Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
382
उत्तराच्ययन
॥ अथ पञ्चत्रिंशमध्ययनम् ॥
अहम् ॥ उक्तं चतुस्त्रिंशमध्ययनमथानगारमार्गगत्याख्यं पञ्चत्रिंशमारभ्यते, अस्य चायं सम्बन्धः-इहानन्तराध्य. यनेऽप्रशस्ता लेश्यास्त्यक्त्वा प्रशस्ता एवाश्रयणीया इत्युक्तं, तच्च गुणवता भिक्षुणा सम्यकर्तुं शक्यमिति इह तद्गुणा उच्यन्त इति सम्बन्धस्यास्येदमादिसूत्रम्मूलम्-सुणेह मेगग्गमणा, मग्गं बुद्धेहिं देसिअं । जमायरंतो भिक्खू , दुक्खाणंतकरो भवे ॥१॥
व्याख्या-शृणुत मे वदत इति शेषः, हे शिष्याः ! यूयं एकाग्रमनसोऽनन्यचित्ताः, किं तदित्याह-मार्ग मुक्त रिति प्रक्रमः, बुद्धरहंदाद्यैर्देशितं, यमाचरन्नासेवमानो भिक्षुः दुःखानामन्तकरो भवेत्सकलकर्मनिर्मूलनादिति भावः ॥१॥प्रतिज्ञातमेवाहमूलम्-गिहवासं परिच्चज, पवजं अस्सिए मुणी। इमे संगे विआणेजा, जेहिं सजंति माणवा ॥२॥
व्याख्या-गृहवासं परित्यज्य प्रव्रज्यामाश्रितो मुनिः इमान् प्रतिप्राणिप्रतीतत्वेन प्रत्यक्षान् सङ्गान् पुत्रकलत्रादीन विजानीयात् , भवहेतवोऽमी इति विशेपेणाववुध्येत, ज्ञानस्य च विरतिफलत्वात् प्रत्याचक्षीतेति भावः । सङ्ग शब्दव्युत्पत्तिमाह-यैः सज्यन्ते प्रतिवन्धं भजन्ति मानवा उपलक्षणत्वादन्येऽपि जन्तवः ॥ २॥ मूलम्-तहेव हिंसं अलिअं, चोजं अब्बंभसेवणं । इच्छा कामं च लोभं च, संजओ परिवजए॥३॥
व्याख्या-तथेति समुच्चये, एवेति पूरणे, हिंसामलीक चौर्यमब्रह्मसेनं इच्छारूपः काम इच्छाकामस्तं च अप्राप्तवस्तुवान्छारूपं लोभं च लब्धवस्तुविषयगृद्धिरूपं अनेनोभयेनापि परिग्रह उक्तस्ततः परिग्रहं च संयतः परिवर्जयेत् ॥ ३॥ तथामूलम्-मणोहरं चित्तघरं, मल्लधूवेण वासि। सकवाडं पंडरुल्लोअं, भणसावि न पत्थए ॥४॥
व्याख्या-मनोहरं मनोज्ञं चित्रप्रधानं गृहं चित्रगृहं माल्यधूपेन वासितं सकपाटं पाण्डुरोलोचं मनसाप्यास्तां वचसा न प्रार्थयेत् , किं पुनः तत्र तिष्ठेदिति भावः ॥ ४ ॥ किं पुनरेवमुपदिश्यते ? इत्याहमूलम्-इंदिआणि उ भिक्खुस्स, तारिसम्मि उवस्सए । दुकराई निवारेउं, कामरागविवडणे ॥५॥
व्याख्या-इन्द्रियाणि तरिति यस्माद्विक्षोस्तारशे उपाश्रये दुष्कराणि करोतेः सर्वधात्वर्धव्याप्तत्वात नाशकानि निवारयितुं खस्खविषयेभ्य इति गम्यते, कामरागविवर्द्धने विषयाभिष्वङ्गपोपके इत्युपाश्रयविशेषणम् ॥५॥ तर्हि क स्थेयमित्याहमूलम्-सुसाणे सुन्नगारे वा, रुक्खमूले वा एगगो। पइरिके परकडे वा, वासं तत्थाभिरोअए ॥६॥
व्याख्या-३मशाने शून्यागारे वा वृक्षमूले वा एकको रागादिवियुक्तोऽमहायो वा प्रतिरिक्ते ख्याद्यसङ्कले परकृते परैर्निप्पादिते स्वार्थमिति शेपः, वा समुच्चये, वासमवस्थानं तत्र श्मशानादौ अभिरोचयेद्भिक्षुरिति योगः ॥ ६ ॥ मूलम्-फासुअंमि अणाबाहे, इत्थीहिं अभिदुए । तत्थ संकप्पए वासं, भिक्खू परमसंजए ॥७॥ ___ व्याख्या-प्रासुके अचित्तीभूतभूभागे अनाबाधे कस्याप्यावाधारहिते स्त्रीभिरुपलक्षणत्वात् पण्डकादिभिश्च अनभिद्रुतेऽदूपिते, तत्र प्रागुक्तविशेषणे श्मशानादौ सङ्कल्पयेत्कुर्याद्वासं भिक्षुः, परमो मोक्षस्तदर्थ संयतः परमसंयतः । प्राग् वासं तत्राभिरोचयेदित्युक्ते रुचिमात्रेणैव कश्चित्तुष्येदिति तत्र सङ्कल्पयेद्वासमित्युक्तम् ॥ ७ ॥ ननु ? किमिह परकृत इति विशेषणमुक्तमित्याशंक्याहमूलम्-न सयं गिहाई कुविजा, नेव अन्नेहिं कारवे । गिहकम्मसमारंभे, भूआणं दिस्सए वहो ॥८॥
व्याख्या-न खयं गृहाणि कुर्वीत नैवान्यैः कारयेदुपलक्षणत्वान्नापि कुर्वन्तमन्यमनुमन्येत, किमिति यतो गृहकर्म इष्टकामृदानयनादि तस्य समारम्भः प्रवर्तनं गृहकर्मसमारम्भः तस्मिन् भूतानां प्राणिनां दृश्यते वधः ॥ ८॥ कतरेपामियाह

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424