Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 380
________________ उत्तराध्ययन 375 विशेषेण कटुविपाकत्वलक्षणेन भवहेतुत्वलक्षणेन च ज्ञात्वा एतेषां कर्मणामनुपात्तानां संवरे निरोधे, च समुचये एवोऽवधारणे भिन्नक्रमः सोऽग्रतो योक्ष्यते, क्षपणे च पूर्वोपात्तानां निर्जरणे 'जएत्ति' यततैव यत्नं कुर्यादेव बुधो धीमानिति सूत्रार्थः ॥ २५॥ इति ब्रवीमीति प्राग्वत् ॥३३॥ RECORIALOMADARSOMERCORATOR AAROMADARPAN इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रयस्त्रिंशमध्ययनं सम्पूर्णम् ॥ ३३॥ S லேலைலைலலைல ॥ अथ चतुस्त्रिंशमध्ययनम् ॥ ॥ ॐ ॥ उक्तं त्रयस्त्रिंशमध्ययनमथ चतुस्त्रिंशं लेश्याध्ययनमारभ्यते, अस्स चायं सम्बन्धोऽनन्तराध्ययने कर्मप्रकतय उक्तास्तस्थितिश्च लेश्यावशात् स्यादितीह ता उच्यन्ते, इति सम्बन्धस्यास्येदमादिसूत्रम्मूलम्-लेसज्झयणं पवक्खामि, आणुपुवि जहकमं । छहंपि कम्मलेसाणं, अणुभावे सुणेह मे ॥१॥ व्याख्या-लेश्यावाचकमध्ययनं लेश्याध्ययनं प्रवक्ष्यामि, आनुपूर्वेत्यादि प्राग्वत् । तत्र षण्णामपि कर्मलेश्यानां कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणामनुभावान् रसविशेषान् शृणुत मे कथयत इति शेषः ॥१॥ एतदनुमा. वाश्च नामादिप्ररूपणे कथिता एय भवन्तीति तत्प्ररूपणाय द्वारसूत्रमाहमूलम् –णामाइंवण्णरसगंधफासपरिणामलक्खणं ठाणं। ठिइं गइंच आउं, लेसाणं तु सुणेह मे ॥२॥ व्याख्या-नामानि वर्ण-रस-गन्ध-स्पर्श-परिणाम-लक्षणमिति पण्णां समाहारः, परिणामश्चात्र जघन्यादिः, लक्षणं पञ्चाश्रवसेवादि, स्थानमुत्कर्षापकर्परूपं, स्थितिमवस्थानकालं, गतिं च नरकादिकां यतो याऽवाप्यते, आयु. र्जीवितं यावति तत्रायशिष्यमाणे आगामिभयलेश्यापरिणामस्तदिह गृह्यते, लेश्यानां तु शृणुत मे वदत इति सूत्रार्थः ॥ २ ॥ यथोद्देशं निर्देश इत्यादौ नामान्याह मूलम्-किण्हा १ नीला २ य काऊ ३ य, तेऊ ४ पम्हा ५ तहेव य । सुकलेसा य ६ छट्ठा उ, नामाइं तु जहक्कम ॥३॥ व्याख्या-स्पष्टा ॥३॥ वर्णानाहमूलम्-जीमूतनिद्धसंकासा, गवलरिदृगसन्निभा। खंजंजणनयणनिभा, किण्हलेसा उ वण्णओ॥४॥ व्याख्या-जीमूतनिद्धसंकासत्ति' प्राकृतत्वात् स्निग्धजीमूतसंकाशा, गवलं महिपशृङ्ग-रिष्टकः काकः-फलविशेपो या तत्सन्निभा, 'खंजत्ति' खञ्जनं स्नेहाभ्यक्तशकटाक्षघर्पणोद्भवं-अञ्जनं कजलं-नयनमित्युपचारान्नयनमध्यवर्तिनी कृष्णतारा-तन्निभा, कृष्णलेश्या तु वर्णतो वर्णमाश्रित्य परमकृष्णेत्यर्थः ॥४॥ मूलम्-नीलासोगसंकासा, चासपिच्छसमप्पभा। वेरुलियनिद्धसंकासा, नीललेसा उ वण्णओ॥५॥ व्याख्या-नीलाशोकसंकाशा रक्ताशोकापोहार्थमिह नीलग्रहणं, 'वेरुलियनिद्धसंकासत्ति' स्निग्धवैडूर्यसङ्काशा अतिनीलेत्यर्थः ॥ ५॥ मूलम्-अयसीपुप्फसंकासा, कोइलच्छदसन्निभा । पारेवयगीवनिभा, काउलेसा उ वण्णओ ॥६॥ व्याख्या-अतसी धान्यविशेषस्तत्पुष्पसङ्काशा, कोकिलच्छदस्तैलकण्टकस्तत्सन्निभा, पाठान्तरे कोकिलछविसनिभा, पारापतग्रीवानिभा, कापोतलेश्या तु वर्णतः, किञ्चित्कृष्णा किञ्चिद्रक्तेति भावः ॥ ६॥

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424