________________
379
मूलम् — मुहुत्तद्धं तु जहन्ना, तिष्णुदही पलिअमसं खभागमन्भहिआ । उक्कोसा होइ ठिई, नायवा काउलेसाए ॥ ३६ ॥ व्याख्या - इयं स्थितिर्वालुकाप्रभोपरितनप्रस्तटे तावदायुष्केषु नारकेषु द्रष्टव्या ॥ ३६ ॥ मूलम् — मुहुत्तद्धं तु जहन्ना, दुण्णुदही पलिअमसंखभागमव्भहिआ । उक्कोसा होइ ठिई, नायवा तेउलेसाए ॥ ३७ ॥
उतराध्ययन
व्याख्या - इयमीशान कल्पे ज्ञेया ॥ ३७ ॥
मूलम् — मुहुत्तद्धं तु जहन्ना, दस होंती सागरा मुहुत्तहिआ। उक्कोसा होइ ठिई, नायवा पम्हलेसाए ३८ व्याख्या - इयं ब्रह्मलोकस्वर्गे च वोध्या ॥ ३८ ॥
मूलम् - मुहुत्तद्धं तु जहन्ना, तेत्तीसं सागरा मुहुत्तहिआ । उक्कोसा होइ ठिई, नायवा सुकलेसाए ॥३९॥ व्याख्या - एषा अनुत्तरविमानेषु मन्तव्येति सूत्रपट्कार्थः ॥ ३९ ॥ प्रकृतमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाहमूलम् - एसा खलु लेसाणं, ओहेण ठिई उ वण्णिआ होई । चउवि गई एत्तो, लेसाण ठिइं तु वोच्छामि ॥ ४० ॥ व्याख्या- 'ओहेणंति' ओघेन सामान्येन ॥ ४० ॥ प्रतिज्ञातमाहमूलम् - दसवास सहरसाई, काऊए ठिई जहन्निआ होई । तिण्णुदही पलिओम - असंखभागं च उक्कोसा ॥ ४१ ॥
व्याख्या – दशवर्षसहस्राणि कापोतायाः स्थितिर्जघन्यका भवति, त्रय उदधयः सागरोपमाणि 'पलियमसंखभागं चत्ति' पल्योपमासंख्येयभागवोत्कृष्टा । इयं च जघन्या रत्नप्रभायामुपरितनप्रस्तटनारकाणामेतावत्स्थितीनां उत्कृष्टा च वालुकाप्रभायामेतावत्स्थितिकनारकाणां प्रथमप्रस्तट एवेति भावनीयम् ॥ ४१ ॥
मूलम् - तिष्णुदही पलिअम संखभागो उ जहण्ण नीलठिई । दस उदही पलिओम - असंखभागं च उक्कोसा ॥ ४२ ॥ व्याख्या - नीलाया जघन्या स्थितिर्वालुकाप्रभायां, उत्कृष्टा धूमप्रभायां प्रथमप्रस्तटे ॥ ४२ ॥ मूलम् - दस उदही पलिअमसंख-भागं जहन्निआ होई । तेत्तीससागराई, उक्कोसा होई किण्हाए ॥ ४३॥
व्याख्या— कृष्णाया जघन्या धूमप्रभायामितरा तु तमस्तमायां, किञ्चेह नारकाणामुत्तरत्र च देवादीनां द्रव्यलेश्यास्थितिरेव चिन्त्यते, तद्भावलेश्यानां तु परिवर्त्तमानत्वेनान्यथापि स्थितेः सम्भवात् । यदुक्तं - " देवाण नारयाण य, दबलेसा भवंति एआओ । भावपरावत्तीए, सुरणेरइआण छलेसा" ॥ ४३ ॥
मूलम् - एसा नेरइआणं, लेसाण ठिई उ वण्णिआ होई । तेण परं वोच्छामि, तिरिअमणुस्साण देवाणं ॥ व्याख्या - ' तेण परंति' ततः परम् ॥ ४४ ॥
मूलम् — अंतोमुहुत्तमद्धं, लेसाण ठिई जहिं जहिं जा उ । तिरिआण नराणं वा, वजित्ता केवलं लेसं ॥४५॥
व्याख्या—‘अंतोमुहुत्तमर्द्धति' अन्तर्मुहूर्त्ताद्धां अन्तर्मुहूर्त्तकालं लेश्यानां स्थितिर्जघन्योत्कृष्टा चेति शेषः, कासामित्याह - 'जहिं जहिं ति' यत्र यत्र पृथिव्यादौ संमूच्छिममनुष्यादौ वा याः कृष्णाद्याः तुः पूर्वौ, तिरश्चां नराणां वा मध्ये सम्भवन्ति तासामित्यध्याहारः । लेश्याश्च पृथिव्यपवनस्पतिष्वाद्याश्चतस्रः, तेजोवायुविकलसंमूच्छिमेष्वाद्यास्तिस्रः, शेषेषु षट् । ततश्च सर्वासामप्यासां तिर्यग्मनुष्येषु अन्तर्मुहूर्त्तमानैव स्थितिः प्राप्तेत्याह-वर्जयित्वा केवल शुद्धां लेश्यां शुक्ललेश्यामित्यर्थः ॥ ४५ ॥ अस्या एव स्थितिमाह
मूलम् - मुहुत्तद्धं तु जहन्ना, उक्कोसा होइ पुबकोडी उ । नवहिं वरिसेहिं ऊणा, नायहा सुक्कलेसाए ॥ ४६ ॥
व्याख्या — इह यद्यपि कश्चिदष्टवार्षिकः पूर्वकोट्यायुर्व्रतपरिणाममाप्नोति तथापि नैतावद्वयःस्थस्य वर्षपर्यायादर्वाक् शुक्ललेश्यायाः सम्भव इति नवभिर्वर्षैरूना पूर्वकोटिरुच्यते ॥ ४६ ॥