस्तावाद्भागः, इयं च द्विधापि कृष्णायाः स्थितिरेताबदायुषां भवन पतिव्यन्तराणामेव द्रष्टव्या । इत्थं नीलकापोतयोरपि ॥ ४८ ॥
मूलम् - जा किण्हाइ ठिई खलु, उक्कोसा सा उ समयमभहिआ । जहणं नीलाए, पलिअमसंखेज्ज उक्कोसा ॥ ४९ ॥
व्याख्या—या कृष्णायाः स्थितिः खलुर्वाक्यालङ्कारे उत्कृष्टा पल्यासंख्येयभागरूपा 'सा उत्ति' सैव समयाभ्यधिका जघन्येन नीलायाः, 'पलिअमसंखेजत्ति' पल्योपमासंख्येयभाग उत्कृष्टा, बृहत्तरश्चायं भागः पूर्वस्मादवसेयः ४९ मूलम् -जा नीलाए ठिई खलु, उक्कोसा उ समयमम्भहिआ ।
जहन्नेणं काऊए, पलिअमसंखं च उक्कोसा ॥ ५० ॥
व्याख्या - इहापि पूर्वस्मात्पल्योपमासंख्य भागाद् वृहत्तमो भागो ज्ञेयः, शेषं प्राग्वत् ॥ ५० ॥ एवं निकायद्वयभाविनीमाद्य लेश्यात्रयस्थितिं दर्शयित्वा समस्तनिकायभाविनीं तेजोलेश्यास्थितिमभिधातुमाहमूलम् — तेण परं वोच्छामि, तेऊलेसा जहा सुरगणाणं । भवणवइवाणमंतर - जोइसवेमाणिआणं च५१
व्याख्या- ' तेणत्ति' ततः परं प्रवक्ष्यामि तेजोलेश्यां यथेति येन प्रकारेण सुरगणानां स्थात्तथेति शेषः, केषामित्याह-भवनपतिवानमन्तरज्योतिष्कवैमानिकानां चः पूर्त्तो ॥ ५१ ॥ प्रतिज्ञातमाह
मूलम् -- पलिओवमं जहन्ना, उक्कोसा सागरा उ दुण्णहिआ । पलिअमसंखिज्जेणं, होइ तिभागेण तेऊए
व्याख्या - पल्योपमं जघन्या, उत्कृष्टा द्वे सागरोपमे अधिके, केनेत्याह- पल्योपमासंख्येयेन भागेन भवति तैजस्याः स्थितिः, इयं चास्याः स्थितिर्वैमानिकानेवाश्रित्यावसेया, तत्र जघन्या सौधर्मे उत्कृष्टा चेशाने । उपलक्षणं चैतत् शेषनिकायतेजोलेश्यास्थितेः, तत्र भवनपतिव्यन्तराणां दशवर्षसहस्राणि जघन्या, उत्कृष्टा तु व्यन्तराणां पल्यं, भवनपतीनां साधिकं सागरं, ज्योतिषां जघन्या पल्याष्टभागः, उत्कृष्टा वर्षलक्षाधिकं पल्यमिति ॥ ५२ ॥ मूलम् - दसवास सहरसाईं, तेऊइ ठिई जहन्निआ होइ । दुण्णुदही पलिओम - असंखभागं च उक्कोसा
व्याख्या - अत्र सूत्रे देवसम्बन्धितैजस्याः स्थितिः सामान्येनोक्ता, इह च दशवर्षसहस्राणि जघन्याऽस्याः स्थिति - रुच्यते, प्रक्रमानुरूप्येण तु योत्कृष्टा कापोतायाः स्थितिः सैवास्याः समयाधिका जघन्या प्राप्नोति, तदत्र तत्त्वं दो वदन्तीति ॥ ५३ ॥ पद्मायाः स्थितिमाह
मूलम् - जा तेऊए ठिई खलु, , उक्कोसा सा उ समयमन्भहिआ । जहण्णेणं पम्हाए, दस उ मुहुत्ताहिआई उक्कोसा ॥ ५४ ॥
व्याख्या – अत्र 'सा उत्ति' सैव 'दस उत्ति' दशैव देवप्रस्तावात्सागरोपमाणि 'मुहुत्ताहिआईति' पूर्वोत्तरभवसत्कान्तर्मुहर्त्ताधिकानि, इयं च जघन्या सनत्कुमारे, उत्कृष्टा वह्मलोके । आह-यदीहान्तर्मुहूर्त्तमधिकमुच्यते तदा पूर्वत्रापि किं न तदधिकमुक्तं ? उच्यते - देवभवलेश्याया एव तत्र विवक्षितत्वात्, प्रतिज्ञातं हि 'तेण परं वोच्छामि, लेसाण टिई उ देवाणंति' एवं सतीहान्तर्मुहूर्त्ताधिकत्वं विरुध्यते, नैयं, अत्र हि पूर्वोत्तरभवलेश्यापि " अंतोमुद्दत्तंमि गए, अंतमुत्तंमिसेस चेवत्ति" वचनाद्देवभवसम्बधिन्येवेति प्रदर्शनार्थमित्थमुक्तमिति न विरोध इति भावनी - यम् ॥ ५४ ॥ शुक्लायाः स्थितिमाह
मूलम् - जा पन्हाई ठिई खलु, उक्कोसा सा उ समयमन्भहिआ । जहणेण सुक्काए, तित्तीसमुहुत्तमब्भहिआ ॥ ५५ ॥