Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
376
उत्तराध्ययन मलम-हिंगुलधाउसंकासा, तरुणाइच्चसन्निभा । सुअतुंडपईवनिभा, तेउलेसा उ वण्णओ ॥७॥
व्याख्या-इह धातुर्गेरिकादिः, 'सुअतुंड' इत्यादि-शुकम्य तुण्डं मुखं तच्च प्रदीपश्च तन्निभा रक्तेत्यर्थः ॥ ७ ॥ मूलम्-हरियालभेयसंकासा, हलिद्दाभेयसन्निभा। सणासणकुसुमनिभा, पम्हलेसा उ वण्णओ॥८॥
व्याख्या-हरितालस्य यो भेदो द्विधाभावस्तत्सङ्काशा, भित्रस्य हि तस्य वर्णः प्रकृष्टः स्यादिति भेदग्रहणम् , हरिद्राभेदसन्निभा, सणो धान्यविशेषः-असनो वीयकस्तयोः कुसुमं तन्निभा पीतेत्यर्थः ॥ ८॥ मूलम्-संखंककुंदसंकासा, खीरधारासमप्पभा । रययहारसंकासा, सुक्कलेसा उ वण्णओ ॥९॥
व्याख्या-शङ्खः प्रतीतः, अङ्को मणिविशेषः, कुन्दं कुन्दपुष्पं, तत्सङ्काशा, क्षीरधारासमप्रभा, पात्रस्थस्य हि तस्य तद्वशादन्यथात्वमपि स्यादितीह धाराग्रहणम् । शेपं व्यतमिति सूत्रपट्कार्थः ॥९॥ रसानाह
मूलम्-जह कडुअतुंबगरसो, निंवरसो कडुअरोहिणिरसो वा ।
एत्तोवि अणंतगुणो, रसो उ किण्हाइ नायवो ॥१०॥ व्याख्या-यथा कटुकतुम्बकरसो निम्बरसः कटुकरोहिणी त्वगविशेषः तद्रसो वा यथेति सर्वत्र योज्यम् । इतो. प्यनन्तगुणोऽनन्तसंख्येन राशिना गुणितो रसस्तु कृष्णाया ज्ञातव्यः ॥ १०॥
मूलम्-जह तिकडुअस्स य रसो, तिक्खो जह हरिथपिप्पलीए वा।
एत्तोवि अणंतगुणो, रसो उ नीलाइ नायवो ॥ ११ ॥ व्याख्या-त्रिकटुकस्य शुण्ठीपिप्पलीमरिचरूपस्य, हस्तिपिप्पल्या गजपिप्पल्याः ॥ ११ ॥ मूलम्-जह तरुणअंबगरसो, तुवरकविट्ठस्स वावि जारिसओ।
एत्तोवि अणंतगुणो, रसो उ काऊइ नायवो ॥ १२ ॥ व्याख्या-तरुणमपक्कं आम्रकमाम्रफलं तद्रसः, तुवरं सकपायं यत् कपित्थं कपित्थफलं तस्य वापि याशको रस इति प्रक्रमः ॥ १२ ॥ मूलम्-जह परिणयंबगरसो, पक्ककविट्ठस्स वावि जारिसओ। एत्तोवि अणंतगुणो, रसोउ तेऊइ नायबो व्याख्या-यथा परिणताम्रकरसः किञ्चिदम्लो मधुरश्चेति भावः ॥ १३ ॥
मूलम्-वरवारुणीइ व रसो, विविहाण व आसवाण जारिसओ।
महमेरगस्स व रसो, एत्तो पम्हाए परएणं ॥ १४ ॥ व्याख्या-वरवारुणी प्रधानमदिरा तस्या वा यादृशक इति सम्बन्धः, विविधानां वा आसवानां पुष्पोत्पन्नमद्यानां यादृशको रस इति योगः, मधु मद्यविशेपो मैरेयं सरकस्तयोः समाहारे मधुमैरेयं तस्य वा रसो याशकः, अतो वरवारुण्यादिरसात् पद्माया रस. परकेण, अनन्तगुणत्वात्तदतिक्रमेण वर्त्तते इति शेषः, अयं च किञ्चिदम्ला कषायो मधुरश्चेति भावनीयम् ॥ १४ ॥ मूलम्-खजूरमुदियरसो,खीररसो खंडसकररसो वा। एत्तोवि अणंतगुणो, रसोउ सुक्काइ नायवो ॥१५॥ व्याख्या-अत्र मृद्वीका द्राक्षा, शेपं व्यक्तमिति सूत्रपदकार्थः ॥ १५ ॥ गन्धमाहमूलम्-जह गोमडस्स गंधो, सुणगमडस्स व जहा अहिमडस्स ।
एत्तो वि अणंतगुणो, लेसाणं अप्पसत्थाणं ॥ १६ ॥ व्याख्या-'अप्पसत्थाणंति' अप्रशस्तानां कृष्ण-नील-कापोतानाम् ॥ १६ ॥ मूलम्-जह सुरहिकुसुमगंधो, गंधवासाण पिस्समाणाणं। एत्तो वि अणंतगुणो, पसत्थलेसाण तिण्हंपि
व्याख्या-'गंधवासाणंति' गन्धाश्च कोप्टपुटपाकनिष्पन्ना वासाश्चेतरे गन्धवासाः, इह च गन्धवासाङ्गान्येवोपचारादेवमुक्तानि, तेषां पिप्यमाणानां चूर्ण्यमानानां यथा गन्ध इति प्रक्रमः । 'पसत्थलेसाणंति' प्रशस्तलेश्यानां तेजः-पद्म-शुक्लानाम् । इह चानुक्तोपि गन्धविशेपो लेश्यानां तारतम्येनावसेय इति सूत्रद्वयार्थः ॥ १७॥ स्पर्शमाह

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424