Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
360
उत्तराध्ययन मूलम्-रागो य वोसोवि य कम्मबीयं, कम्मं च मोहप्पभवं वयंति ।
कम्मं च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ॥७॥ व्याख्या-रागश्च द्वेषोपि च कर्मणो ज्ञानावरणादेबीजं कारणं, अत एव कर्म च मोहप्रभवं मोहोपादानकारणं बदन्ति । कर्म च जातिमरणस्य मूलं कारणं, दुःखं च दुःखहेतुः पुनर्जातिमरणं वदन्ति ॥७॥ यतश्चैवमतः कि स्थितमित्याह
मूलम्-दुक्खं हयं जस्स न होइ मोहो, मोहो हो जस्स न होइ तण्हा ।
तण्हा हया जस्स न होइ लोहो, लोहो हओ जस्स न किंचणाई ॥ ८॥ व्याख्या-दुःखमुक्तरूपं हतमिय हतं, केनेत्याह-यस्य न भवति मोहो मोहस्यैव तन्मूलहेतुत्वात् । भोहो हतो यस्य न भवति तृष्णा, मोहायतनत्वात् तस्याः । तृष्णा हता यस्य न भवति लोभः, तृष्णाशब्देनोक्तनीत्या रागद्वेषयोरुक्तत्वात् , तयोश्च लोभक्षये सर्वथैवाभावात् , अत एव प्राधान्यात् रागान्तर्गतत्वेपि लोभस्य पृथग्ग्रहणं । लोमो हतो यस्य न किश्चनानि द्रव्याणि सन्तीति शेषः, सत्सु हि तेषु प्रायः स्यादेवामिकांक्षेति सूत्रत्रयार्थः ॥८॥ ननु सन्तु दुःखस्य मोहाचा हेतवो हननोपायस्तेषां पूर्वोक्त एव उतान्येपि सन्तीत्साशंक्य सविस्तरं सदुन्मूलनोपायान् विवक्षुः प्रस्तावनामाह
मूलम् -रागं च दोसं च तहेब मोहं, उद्धत्तुकामेण समूलजालं।
जे जे उवाया पडिवजियवा, ते कित्तइस्सामि अहाणुपुत्विं ॥९॥ व्याख्या-रागं च द्वेषं च तथैव मोहं उद्धर्जुकामेन उन्मूलयितुमिच्छता सह मूलानां तीव्रकपायादीनां विषया. दीनां च जालेन वर्त्तते योऽसौ समूलजालस्तं, ये ये उपायाः प्रतिपत्तव्याः स्वीकार्यास्तान् कीर्तयिष्यामि यथानुपूिित सूत्रार्थः ॥९॥ प्रतिज्ञातमाह
मूलम्-रसापगाम न निसेविअवा, पायं रसा दित्तिकरा नराणं ।
___दित्तं च कामा समभिवंति, दुमं जहा सादुफलं व पक्खी ॥ १० ॥ व्याख्या-रसाः क्षीरादिविकृतयः प्रकामं वाढं न निषेवितव्या न भोक्तव्याः, प्रकामग्रहणं तु वातादिक्षोभनि
अपि जात ग्राह्या इति सूचनार्थम । क़त एवमुच्यत इत्याह-प्रायो बाहुल्येन रसा हप्तिकरा धातद्रेककारिणो नराणामुपलक्षणत्वात् रुयादीनां च भवन्ति, संच नरं बहुवचनप्रक्रमेप्येकवचनं जातित्यात् कामा विषयाः
१ नोपभोक्तव्याः -इति “घ” पुस्तके । समभिद्रवन्ति । कमिव के इव ? इत्याह-द्रुमं यथा खादुफलं, वेति भिन्नक्रम उपमार्थश्च ततः पक्षिण इव । इह द्रुमोपमः पुमान् , खादुफलकल्पं दृसत्वं, पक्षितुल्याः कामाः ॥ १०॥ किञ्च
मूलम्-जहा दवग्गी पउरिंधणे वणे, समारुओ नोवसमं उवेइ। ।
एविंदिअग्गीवि पगामभोइणो, न बंभयारिस्स हिआय कस्सइ ॥ ११ ॥ व्याख्या-यथा दवाग्निः प्रचुरेन्धने वने समारुतः सवायुर्नोपशमं उपैति, एवं दयामिवत् 'इंदियग्गित्ति' इहेन्द्रियशब्देन इन्द्रियजनितो राग एवं गृह्यते स एव धर्मद्रुमदाहकत्वादमिरिन्द्रियामिः, सोऽपि प्रकामभोजिनोऽतिमात्राहारस्य न ब्रह्मचारिणो हिताय कस्यचित्सुस्थितस्यापि स्यात् ॥ ११ ॥ अन्यच्च
मूलम्-विवित्तसेजासणजंतिआणं, ओमासणाणं दमिइंदिआणं ।
न रागसत्तू धरिसेइ चित्तं, पराइओ वाहिरिवोसहेहिं ॥ १२ ॥ व्याख्या-विविक्ता ख्यादिवियुक्ता शय्या वसतिस्तस्यामासनमवस्थानं तेन यंत्रिता नियंत्रिता विविक्तशय्यासनयंत्रितास्तेषां अवमाशनानां न्यूनभोजनानां दमितेन्द्रियाणां न रागशत्रुर्द्धर्षयति पराभवति चित्तं, क इव ? पराजितः पराभूतो व्याधिः कुष्ठादिरिवीपधैर्गदुच्यादिभिर्देहमिति गम्यते ॥ १२ ॥ विविक्तवसत्यभावे दोपमाह

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424