________________
378 उत्तराध्ययन मूलम्-के वंकसमायारे, निअडिल्ले अणुजुए। पलिउंचग ओवहिए, मिच्छदिट्री अणारिए ॥२५॥
उप्फालगदुट्टवाई अ, तेणे आवि अ मच्छरी। एयजोगसमाउत्ते, काऊलेसं तु परिणमे ॥२६॥ व्याख्या-वक्रो वचसा, वक्रसमाचारः क्रियया, निकृतिमान् मनसा, अनृजुकः कथमपि ऋजूकर्तुमशक्या, परिकुञ्चकः खदोपप्रच्छादकः, उपधि छम तेन चरत्यौपधिकः सर्वत्र ब्याजतः प्रवृत्तिः, एकार्थिकानि वैतानि, मिथ्याइष्टिरनार्यश्च ॥ २५ ॥ 'उप्फालगत्ति' येन पर उत्प्रास्यते तदुत्प्रासकं, दुष्टं च रागादिदोषवद्यया भवत्येवं बदनशील उत्प्रासकदुष्टवादी, चः समुच्चये । स्तेनश्चौरः चापि समुच्चये । मत्सरी परसम्पदोऽसासहिः शेष प्राग्वत् ॥२६॥ मूलम्-नीआवित्ती अचवले, अमाई अकुतूहले । विणीयविणए दंते, जोगवं उवहाणवं ॥ २७ ॥
पियधम्मे दढधम्मे, वजभीरू हिएसए । एयजोगसमाउत्ते, तेउलेसं तु परिणमे ॥ २८॥ व्याख्या-नीचैर्वृत्तिर्मनोवाक्कायैरनुत्सितोऽचपलः, अमायी, अकुतूहलः, विनीतविनयः सभ्यस्तगुर्वाधुचितप्रवृत्तिः, अत एव दान्तः, योगः खाध्यायादिव्यापारस्तद्वान् , उपधानवान् विहितशास्त्रोपचारः ॥ २७ ॥ 'पिय' इत्यादि-तत्र 'वजभीरुत्ति' अवद्यभीरहितैपको मुक्तिगवेषकः, शेषं प्राग्वत् ॥ २८ ॥ मूलम्-पयणुक्कोहमाणे अ, मायालोभे अ पयणुए । पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥ २९ ॥
तहा पयणुवाई य, उवसंते जिइंदिए। एयजोगसमाउत्ते, पम्हलेसं तु परिणमे ॥३०॥ भ्याख्या-प्रतनुक्रोधमानः चः पूर्ती माया लोभश्च प्रतनुको यस्येति शेषः, अत एव प्रशान्तचित्तो दाम्तात्मा 'तहा पयणु' इत्यादि-तथा प्रतनुवादी खल्पभाषकः उपशान्तोऽनुद्भटत्वेनोपशान्ताकारः, शेषं प्राग्वत् ॥ ३०॥ मूलम्-अट्टरुदाणि वजित्ता, धम्मसुक्काणि झायए । पसंतचित्ते दंतप्पा, समिए गुत्ते य गुत्तिसु ॥ ३१॥
____ सरागे वीअरागे वा, उवसंते जिइंदिए । एअजोगसमाउत्ते, सुक्कलेसं तु परिणमे ॥ ३२ ॥ __ व्याख्या-आर्तरौद्रे वर्जयित्वा धर्मशुक्ले ध्यायति यः, कीदृशः सन्नित्याह-प्रशान्तचित्त इत्यादि, समितः समितिमान् , गुप्तो निरुद्धाशुभयोगः 'गुत्तिसुत्ति' गुप्तिभिः, सरागे स च सरागोऽक्षीणानुपशान्तकषायो वीतरागस्तद्विपरितो वा उपशान्तो जितेन्द्रियः एतद्योगसमायुक्तः शुक्ललेश्या तु परिणमेत् , विशिष्टलेश्यापेक्षं चैतलक्षणाभिधानं तेन न देवादिभिर्व्यभिचार इति सूत्रद्वादशकार्थः ॥ ३१ ॥ ३२ ॥ स्थानद्वारमाहमूलम्--अस्संखेजाणोसप्पिणीण उसप्पिणीण जे समया। संखाईआ लोगा, लेसाणं हुंति ठाणाई ३३
व्याख्या--असंख्येयानामवसर्पिणीनां तथोत्सर्पिणीना ये समयाः कियन्त इत्याह-संख्यातीता लोकाः कोऽर्थः । असंख्येयलोकाकाशप्रदेशपरिमाणाः तावन्तीति शेपो लेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि अशुमानां संक्ले. शरूपाणि शुभानां च विशुद्धिरूपाणीति सूत्रार्थः ॥ ३३ ॥ स्थितिमाहमूलम्--मुहुत्तद्धं तु जहन्ना, तेत्तीस सागरा मुहुत्तहिआ।उक्कोसा होइ ठिई, नायबा किण्हलेसाए ॥३४॥ व्याख्या-मुहूर्ताच तु कोऽर्थोऽन्तर्मुहूर्तमेव जघन्या, प्रयस्त्रिंशत्सागरोपमाणि 'मुडुत्तहिअत्ति' इहोत्तरत्र च मुहू. शब्देनोपचारान्मुहूर्तदेश एवोक्तः ततश्चान्तर्मुहूर्ताधिकानि उत्कृष्टा भवति स्थितिर्जातव्या कृष्णलेश्यायाः, इयं चास्याः स्थितिः सप्तमपृथ्व्यां ज्ञेया । इहान्तर्मुहूर्तशब्देन पूर्वोत्तरभवसम्बन्ध्यन्तर्मुहूर्तद्वयमुक्तं द्रष्टव्यं, एवमुत्तरत्रापि । जघन्या स्थितिस्तु सर्वासामासां तिर्यग्मनुष्येष्वेवावसेया ॥ ३४ ॥
मूलम्-मुहुत्तद्धं तु जहन्ना, दसउदही पलिअमसंखभागनब्भहिआ।
उकोसा होइ ठिई, नायबा नीललेसाए ॥ ३५ ॥ व्याख्या-मुहूर्ताोऽन्तर्मुहूर्त जपन्या, दश उधयः सागरोपमाणि 'पलिअत्ति' पल्योपमं तस्यासंख्यभागनाधिकानि उत्कृष्टा भवति स्थितिनीललेश्यायाः। नन्वस्या धूमप्रभोपरितनप्रस्तटं यावत्सम्भवस्तत्र च पूर्वोत्तरमपान्तर्मुहर्तद्वयेनाधिकास्याः स्थितिः किं नोक्ता ? उक्तैव पल्योपमासंख्येयभागे एव तस्याप्यन्तर्मुहूर्तद्वयस्यान्तर्भापात्, पल्यासंख्येयभागानां चाऽसंख्यभेदत्वादिहैतावन्मानस्यैवास्य विवक्षितत्वान्न विरोधः । एवमग्रेऽपि ॥ ३५ ॥