________________
377
उत्तराध्ययन मूलम्-जह करगयस्स फासो, गोजिभाए व सागपत्ताणं ।
एत्तोवि अणंतगुणो, लेसाणं अप्पसस्थाणं ॥ १८ ॥ व्याख्या-यथा 'करगयस्सत्ति' क्रकचस्य स्पर्शो गोजिह्वायाः शाको वृक्षविशेषस्तत्पत्राणां च स्पर्श इति प्रक्रमः। इतोप्यनन्तगुणः कर्कशः लेश्यानां अप्रशस्तानां यथा क्रममित्यर्थः ॥ १८ ॥
मूलम्-जह बूरस्स व फासो, नवणीअस्स व सिरीसकुसुमाणं ।
एत्तोवि अणंतगुणो, पसत्थलेसाण तिण्हपि ॥ १९ ॥ व्याख्या-यथा बूरस्य बनस्पतिविशेषस्य स्पर्शो नवनीतस्य वा शिरीपकुसुमानां एतस्मादप्यनन्तगुणः सुकुमारो यथाक्रमं प्रशस्तलेश्यानां तिसृणामपीति मूत्रद्वयार्थः ॥ १९ ॥ परिणामद्वारमाह
मूलम्-तिविहो व नवविहो वा, सत्तावीसइविहिक्कसीओ वा।
दुसओ तेआलो वा, लेसाणं होइ परिणामो ॥ २० ॥ व्याख्या-त्रिविधो वा नवविधो वा सप्तविंशतिविध एकाशीतिविधो वा 'दुसओ तेआलो यत्ति' त्रिचत्वारिंशदधिकद्विशतविधो वा लेश्यानां भवति परिणामस्तत्तद्रूपगमनात्मकः । तत्र त्रिविधो जघन्यमध्यमोत्कृष्टभेदेन, नवविधो यदा एषामपि खस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुणना । एवं पुनः पुनस्त्रिभिर्गुणने सप्तविंशतिविधत्वादिभावनीयम् । उपलक्षणं चैतत् , एवं तारतम्य चिन्तायां हि संख्यानियमस्याभावात् । तथा च प्रज्ञापना"कण्हरेसाणं भंते ! कइविहं परिणाम परिणमइ ? गोयमा ! तिविहं वा नवविहं या सत्तावीसइविहं वा एक्कासीइविहं वा तेआलादुसयविहं या पहुं वा बहुविहं वा परिणामं परिणमइ । एवं जाव सुक्कलेसा" इति सूत्रार्थः ॥२०॥ लक्षणद्वारमाहमूलम्-पंचासवप्पवत्तो, तीहिं अगुत्तो छसु अविरओ अ । तिवारंभपरिणओ, खुदो साहस्सिओ
नरो ॥ २१ ॥ निद्धंधसपरिणामो, निस्संसो अजिइंदिओ। एअजोगसमाउत्तो, कण्हलेसं
तु परिणमे ॥ २२॥ व्याख्या-पञ्चाश्रयप्रवृत्तः, त्रिभिः प्रक्रमान्मनोयाकायैरगुप्तः, पट्सु जीवनिकायेपु अविरतस्तदुपमईकत्वादिनेति शेषः, तीघ्राः उत्कटाः स्वरूपतोऽध्यवसायतो वा आरम्भाः सावधव्यापारास्तत्परिणतस्तदासक्तः, क्षुद्रः सर्वस्याप्यहितैपी, सहसाऽनालोच्य प्रवर्तते इति साहसिकश्चौर्यादिदुष्कर्मकारीत्यर्थः, नरः उपलक्षणत्वात् रुयादिर्वा ॥२१॥ 'निद्धंधसत्ति' ऐहिकामुष्मिकापायशङ्काविकलः परिणामो यस्य स तथा, 'निस्संसोत्ति' निस्त्रिंशो जीवान् निधन् मनागपि न शकते, अजितेन्द्रियः, एतेऽनन्तरोक्तास्ते च ते योगाश्च व्यापारा एतद्योगास्तैः समायुक्तोऽन्वित एतद्योगसमायुक्तः कृष्णलेश्यां तुरेवकारार्थस्ततः कृष्णलेश्यामेव परिणमेत् । तद्रव्यसाचिव्येन तथाविधद्रव्यसम्पर्कात स्फटिकमिव तद्रूपतां भजेत् । उक्तं हि-"कृष्णादिद्रव्यसाचिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ १॥” इति ॥ २२ ॥ तथामूलम्-इस्सा-अमरिस-अतवो, अविज्ज माया अहीरिया। गेही पओसे य सढे, पमत्ते रसलोलुए॥२३॥ __ मृलम्-सायगवेसए अ आरंभाविरओ खुद्दो साहस्सिओ नरो।
___ एअजोगसमाउत्तो, नीललेसं तु परिणमे ॥ २४ ॥ व्याख्या-ईर्पा च परगुणासहनं, अमर्पश्च रोपात्यन्ताभिनिवेशः, अतपश्च तपो विपर्ययोऽमीषां समाहारः । अविद्या कुशास्त्ररूपा, माया प्रतीता, अहीकता असदाचारगोचरो लज्जाभावः, गृद्धिर्विषयलाम्पट्यं, प्रदोषश्च प्रद्वेषः, अभेदोपचाराचेह सर्वत्र तद्वान् जन्तुरेवमुच्यते । शठो धृष्टः, प्रमत्तः प्रकर्षेण जातिमदाधासेवनेन मत्तः प्रमत्तो रसेषु लोलुपः लम्पटो रसलोलुपः ॥२३॥ सातं सुखं तद्वेशकश्च कथं मे सुखं स्यादिति बुद्धिमान् , आरम्भात् प्राण्युपमोदविरतः, शेपं प्राग्वत् ॥ २४ ॥